वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 37, कुल 490 में से
संदर्भ में पढ़ेंराजाभिषेके विहितकालाः । ३३
अथ राजाभिषेके विहितकाला निरूप्यन्ते ।
विष्णुधर्मोत्तरे,
इति सम्भृतसम्भारो राज्ञः सांवत्सरस्ततः ।
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते ॥
इत्युपक्रम्य-
ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्यौ तथैव च ।
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने ॥
इतीति वक्ष्यमाणसम्पादितसामग्रीकः । सांवत्सरो ज्यो-
तिषिकः ।
सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि । इत्यमरात् ।
ध्रुवाणि रोहिणी उत्तरात्रयं च । वैष्णवं श्रवणः। शाक्रं ज्येष्ठा।
गरुडपुराणे,
रोहिण्यार्द्रा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् ।
वारुणं श्रवणं चैव एते चोर्ध्वमुखाः स्मृताः ॥
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् ।
वारुणं शतभिषा । पट्टबन्धं वक्ष्यमाणलक्षणोपेतम् ।
विष्णुधर्मोत्तरे,
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने प्रशस्यते ।
एतेषां जन्मलग्नाभ्यां यस्मादुपचयोऽस्त्यतः ॥
तारा द्वितीया षष्ठी तु चतुर्थी चाष्टमी तथा ।
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः ॥
सौम्याः केन्द्रगता लग्नात् शुभाश्चैव त्रिकोणयोः ।
पापाश्चोपचयस्थाने शस्तो लग्ने दिवाकरः ॥
लग्ने नवांशे स्थितिरस्य वर्गे वर्गस्तथा तस्य महानुभाव ।
सूर्यस्य वर्गः सकलःप्रशस्तो राज्ञोऽभिषेके स नृपो ग्रहाणाम् ॥
५