वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
इस ग्रन्थ के बारे में
'वेदस्वरूप-विमर्श' स्वामी हरिहरानन्द सरस्वती, जिन्हें स्वामी करपात्री जी महाराज के नाम से जाना जाता है, की रचना है। करपात्री जी (१९०७-१९८२) बीसवीं शताब्दी के प्रमुख सनातनी संन्यासी और शास्त्रार्थी थे, जिन्होंने वेद-प्रामाण्य और परम्परागत धर्म के पक्ष में विपुल साहित्य लिखा। यह ग्रन्थ वेद के वास्तविक स्वरूप पर उनका विचार प्रस्तुत करता है।
ग्रन्थ के सम्पादक न्याय-व्याकरण-साहित्याचार्य पं० रामगोविन्द शुक्ल हैं, और इसे भक्ति-सुधा साहित्य परिषद, कलकत्ता ने प्रकाशित किया। संस्कृत में लिखे गए सम्पादकीय निवेदन के अनुसार यह ग्रन्थ उन मतों का युक्ति और प्रमाण से खण्डन करता है जो वेद को आंशिक रूप से ईश्वर-रचित या ऋषि-रचित मानते हैं, जो ब्राह्मण-ग्रन्थों को वेद नहीं मानते, या जो वेद की आधुनिक 'विज्ञानवादी' व्याख्या करते हैं।
ग्रन्थ के मुख्य विषय हैं: वेद की अपौरुषेयता और शब्द की नित्यता, मन्त्र और ब्राह्मण दोनों का वेदत्व, आर्ष व्याख्या-पद्धति, और वेद पर आधुनिक आक्षेपों का उत्तर। मीमांसा-दृष्टि से वेद-प्रामाण्य पर हुई बीसवीं शताब्दी की बहस को समझने के लिए यह एक महत्त्वपूर्ण स्रोत है।
१८२ वेदस्वरूप-विमर्शः
षाणामभूतानामपीणामेव वाचः, ऋषीणामेव प्रथमाविर्भूतत्वात्" इति । परं
सर्वमिदं कल्पनामात्रम् ; निर्विशेषब्रह्माव्यतिरिक्तस्य सर्वस्यैव कार्यत्वेन
भवदभिमतापौरुषेयत्वासम्भवात् 'एकमेवाद्वितीय'मित्यादिश्रुतिविरोधाच्च ।
ब्रह्मान्तर्गतत्वेऽपि स्वगतभेदापस्त्या न विरोधपरिहारसम्भवः । जीवाना-
मपि परमार्थतो ब्रह्मरूपतैवेति न तेन सद्वितीयतापत्तिः । न तथा प्रकृति-
तद्विकाराणां ब्रह्मणा मुख्याभेदस्तत्र, बाधसामानाधिकरण्ये 'योऽयं स्थाणुः
पुमानेषः इति बाधेनैव अभेदव्यवहारात् ।
न च उपनिषत्पुराणादिषु न वा तद्विचाररूपे ब्रह्मसूत्रे च तन्निर्णयः,
तेषां ब्रह्मभिन्नत्वे कार्यत्वम्, अभिन्नत्वे चिद्रूपता, प्राणादीनामचिद्रूपता-
वर्णनविरोधश्च । इन्द्रियरूपाया वाचो वेदलक्षणायाश्च तदधिष्ठात्र्या
[
१८४ वेदस्वरूप-विमर्शः
वस्तुतस्तु—'स्वाध्यायोऽध्येतव्यः' इति विधिना सार्थस्यैव स्वाध्याय-
पदवाच्य-वेदराशेः अध्ययनविधानात् तदर्थमेव पूर्वोत्तरमीमांसात्मकस्य
वाक्यशास्त्रस्य प्रवृत्तेश्च आचार्यपारम्पर्येणैव वेदस्वरूपग्रहणवद् वेदार्थ-
स्यापि ग्रहणौचित्यम्। यद्यपीदानीं पारम्पर्यविलोपो इव दृश्यते; तथापि
वसिष्ठ-मनु-व्यास-जैमिनि-कुमारिल-शङ्कर-मण्डन-पद्मपाद-तोटक-हस्ता-
मलक-वाचस्पति-सायणादिभिः पारम्पर्येणैव वेदांस्तदर्थांश्च अधिगंत्यैव
तदर्थसम्बन्धे किञ्चिदुदितं लिखितं वा। अतो मन्त्राणां ब्राह्मणानां श्रौत-
सूत्राणां पूर्वोत्तरमीमांसासूत्राणां यागोपासनादिपद्धतीनाञ्च अनुष्ठानपार-
म्पर्याणाञ्च एकरूप्येण संगतिर्भवति। व्याकरण कोशादिबलेनैव अर्थकरणे
तु शतधा सहस्रधा विरुद्धा अपि पण्डितप्रकाण्डैरनेके विस्मापका अर्थाः
कर्तुं शक्यन्त एव।
यदुक्तम्—'तदानीं भौतिकविज्ञानस्य अनाविर्भूतत्वाद् वैज्ञानिकेऽर्थे
तेषां भाष्यकाराणां दृष्टिर्न गता, इदानीन्तनानां विज्ञानसंस्कृतत्वात्
वैज्ञानिकार्थाविष्कारः संभवती'ति। तन्न; तथात्वे वेदस्य आधुनिक-
विज्ञानैरेव गतार्थत्वात् अनुपादेयत्वापत्तेः। किञ्च—यदि संशय-विपर्यया-
नास्कन्दितं यथार्थज्ञानमेव विज्ञानं तदा तु सायणादिभाष्यमपि विज्ञान
बोधकमेव भाष्यमिति वक्तुं शक्यत एव।
यदप्युक्तम्—"विभिन्नं वस्तुजातमखिलङ्गीकृत्य मूलान्वेषणक्रमेण
एकत्वपर्यन्तं गतिर्ज्ञानम्, एकं तत्त्वं निरूढं मत्वा क्रमेण तस्य अनन्त-
रूपताप्रतिपत्तिर्विज्ञानम्, विशिष्य ज्ञानं हि विज्ञानम्, विविधं ज्ञानं
विभेदेन ज्ञानं वा विज्ञानमिति प्रत्यक्षे प्रत्यक्षायिते वा स्फुटे प्रतिभासे
