सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 24, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 24

१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥
योऽग्नेरतिसमीपमनवहितः समुपसर्पति तमेकमेवाग्निर्दह-
ति न तत्पुत्रादिकमिति । अन्यैस्तु दुःखेन मरणाद्युद्यतम् अ-
ग्निसमीपगामिनमिति व्याख्यातम् । एतद्व्याख्याद्वितयादपि
दुरुपसर्पिणं स्वापराधं ज्ञात्वापि बलात्तत्सद्दिग्ये प्रवृत्तमग्निरेकमेव
दहति तम्, अन्यायपथगामिनं ज्ञात्वा क्रुद्धो राजा तं तदीयकुलं
च पुत्रभ्रात्रादिरूपं पशुभिर्धनसञ्चयैश्च सहितं नाशयतीति व्या-
ख्यानं युक्तम् । एवमेकविषयतापि लभ्यते ।
कार्याण्यवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥
कार्यं सोऽवेक्ष्येति क्वचित्पाठः । कार्यम् अनुग्रहनिग्रहादि-
योग्यताम्, शक्तिं बलम्, देशं दूरनिकटादिकम्, कालं सुभि-
क्षदुर्भिक्षादिमवेक्ष्यात्मानं विश्वरूपं नानारूपं करोति । क्षणे
तुष्टः क्षणे रुष्टः । अशक्तौ क्षान्तः शक्तौ उन्मूलकः । स्वकार्या-
नुरोधेन शत्रुर्मित्रं उदासीनो वा भवति । अत एव—
कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि ।
राजा मित्रं केन दृष्टं श्रुतं वा ।
इत्युक्तम् । तेन मैत्र्यादिनापि नावमन्तव्यः ।
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥
श्रीकामेन श्रीप्राप्त्यै शत्रुमता शत्रुहननाय जीवितार्थिना
जीवस्थित्यै राजा सेव्यः । अत्र मेधातिथ्यादयः-पद्माशब्दः
श्रीपर्यायोऽपि महत्त्वप्रतिपादनाय, अर्थाद्वैय्यर्थं पद्माशब्दस्य ।
वस्तुतस्तु पद्मा लक्ष्मीः, श्रीः शरीरशोभा । तथा च-“श्रीश्च ते