सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 28, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 28

२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
दीप्तत्वाच्च शुचित्वाच्च यद्यसौ न पथश्च्युतः ॥
पथश्च्युतो भ्रष्टाचारः ।
अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥
अशुचिरित्यादिः तस्मात्तं नावजानीयादित्यस्याग्रेतन-
स्यार्थवादः ।
तस्मात्तं नावजानीयान्नाक्रोशेन विशेषयेत् ।
वस्त्रालङ्कारादिभिस्तमपेक्ष्यात्मानं नाधिकं कुर्यात् ।
आज्ञया तस्य तिष्ठेत्तु मृत्युः स्यात्तद्व्यतिक्रमे ॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
स यद्ब्रूयादसत्सद्वा स धर्मो व्यवहारिणाम् ॥
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।
न तस्याज्ञामतिक्रम्य प्रतिष्ठेरन्निमाः प्रजाः ॥
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।
यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां निर्गुणोऽप्येवं पूज्य एव नराधिपः ॥
राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः ।
व्यवहारस्ततो ज्ञेयः शंसतो राजशासनम् ॥
राजशासनं राजाज्ञाम् ।
स्थित्यर्थं पृथिवीपालैश्चारित्रविधयः कृताः ॥
चारित्रविधयः राजकृता भागादिव्यवस्थाः ।
चारित्रेभ्योऽप्यतः प्राहुर्गरीयो राजशासनम् ॥
तपःक्रीताः प्रजा राज्ञः प्रभुरासां नराधिपः ।
तस्मात्तद्वचसि स्थेयं वार्ता तासां तदाश्रया ॥