विज्ञानशब्दः प्रवर्तते। 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः'
इति कोषाद्दि'ति। तदंशत एव सत्यम्; मोक्षहेतुज्ञानेऽपि विज्ञानशब्द-
प्रयोगदर्शनात्। अत एव 'विज्ञानं शिल्पशास्त्रयोरित्यपि नैकान्तिकम्,
किन्तु प्रायिकमेव।
'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।'
इति बृहदारण्यके मोक्षहेतौ विज्ञानशब्दप्रयोगदर्शनात्। अन्यत्राप्युक्तम्—
वेदस्वरूप-विमर्शः १८५
'अविज्ञातं विजानतां विज्ञातमविजानताम्।' ( केनोपनिषद् )
'एवं मुनेर्विजानत आत्मा भवति गौतम।' ( काठके )
'विज्ञातारमरे केन विजानीयात्।'
'तद्विज्ञानेन परिपश्यन्ति धीराः।'
'वेदान्त-विज्ञान-सुनिश्चितार्थाः ।' ( इति मुण्डके )
'आनन्दो ब्रह्मेति व्यजानात्। ( तैत्तिरीयके )
'तद्धास्य विजज्ञाविति विजज्ञाविति।' ( छान्दोग्ये )
'भूमानं भगवो विजिज्ञासे।'
सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमनुविद्य विजानाति।'
'विज्ञातारमरे केन विजानीयात्।' ( बृहदारण्यके )
यथा 'सत्यं ज्ञानमिति ज्ञानपदं ब्रह्मपरम्, तथैव 'विज्ञानमानन्दं
ब्रह्म'ति विज्ञानपदमपि ब्रह्मपरम्।
'नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते।'
'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।' ( बृहदारण्यके )
'तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥' (सप्तशती)
'विबुद्धश्च भक्त्यैव कथोपनीतया प्रपेदिरेऽद्धोच्युत ते गतिं
पराम्' इति च। विबोधो विज्ञानमित्यनर्थान्तरम्।
वस्तुतस्तु—ब्रह्मसाक्षात्कारस्य अपरोक्षरूपत्वात् ब्रह्मज्ञानं प्रत्यक्ष-
ज्ञानमेव। तेन तत्र तत्र विज्ञानशब्दप्रयोग एव। अत एव 'ज्ञानं तेऽहं सवि-
ज्ञानम्' इत्यत्र ज्ञानपदेन शास्त्रार्थज्ञानं विज्ञानशब्देनापरोक्षज्ञान-
मेव विवक्षितम्। तेनैव 'तमेव विदित्वा', ऋते ज्ञानान्न मुक्तिः' इत्यादौ
तु ज्ञानशब्देनैव अपरोक्षज्ञानं विवक्षितम्, तस्यैव मोक्षहेतुत्वात्।
अत एव श्रीशङ्कराचार्यप्रभृतिभिः विज्ञानसहितमित्यस्य अनुभव-
युक्तमिति विवरणं कृतम्।
'नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै।
ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥'
पृष्ठ १८४
१८४ वेदस्वरूप-विमर्शः
एतदेव हि विज्ञानं न तथैकेन येन तत् ।
स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥'
इति भागवत-वचनानामपि श्रीधरस्वामिभिः भेदन्निरसनपूर्वकमेकत्व-
दर्शनमेव विज्ञानमित्यर्थ उक्तः । तथा हि—यत् यदा एकेनानु-
गतान् एकात्मकान् भावान् पूर्वमैक्षत, ते तथा पूर्ववन्न पश्येत् । तदेकं
परमकारणं ब्रह्मव । तदा एतदेव विज्ञानमुच्यते । स्थित्युत्पत्त्यया-
नित्यत्वेन तदुत्पत्त्यादिमत्त्वेन तदनन्यत्वं समर्थ्यते, तेन नैकवाक्यताऽपि
छिद्यते, न वाऽध्याहारादिकम्, सिद्धस्यैव स्फुटीकरणात् ।
न चैवं 'ज्ञानं तेऽहं सविज्ञानमिति विज्ञानस्य अप्रधानतादर्शनं
विरुद्धयेत इति वाच्यम्; 'यज्ञेन विविदिषन्ति' इत्यादौ शाब्दन्यायेन
प्रत्ययार्थस्य प्राधान्येऽपि तेनापि ईप्सिततमत्वेन इष्यमाणवेदनस्य
प्राधान्यवत् ज्ञानस्याप्राधान्येऽपि तत्साध्यत्वेन तत्प्राधान्याविरोधात् ।
वेदान्तिनये महावाक्यादिभिः शब्दैरेव अपरोक्षता भवति । मनना-
दिभिस्तु प्रतिबन्धनिवृत्तिरेव । तदुक्तं संक्षेपशारीरके-
'पुरुषापराधमलिना विषया निरवद्यचक्षुरुदयापि यथा ।
न फलाय भर्तृ विषया भवति, श्रुतिसंभवापि तु तथात्मनिधीः ॥
पुरुषापराधविनिवृत्तिफलः सकलो विचार इति वेदविदः ।
पुरुषापराधविगमे तु पुनः..................................॥' इति ।
ज्ञानं विज्ञानमिति परोक्षापरोक्षभेदेन ज्ञानद्वैविध्योक्तिरपि न
विरुद्धयते । प्रसङ्गानुसारेण विज्ञानशब्दस्यार्थो यज्ञादिविविधज्ञानमपि
न विरुद्धयते । अपरोक्षज्ञानाभिप्रायेण लौकिकविद्यास्वपि विज्ञानपद-
प्रयोगे न विरोधः अपरोक्षप्रतिभासत्वस्य सर्वानुगतत्वात् । परोक्षरूपासु
