सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 38, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 38

२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
स सूर्यो ग्रहाणां नृपः स्वामी ।
वृत्तशते,
जन्मेशलग्नेशदशेशसूर्ये भौमे बलिष्ठे क्षितिपाभिषेकः ।
ज्येष्ठाश्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथावरिक्ते ॥
लग्ने चरे चोपचयस्थिते च शीर्षोदये च क्षितिपाभिषेकः
शस्तस्त्रिषष्ठायगतैश्च पापैः सौम्यैः षडन्त्यायविवर्जितैश्च ।
कश्यपः,
अथातः सम्प्रवक्ष्यामि भूपानामभिषेचनम् ।
सौम्यायने क्षते जीवे नास्तगे न च वृद्धके ॥
स्वलग्नराशिगे लग्ने तदंशे वा बलान्विते ।
पट्टबन्धनलग्नेशे तदंशेशे च नास्तगे ॥
सुहृत्त्रिकोणस्वक्षेत्रतुङ्गसंस्था ग्रहा यदि ।
यस्याभिषेके कुर्वन्ति स्थिरां कीर्तिं श्रियं सुखम् ॥
ब्रह्मपुराणे,
सुतिथौ च सुनक्षत्रे स्नानं नक्षत्रनामकम् ।
मुहूर्त्ते सुगुणोपेते सर्वोत्पातविवर्जिते ॥
स्थिरे राशौ शुभयुते केन्द्रे चोपचयान्विते ।
सुतिथौ चतुर्थीनवमीचतुर्दशीभिन्नतिथौ । सुनक्षत्रे “ध्रुवाणि
वैष्णवं शाक्रम्” इत्यादिना विहितनक्षत्रे । नक्षत्रनामकं स्ना-
नम्, विधायेतिशेषः । तच्च विष्णुधर्मोत्तरे जन्मनक्षत्रे विहितम-
ग्रेऽभिधास्यते । पुष्यस्नानं वा विधाय । मुहूर्ते सुगुणोपेत इत्य-
नेन गुरुशुक्रास्तादिरहितशुद्धमासादिरूपः काल उपलक्ष्यते ।
स्थिरे राशौ वृषसिंहवृश्चिककुम्भेषु । शुभयुते शुभग्रहयुते । के-
न्द्रे प्रथमचतुर्थसप्तमदशमभवने ।