वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 42, कुल 490 में से
संदर्भ में पढ़ें३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
तं वै हिरण्यकशिपुं विदुर्बुधा यं तं हिरण्याक्षमसूत साग्रतः ॥
स्वदेहात् पितृदेहात् । प्राक् गर्भनिषेककाले । सा अदितिः ।
गर्भाधानकाले यथा प्राक्पश्चाद्भावस्तथोक्तः—
पिण्डसिद्धौ,
यदा विशेत् द्विधाभूतं वीजं पुष्पं परिक्षरत् ।
द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ॥
सूतिः प्रसवः । वेशविपर्ययात् वेशो वीजप्रवेशः, तद्विपर्ययात्
तद्वैपरीत्येन । यस्य पूर्वं निषेकः तस्य पश्चादुत्पत्तिः यस्य च
पश्चान्निषेकस्तस्य पूर्वमुत्पत्तिरिति चेत्, उच्यते । “जन्मना
ज्यैष्ठ्यमुच्यते” इति “तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम्” इति मनु-
देवलवचनाभ्यां विरोधे “प्रजापतिर्नाम तयोरकार्षीत्” इति भाग-
वतवचनस्य सिद्धार्थमात्रबोधकस्य ज्यैष्ठ्यविधायकत्वमिति व-
क्तुमशक्यत्वात्, “सूतिर्वेशविपर्ययात्” इत्यस्यापि एकदा निषि-
क्तयोरुपरिभागानिषिक्तस्य पश्चान्निर्गम इति देशिक एव विपर्य-
योऽर्थः, न तु गर्भे पूर्वमुत्पन्नस्येत्येतावत्पर्यन्तमर्थः । एकस्यापि
सङ्कीर्णवीथीस्थितस्य गजादेः पराङ्मुखतयैव परावृत्तौ विप-
रीतो निर्गत इति प्रयोगात् । न च मनुवाक्ये गर्भेषु जन्मनेत्य-
न्वयो युक्तः, गर्भसम्भूतावपत्यजन्माभूदित्यप्रयोगात् । निर्गमे
च तादृशप्रयोगाद्देवलवाक्यैकवाक्यत्वाच्च पूर्वोक्तमेधातिथ्यादि-
कृतव्याख्यानस्यैवोचितत्वात् । इतरथा निषेकक्रमेण ज्येष्ठत्वे-
ऽनेकपत्नीकस्यैकस्यां पूर्वं निषिक्तो गर्भः शल्यीभूतोऽन्यस्यां
चानन्तरनिषिक्तः स्वकाले उत्पन्नस्तदपेक्षया शल्यवृद्ध्या विं-
शतिवर्षानन्तरोत्पन्नस्य ज्येष्ठत्वव्यवहारप्रसङ्गः । यदि चैकगर्भ
एव निषेकक्रमेण ज्यैष्ठ्यं न पृथग्गर्भे, भागवतवचनानुरोधादि-
त्युच्यते, तत्रोक्त एव मनुदेवलवचनाविरोधः । अस्तु वा तथा '