विद्यासु तु ज्ञानवैविध्याभिप्रायेणैव विज्ञानपदप्रयोगोऽस्तु । हर्षादि-
शब्दवद् अनेकार्थतास्वीकारस्यापि अदोषत्वात् ।
ननु अनेकार्थतास्वीकारस्य मीमांसकैः कदर्थितत्वाद् विज्ञानशब्दस्य
क्रमिको विकास एव सिद्धयतीति चेन्न । 'औत्पत्तिकस्त्वर्थस्य शब्देन
सम्बन्ध' इत्यादिसूत्रे शब्दार्थतत्सम्बन्धानाम् औत्पत्तिकत्वाभ्युपगन्तुभिः
मीमांसकैः विकासस्य नितरां निरस्तत्वात् ।
पृष्ठ १८५
[R1] वेदस्वरूप-विमर्शः १८५
[R2] अध्यारोपस्य विज्ञानार्थत्वे तेनैव मोक्षः सिद्ध्येत, पूर्वोदाहृतश्रुतिषु
[R3] विज्ञानस्य मोक्षहेतुत्वश्रवणात् । यस्मात् अध्यारोपापवादसिद्ध-
[R4] मोक्षहेतुभूत-निर्विशेषतत्वप्रतिभासेऽपि विज्ञानशब्दो अकामेनाप्यभ्यु-
[R5] पेतव्यः सत्यनेकार्थत्वे विज्ञानशब्दस्य तत्तदाचार्याणां विविधोपयोगोऽपि
[R6] समजसा भवन्ति ।
[R7] निदर्शित-श्रुतिषु निर्विशेष-ब्रह्मसाक्षात्कारे निर्विशेषे ब्रह्मणि च
[R8] विज्ञानशब्दप्रयोगः प्रदर्शित एवेति तदन्यप्रमाणानि तदनुसारेणैव
[R9] नेयानि । अत एव बौद्धैः ज्ञानसामान्य एव विज्ञानशब्दः प्रयुज्यते । तावतैव
[R10] ते विज्ञानवादिन उच्यन्ते । जैनैस्तु अपरोक्षात्मक-सर्वज्ञज्ञानमपि ज्ञान-
[R11] शब्देनैव व्यवह्रियते ।
[R12] 'ज्ञायते विद्द्यतेऽस्मादिति ज्ञानम्, पिता' इति मेदिनी ।
[R13] 'ज्ञातेयं ज्ञातृत्वम्'—इत्यमरः ।
[R14] 'विज्ञान-ज्ञान । जानकारी । बुद्धि । प्रतिभा । विवेक । निपु-
[R15] णता । पटुता । लौकिक ज्ञान । काम-धन्धा । व्यवसाय । सङ्गीत ।'—
[R16] इति संस्कृतशब्दार्थ कौस्तुभः ।
[R17] 'विवेकविज्ञाने । शास्त्राचार्योपदेशजे, साक्षान्मोक्षफले, आत्म-
[R18] निश्चये । तत्त्वज्ञाने । शास्त्रे । मोक्षफलिकायां धियि । जीवेश्वरजगद्भेद-
[R19] भ्रमाधिष्ठानभूते, नित्यस्वप्रकाशे, सच्चिदानन्दरूपाद्वितीये, परमार्थसत्ये ।
[R20] आत्मानात्मसर्वपदार्थावबोधे । विज्ञानं ज्ञानकर्मणोरिति मेदिनी ।
[R21] विज्ञानं कार्मणे ज्ञाने, इति हेमचन्द्रः । संशयविपर्ययरहिते ज्ञाने ।
[R22] चिच्छक्तौ । विज्ञप्तिरूपे ब्रह्मणि । अपरोक्षे ज्ञानफले । ब्रह्मात्मैक्या-
[R23] नुभवे । विज्ञप्तौ । यज्ञादिधर्मकौशले । विवेकबुद्धौ । उपासने । शास्त्रार्थ-
[R24] विषयज्ञाने । शिल्पबुद्धौ । शिल्पकर्मणि ।'—इति शब्दार्थचिन्तामणिः ।
[R25] "ज्ञानं विशेषेण सामान्येन चावबोधः । 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं
[R26] शिल्पशास्त्रयोः इत्यमरः (१.५.६) । अस्यार्थः—मोक्षे शिल्पे शास्त्रे
[R27] च या धीः सा ज्ञानं विज्ञानञ्चोच्यते । एषा विशेषप्रवृत्तिः । अन्यत्र
[R28] घटपटादौ या धीः साऽपि ज्ञानं विज्ञानञ्चोच्यते । एषा सामान्या
[R29] प्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च, यथा-ज्ञानान्मुक्तिः । 'सा याचिता
वेदस्वरूप-विमर्शः (पृष्ठ १८८)
१८८ वेदस्वरूप-विमर्शः
च विज्ञानं तुष्टा ऋद्धि प्रयच्छति' । अन्यत्र यथा—'ज्ञानमस्ति समस्तस्य
जन्तोर्विषयगोचरे' इति । घटत्वप्रकारकज्ञानमिति केचित् । 'ये केचित्
प्राणिनो लोके सर्वे विज्ञानिनो मताः' इति ।'—इति शब्दकल्पद्रुमः।
'चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमितरं विद्याद्येन धर्मो विवर्धते ॥
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥
यथा संदेवो भगवान् विद्यते यत्र विद्यते ।
साक्षादेव महादेवस्तज्ज्ञानमिति कीर्तितम् ॥'
—इति कौर्मे उपविभागे १४ अध्याये ।
भौतिकविज्ञानवादिभिस्तु प्रमाणैर्ज्ञातस्य युक्तिभिः परीक्षितस्य
प्रयोगेणानुभव एव विज्ञानं मन्यते । न च वैदिकविज्ञानवादिनां प्राण-
वागादयः प्रयोगेणानुभवितुं शक्यन्ते, शब्दप्रमाणायत्तत्वात्तद्विज्ञानस्य ।
“यत्त जूः इति शब्दाभ्यां 'इलेक्ट्रोन-प्रोट्रोन' इति वैज्ञानिकप्रसिद्धे
तत्त्वे गृह्ये ते” इति कथनन्तु पशुनुकरणमेव ।
किञ्च—प्रत्यक्षं प्रत्यक्षाश्रितं वा ज्ञानमेव विज्ञानमिति रीत्याऽपि
वैदिकार्थज्ञानस्य न विज्ञानपदव्यपदेश्यत्वं संभवति, धर्मादितत्त्वस्य
शब्दैकसमधिगम्यत्वेन अपरोक्षत्वासंभवात् । वेदस्य दृष्टार्थपरत्ववर्णनं
तु भट्टपादैर्बहुधा खण्डितमेव—
'लोकायतिकमूर्खाणां नैवान्यत् कर्म विद्यते ।
यावत्किञ्चिद्दृष्टार्थं तद् दृष्टार्थं हि कुर्वते ॥
वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ।
अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥
तेभ्यश्चेत् प्रसरो नाम दत्तो मीमांसकैः कचित् ।
न च कश्चन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥
प्रसरं न लभन्ते हि यावत् कचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥
वेदस्वरूप-विमर्शः (पृष्ठ १८९)
वेदस्वरूप-विमर्शः १८९
कश्चिद् दत्तेऽवकाशो हि स्तोकेऽप्यालब्धजन्मभिः ।
जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥
तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् ।
एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥' इति ।
नास्तिकतानिकरणायैव भट्टपादानां मुख्यः प्रयत्न आसीत् । यथा-
'प्रायेणैव हि मीमांसा लोके लोकायतीकृता ।
तामास्तिकपथे कर्तु मयं यत्नो मया कृतः ॥ इति ।
यदुक्तम्—"वेदेषु विज्ञानसारेव शैली दृश्यते, एकस्मात् मूलात्
परस्परायत्त-विलक्षणपदार्थघटितस्य उत्पत्तिः बहुधा प्रपञ्चिता । तत्त-
द्वस्तुधर्माश्च करतलामलकवद्विस्पष्टं ग्राहिताः । तस्माद्वैदिकं सर्वमपि
विज्ञानम् आत्मविज्ञानं ब्रह्मविज्ञानं धर्मविज्ञानं विज्ञानशब्देनैव
उपदेष्टुमर्हम्” इत्यादि । तत्सत्यम् ; विस्पष्टताऽभिप्रायेण तथात्वेऽपि
धर्माऽपूर्व-स्वर्गाद्यतीन्द्रियाणां पदार्थानां शास्त्रैकसमधिगम्यत्वेन करतल-
गतामलकवत् अपरोक्षत्वासंभवस्य उक्तत्वात् । मोक्षहेतु ज्ञानस्यापि
वैदिकत्वेन तस्य च भवदुक्तरीत्या विज्ञान-पदव्यपदेश्यत्वाभावाच्च ।
धर्मब्रह्मात्मकस्य वेदार्थस्य महता समारम्भेण वशिष्ठ-मनु-व्यास-जैमिनि-
शबर-शङ्कर-सायणादिभिः विवरणं कृतमेव । तेन तद्गौरवमपि स्फुटमेव ।
न चातीन्द्रियाणां पदार्थानामपि प्रत्यक्षतोपपादनमेव गौरवम् ;
तस्य भ्रमरूपत्वात् । शास्त्रतात्पर्यविदां शबरस्वामिनां कुमारिलभट्ट-
पादानां च वेदादिसकलशास्त्रपाण्डित्यप्राखर्यमपि तद्ग्रन्थपरिशीलना-
मतिरोहितमेव । परो
पृष्ठ १६०
मानान्तरसिद्धार्थस्यापि धर्मश्रद्धार्थपर्यवसायिभिः मन्त्रब्राह्मणैर्व्याजेन
वर्णनसंभवात् । तथापि वैज्ञानिका यथा यन्त्रादिसाहाय्येन तत्तद्-
पदार्थानां प्रयोगेण परिचिन्वन्ति, न तथा वैदिकविज्ञानवादिभिरापरो-
क्ष्येण ते ते गुणधर्मा निश्चेतुं शक्यन्ते । उपपत्तियुक्तैरपि शब्दैः
सञ्जातं ज्ञानं परोक्षमेव तिष्ठति। अत एव लौकिकमनो-वाक्-प्राणादि-
व्यतिरिक्तानां जगन्मूलभूतत्वेनाभिमतानां मनोवाक्प्राणादीनां तद्विशे-
षाणां वैज्ञानिकपदार्थत्वेनाभिमतानां वेदानां तद्विशेषाणामृगादीनाञ्च न
वैज्ञानिकाथर्वदपरोक्षता संपादयितुं शक्यते । प्राचीनभाष्याकारैस्तु
मन्त्रार्थवादानुरोधेन नानाविधलौकिका-ऽलौकिक-यौगिक-शाब्दिकार्थ-
जातं विवृण्वद्भिरपि धर्मज्ञानस्यापरोक्षता नोच्यते । ब्रह्मणस्तु साक्षादप-
रोक्षप्रत्यगभेदेन तज्ज्ञानस्य अपरोक्षता उच्यते । अत एव ब्रह्मसम्बन्धे
'मन्तव्यश्चोपपत्तिभिरित्युक्तम् । धर्मस्य भव्यत्वाद् ब्रह्मणश्च भूतत्वा-
दुभयोर्वैलक्षण्यमिष्टमेव ।
यत्तूक्तम्— "अग्निमीळे पुरोहितमिति मन्त्रे पार्थिवोऽग्निः स्तूयते,
न वैद्युत-सौरा-न्तरिक्ष्यादिव्याग्निः पुरोहितमिति विशेषणात् पुरः
स्थितस्यैव अग्नेर्ग्रहणात्” इति। तदपि न रमणीयम्; प्रसिद्धार्थत्यागे
मानाभावात् । लोकेषु येष्वर्थेषु ये शब्दाः प्रसिद्धाः वेदेऽपि तेषां शब्दानां
त एवार्था इति मीमांसकसिद्धान्तात् । अग्निम् पुरोहितं यज्ञस्य देव-
मूर्त्विजं होतारमित्येते सर्वेऽपि शब्दाः प्रसिद्धार्थकाः, तेन तदनुरोधे-
नैव सायणोक्तोऽर्थः । यथा—
'अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।'
भाष्यम्-अग्निम् अग्निनामकं देवम्। ईडे स्तौमि। मन्त्रस्य होत्रा-
प्रयोज्यत्वात् होतैवात्र स्तोता । कीदृशमग्निम् ? पुरोहितम् । यथा राज्ञः
पुरोहितस्तदभीष्टं सम्पादयति, तथाऽग्निरपि यज्ञस्यापेक्षितं होमं
सम्पादयति ।
एवं प्रथमं प्रसिद्धार्थानुरोधेन पुरोहितशब्दं व्याख्याय यौगिकार्था-
नुरोधेनाऽऽह-यद्वा पुरः यज्ञस्य सम्बन्धिborder निवर्त्त भागे आहवनीयाग्नि-
पृष्ठ १६१
रूपेण हितं स्थितं पुरोहितम् । यज्ञपदसन्निधानाद् आहवनीयोऽग्निः
पुरोहित इति श्लिष्टोऽर्थः । 'पार्थिवोऽग्निः पुरोहित' इति तु वैज्ञानिकाथं-
लापनार्था क्लिष्टकल्पनैव, तस्य पुरोहितत्वाननुभवात्, यज्ञासम्बन्धत्वाच्च ।
यज्ञस्यापि प्रसिद्ध-यज्ञव्यतिरिक्तार्थकल्पनमपिल्पनमेव । किञ्च-यथा
शालग्रामरूपेण पुरःस्थितस्यापि विष्णोः स्तवो न शालग्रामपाषाणमात्रस्य
स्तवः, किन्तु सर्वकल्याणगुणाकरस्य सर्वेश्वरस्य विष्णोरेव स्तवः, तथैव
अग्निनामकस्य देवस्य आहवनीयाग्निरूपेण वा पुरःस्थितस्य संस्कृताग्नेः
संस्तवेन पार्थिव-वैद्युत-दिव्याग्न्यादिरूपेण व्यापकस्य पञ्चीकृतस्य
अपञ्चीकृतस्य च मूलतेजसस्तदभिमानिनो देवस्य तदन्तर्यामिणश्च
संस्तबो भवत्येव ।
पुनः कीदृशम् ? देवम् = दानादिगुण युक्तम् । पुनः कीदृशम् ?
होतारम् ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विक् अग्निरव ।
तथा च श्रूयते- 'अग्निर्वै देवानां होता' (ऐ० ब्रा० ३-१४) । पुनः
कीदृशम् ? रत्नधातमम्, यागफलरूपाणां रत्नानामतिशयेन धारयि-
तारं पोषयितारम् ।
यास्केन अग्निशब्दस्य बहुधा निर्वचनं कृतमेव—'अथातोऽनुक्रमिष्य-
मागोऽग्निः पृथ्वीस्थानस्तं प्रथमं व्याख्यास्यामः । अग्निः कस्मात् अग्रणी-
र्भवति ? अग्रम्, यज्ञेषु प्रणीयतेऽङ्गं नयति....' इत्यादिना (नि० ७।१४) ।
पृथिवीलोके स्थितोऽग्निः व्याख्यायते। कस्मात् प्रवृत्तिनिमित्ताद्
देवताऽभिधीयते इति प्रश्नस्य अग्रणीः इत्यादिकमुत्तरम् । देवसेनानमग्रे
भवतीत्यग्रणीः, 'अग्निर्देवानां सेनानीः' इति ब्राह्मणम् । 'अग्निर्मुखं
प्रथमो देवतानाम् (ऐ० ब्रा० १.४), 'अग्निर्वै देवानांमवमः'
( ऐ० ब्रा० १.१ )।
वाजसनेयिनस्तु- 'स वा एषोऽग्रे देवतानामजायत । तस्मादग्निर्नाम
यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिववर्त्याहवनीयदेशं प्रति
गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । सन्नममानः सम्यक्
स्वयमेव प्रह्रीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके
प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् ।
पृष्ठ १९२
१९२ वेदस्वरूप-विमर्शः
एवं न कोपयति, न स्नेहयति, किन्तु काष्ठादिकं रूक्षयतीत्यग्निः।
एवम् इतः इण् गतौ, अक्तः अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, दग्धः दह
भस्मीकरणे, नीतः णीञ् प्रापणे। तथा च अग्निशब्द एतिधातोरुत्पन्नान्
अयनाद् अकारमादत्ते। अनक्तिगतं ककारम्, तस्य गादेशं कृत्वा ऽऽदत्ते।
यद्वा-दहतेर्दाघरूपाद् गकारमादत्ते। नीञ्धातुर्ह्रस्वो भूत्वा परो भवति।
एवं धातुत्रयं मिलित्वा अग्निशब्दो भवति। तथा च यज्ञभूमिं गत्वा
स्वकीयमङ्गं नयति, काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः।
पुरोहितशब्दस्यापि 'यद्देवापिः शं तनवे पुरोहित' इति मन्त्ररीत्या
भाष्यार्थ एव समर्थ्यते। तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनु-
ष्ठानं विधाय तत्फलत्वेन पुर एनं दधते इत्यामनन्ति।
देवशब्दस्यापि निरुक्तकारेण अनेकधा अर्थो बोधितः। देवशब्दो
दान-दीपन-द्योतनानामन्यतमम् अर्थमाचष्टे।
यद्यपि अग्निः पृथिवीस्थानः, तथापि देवानां हविर्वहनाद् द्युस्थानो
भवति। होतृशब्दस्य देवानामाह्वाता अर्थः। जुहोतेर्निष्पन्नत्वे तु होमा-
धिकरणत्वेन होतृत्वम्। तदेवं मन्त्र-ब्राह्मण-सूत्र-यास्कस्कन्दस्वामिवि-
शाकपण्यादि विविध-निरुक्तकार-पाणिन्यादि-व्याकरणपारम्पर्यायाश्रयेणैव
सायणभाष्यं प्रवृत्तम्। तेन वेदाक्षरग्रहणवत् वेदार्थस्यापि पारम्पर्येण ग्रहणं
युक्तम्। पारम्पर्यानुसार्यैव सायणभाष्यम्, तत्रैव सर्वसामञ्जस्यञ्च।
यदुक्तम्—'वेदार्थसम्प्रदायलोपेन' वैज्ञानिकार्थविलोपो इति।
तदपि न; वेदाक्षरसम्प्रदायाविलोपेस्त्वेव वेदार्थसम्प्रदायस्याप्यविलोपाप-
त्तेः। 'व्यास शुकं गौडपदं महान्तं गोविन्दयोगोन्द्रमथास्य शिष्यम्।
श्रीशङ्कराचार्यम्...' इत्यादि पारम्पर्योपलब्धेश्च। एवं जैमिनि-शबर-
कुमारिलादिक्रमेणापि वेदार्थसम्प्रदायोऽक्षुण्ण एवासीत्। याज्ञिकपद्ध-
तयस्तदनुसारिणि कर्मानुष्ठानानि चाद्यापि प्रचलन्ति। तेन परम्पराप्राप्त
एवार्थः सायणादिभिर्वर्णितः।
यदुक्तम्—'सर्वत्रावस्थितोऽग्निः किं करोतीति आह—देवमिति
द्वितीयेन विशेषणेन। नैकान्ततः सत्तां जहाति, तदिदं सर्वं यज्ञकृतं
स्वीयानां भावानामन्यत्रार्पणम्। अन्यतश्च भावानाम् आपानम्, इतीयम्
पृष्ठ १९३
वेदस्वरूप-विमर्शः १९३
आदान-प्रदानप्रक्रिया यज्ञः। यथा प्रदीपः प्रकाशं सर्वत्रार्पयति तैला-
वयवांश्च अजस्रमुपादत्ते, वृक्षलताः पुष्पफलानि ददति, पृथिव्या
अपाञ्च रसमजलमाददते, प्राणिन आहारमाददते, मलं बलञ्च तत्र तत्र
प्रयोजयन्तीति सुस्फुटं सर्वत्रानुभूयते। सूक्ष्मतया दृशा सोऽयमादान-
प्रदानापरपर्यायः अन्नाऽन्नाद्भाव एव प्राकृतो यज्ञ उच्यते। स चाग्नि-
साध्य इत्यग्निरेव यज्ञदेवः। अग्नौ सोमाहुतिरेव यज्ञसम्पादिका।
अनेन यज्ञेन सर्वेषामुत्पत्तिः स्थितिश्च, प्राणिनामन्नपोषो वृक्षादीनां पर्ण-
पुष्पादिप्रसवश्च सर्वोऽग्नियज्ञसाध्य" इति।
तदुच्यते—काण्वे बृहदारण्यकोक्त-मधुब्राह्मणेन सर्वस्यैव प्रपञ्चस्य
परस्परोपकार्योपकारकभाव उक्तः। यथा—'इयं पृथिवी सर्वेषां भूतानां
मधु, अस्यै पृथिव्यै सर्वाणि भूतानि मधु, यथैको मध्वपूपोऽनेकैर्मधुकरी-
र्निर्वर्तित एवमेव पृथिवी सर्वैर्भूतैर्निर्वर्तिता, तथा सर्वाणि भूतान्यस्यै
पृथिव्यै। पृथिव्या अस्या मधु कार्यम् (बृहदारण्यके)। एवमेव इमा
आपा, अयमग्निः, अयं वायुः, अयमादित्यः, इमा दिशः, अयं
चन्द्रः, अयं स्तनयित्नुः, अयमाकाशः, अयं धर्मः, इदं सत्यम्, इदं
मानुषम्, अयमात्मा इत्येवं परस्परोपकार्योपकारकभावेन आत्मप्रभव-
प्रलयत्वमुक्तम्। तत एव प्रतिपर्यायं 'यश्चायमस्मिन् पृथिव्याम् अप्सु
आत्मनि तेजोमयोऽमृतयः पुरुषः, यश्चायमात्मा तेजोमयोऽमृतमयः
पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मद सर्व सर्वम्। अन्ते
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां, भूतानां राजा।
तद्यथा—रथनाभौ रथनेमौ चाराः समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि
भूतानि, सर्वे देवाः, सर्वे लोकाः, सर्वे प्राणाः, सर्व एत आत्मानः सम-
र्पिताः" इति परिशिष्टस्य विज्ञानमयस्य परमात्मभावमुक्त्वा तत्रैव
समर्पितत्वञ्च उक्त्वा तस्यैव सर्वाधिष्ठानत्वेन सर्वपालकत्वं सर्वात्म-
त्वञ्च विशदीकृतम्। तस्मिन्नेव च 'अहमन्नमहमन्नम्, अहमन्नादोऽह-
मन्नाद' इत्यादीना सर्वात्मभावेन परस्यैव अन्नाऽन्नाद्भाव उक्तः।
एवं यज्ञासादृश्येन यज्ञारोपोऽपि तत्र तत्र दृश्यत एव। तेन आदान-
प्रदानप्रक्रियायामपियज्ञारोपः शक्यते कर्तुम्; तथापि स एव यज्ञशब्दार्थ
वै० वि० १२
१९४ वेदस्वरूप-विमर्शः
इति तु न युक्तम् । यज् देवपूजासङ्गतिकरणदानेषु इति धातोर्निष्पन्नस्य
याज्ञिकैः परिभाषितस्य द्रव्यदेवतामयस्य संस्कृताग्न्यधिकरण-स्रुक्स्रुक् च-
र्वाद्यधिकरणकाऽऽध्वर्यवाद्विक साध्य - स्वर्गाद्युद्देश्यक-मन्त्रहविरादि-
सम्पाद्यषडहादशा दियागनिर्वर्त्यस्य कर्मविशेषस्यैव यज्ञपदव्यपदेश्यत्वात् ।
अत एव 'द्रव्यं देवता त्यागः' (कात्या० १ अ०) इति यागस्वरूपं
निरूपितम् । देवतोद्देश्येन क्रियमाण-स्वस्वत्वनिवृत्त्यनुकूलो व्यापार
एव यागः । तत्रापि तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्या-
वन्तो यजतयो भवन्ति । उपविष्टहोमाः स्वाहाकारप्रदाना जुहो-
तयः । स्वाभाविकाऽऽशान-प्रदानात्म कप्रक्रियाया एव यज्ञत्वे न सङ्गतिः,
तस्याः स्वतःसिद्धत्वात् विज्ञानानुपपत्तेः, 'विधिरत्यन्तमप्राप्तौ' इति
मीमांसकप्रसिद्धेश्च । ततदारोपेण ब्रह्मज्ञानेऽपि यज्ञत्वारोपः ।
'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना ॥'
अत्रापि अर्पणमिति स्रुगादिद्रव्येऽपि ऋत्विङ्मन्त्रादिकं विवक्षितम् ।
अग्निहविरादिवर्णनं तु स्पष्टमेवोक्तम् । यस्मिन्नर्थे यः शब्दो लोके प्रसिद्धः,
वेदेऽपि तस्मिन्नेवार्थे स ज्ञातव्य इतिरीत्या लोकप्रसिद्धयज्ञशब्दार्थो
ग्राह्यः । मन्त्र-ब्राह्मण-सूत्रादिभिर्निरुक्तः पारिभाषिको वाप्यो ग्राह्यः ।
सर्वपदार्थजातं चिद्भिन्नं दृश्यमानमदृश्यमानं वा प्राकृतत्वादेव
परिवर्तमानम् । परिवर्तमानञ्च नैकान्ततः सत्तां जहातीति निरन्वय-
विनाशानभ्युपगन्तॄणां सांख्य-योग-वेदान्तिनामिष्टमेव, 'चलञ्च गुणवृत्तम्,
क्षणपरिणामिनो हि भावा ऋते चितिशक्तेः इत्यादिसिद्धेः ।
सत्त्वरजस्तमसा मपि अङ्गाङ्गिभावतयैव कार्यकारित्वसिद्ध्या तदात्म-
कानां प्राकृतभावाना मपि तथात्वमुचितमेव । तस्मिन्नर्थे यज्ञत्वारोपोऽपि
कर्तुं शक्यते । सत्यप्येवं विधिप्राप्ते एव्यारोपः फलवान्, निष्फलश्चावैधः ।
'योषा वाव गौतमाग्निः इत्यादिरूपेण पञ्चाग्निविद्यासु योषादिष्वग्नि-
दृष्टिः पुरुषशुक्रादिषु हविर्दृष्टिश्च विहितत्वादेव सफला । 'तस्या
वेदिदुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यस्तौ मुष्कौ स
यावान् वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति'
वेदस्वरूप-विमर्शः १९५
इत्यादिना मैथुनकर्मणि वाजपेयत्वसम्पादनमपि विधिबलादेव क्रियते ।
यथा प्रसिद्धस्य सिंहस्य शौर्यक्रौर्यादिगुणयोगेन अन्यत्रा-
रोपेणैव सिंहत्वं व्यपदिश्यते, तथैव केनचिद्गुणयोगेन प्रसिद्धस्य
यज्ञस्यैव अन्यत्र आरोपो भवति । प्रसिद्धयज्ञस्यैव दानादिगुण-
युक्तोऽग्निरिज्यत्वेन देवः, यज्ञापेक्षित-होम सम्पादकत्वेन पुरोहितः,
आहवनीयाग्निरूपेण वा पुरोहितः, देवानां यज्ञेषु होतृकर्मसम्पा-
दकत्वेन च होता ऋत्विगित्याद्युक्तमेव ।
किञ्च-विधिप्रयुक्ताया एवाग्नौ सोमाहुतेर्यज्ञत्वम् । परापचिकर्षया
तदन्नघृतादीनां वह्नौ निक्षेपस्य यज्ञपदार्थत्वाभावान्न, क्षेत्रादिषु बीजादि-
निक्षेपस्य यज्ञत्वेन अप्रसिद्धत्वान्न । भौतिकपदार्थोत्पत्त्यादिषु तु सर्वेषां
भूतानां प्राणात्मादीनामपि उपकारकत्वमस्त्येवेति कुतोऽग्निनैव सर्वेषा-
मुत्पत्तिः ? सर्वोत्पत्तिहेतुत्वेन अग्नेर्यथा देवत्वं तथैव अबादीनामपि
देवत्वं भवेदेवेति कुतो वा विशिष्ट्योक्तिः ? प्रसिद्धे यज्ञे तु अग्निमुखेन
सर्वैर्देवैः हविर्गृह्यत इति तस्य यज्ञस्य देवत्वं सम्भवतीति ।
यदुक्तम्- 'प्र मातुः प्रतरमिति मन्त्रेऽयमर्थः स्फुटः' इति । तदपि
चिन्त्यम्; सायणादिभिस्तस्य अन्यथा व्याख्यातत्वात् । तथा हि-
'प्र मातुः प्रतरं गुह्यमिच्छन् कुमारो न वीरुधः सर्पदूर्वीः ।
ससं नपक्वमविच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥'
( ऋ० सं० १०.७९.३ )
अत्रत्यं सायणभाष्यम्-आग्नेयं त्रैष्टुभम्, सौचीकगुणोऽग्निः ऋषिः,
वैश्वानरगुणो वा । सभिनां वाजम्भरपुत्रो वा ऋषिः । पूर्वं द्वाभ्यां
मन्त्राभ्यामग्ने रूपगुणादिकं वर्णितम् । प्रथमेन मर्त्यासु वित्सु मनुष्य-
रूपासु प्रजासु तासां हृदये वैश्वानररूपेण अमर्त्यस्य दावाग्निरूपेण
भूरिखाद्यमरण्ये भक्षयन्त्यौ स्तोतारमसंखादन्त्यौ नानाहन् संभरतो
महतोऽग्नेर्महत्त्वमुक्तम् । द्वितीयेन च तस्यैव वैशिष्ट्यमेवं वर्ण्यते ।
अस्याग्नेः शिरः मूर्धा गुहायां मनुष्योदरेषु वर्तते । तथा अक्षी अक्षिणी
पृथक् चन्द्रसूर्यात्मना निहिते । ईदृशः अस्मिन्वन् दन्तै रसं खादन्नं
यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
[पृष्ठ १९६]
१९६ वेदस्वरूप-विमर्शः
जिह्वया वनान्यत्ति। अस्मै
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[पृष्ठ १९८]
तिर्यगूरसप्रसार एव शाखापर्णादिजनकः । तस्यैव च रसस्य पर्णपुष्प-
फलादिरूपेण परिणामः” इति ।
तदपि न किञ्चित्; धरणिजलानिलादियोगेनैव बीजाद् वृक्षादीना-
मुत्पत्तिप्रसिद्धेः । तत्र सति विधाने कस्मैचित् फलाय यज्ञत्वारोपोऽपि
कर्तुं शक्यते । विधानाभावात्तु वृथैव तत्कल्पनम् । अत एव मन्त्रेषु न
यज्ञत्वोक्तिर्दृश्यते । विहितानामेव चाग्नौ सोमप्रक्षेपादीनां यागत्वम् ,
न स्वरूपेण सताम् ।
यदुक्तम्—'कस्य वृक्षलतादेः कियती प्रसृतिरूर्ध्वं तिर्यग्वेति
सर्वमिदं मूले स्थितस्य प्राणस्याऽऽयत्तम् । सेयं मूलशक्तिरेव अस्यामृचि
प्रतरं गुहामिति सङ्केतिता । प्रसरतः पार्थिवस्य रसस्य कृष्णवर्णताया
आदित्यस्य च 'पिशङ्गं द्रापिं प्रतिमुञ्चते कविः' (ऋ० सं०
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२०० वेदस्वरूप-विमर्शः
हेमन्तः । सर्वथा विशीर्णेषु शिशिरः । जायते, अस्ति, वर्धते, विपरिणमते,
अपक्षीयते, विनश्यति इति यास्कपरिपाठिताः षड्भावविकारा एव ऋताग्नि-
सम्बन्धेनेह ऋतुवाचकैः शब्दैः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२०२ वेदस्वरूप-विमर्शः
इति मनुः (२।१४३) तेऽद्ययज्ञे षोडश भवन्ति (शब्दार्थचिन्ता-
मणिः) तेन ऋत्विक्शब्दो याजकादिपर एव ।
यच्च - "होतारमिति चतुर्थविशेषणं हेञ्-धातोर्निष्पाद्य ब्राह्मणेपु
व्याख्यातम् । तेन अग्निद्देवानाह्वयति, अग्निद्वारैव अस्माकं सौर-
मण्डलस्थैर्देवैः सम्बन्ध इति गम्भीरतत्त्वं विज्ञायते, यद्यपि सर्वथा-
परोक्षं वैज्ञानिकानामिविति । तदपि न किञ्चित्; वैदिकप्रसिद्धेरेव वेदार्थो-
पपत्तेः । तथा हि-होतृनामकेन ऋत्विजा मन्त्रैर्देवा नामाह्वानं विहितम् ।
अग्निरपि देवेषु ब्राह्मणो होतृनामक ऋत्विक् चासीत् । मन्त्रशक्तिश्च
अचिन्त्या वैदिकैरभ्युपेयत एव । तेन मन्त्रैर्देवा नामाह्वानं सङ्गच्छते ।
यदपि- "रत्नधातममिति रत्नानामुत्पादयितेति भूगर्भविज्ञानं
स्फुटयति" इति । तदपि न शोभनम्; यतः प्रकृतयज्ञादिप्रसङ्गे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंयामि" or "सन्नमयामि"?
Look at the word: 'सं' with anusvara, then 'य' or 'न'?
Wait, the sūtra has "सन्नमयामीति"!
In line 15: 'स', 'ं', 'य' or 'न'?
Look
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[पृष्ठ २०६]
किञ्च—'यूयं गोपतो युष्माकं पत्यौ यजमाने ध्रुवाः शाश्वतिकीः
बह्वीर्बहुविधाः स्यात भवत ।
पुनश्च 'यजमानस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंकृष्णवर्णात्वासम्भवात् । अत एव कृष्णेन लोकेन कृष्णान्तरिक्षमार्गेण
आवर्तमानः पुनःपुनरावर्तमान इत्येवार्थः । तदुक्तं सायणेन—
'सविता सूर्यः 'कृष्णवर्णेन कृष्णं कृष्यतेर्निकृष्टो वर्णः' ( निरुक्त
२.२०) । 'लोका रजांस्युच्यन्ते (नि० ४.१९ ) । अन्तरिक्षलोको हि
सूर्यागमनात् पुरा कृष्णवर्णो भवति । कृष्णेन रजसा लोकेन अन्तरिक्ष-
मार्गेण आवर्तमानः पुनःपुनरागच्छन् अमृतं देवं मर्त्यं मनुष्यञ्च
निवेशयन् स्वस्वव्यवहारे व्यवस्थापयन् । यद्वा-अमृतं मरणरहितं
प्राणं मर्त्यं मरणसहितं शरीरञ्च निवेशयन्, 'मर्त्यानि हीमानि
शरीराणि अमृतेषा देवता' (ऐ० आ० २. १. ८) इति श्रुतेः। स सविता
देवः भुवनानि सर्वान् लोकान् पश्यन् अवेक्षमाणः प्रकाशयन्
हिरण्ययेन सुवर्णनिर्मितेन रथेन आयाति अस्मत्समीपमागच्छति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें? No, look at the cluster:
It has द् + ध with य: "बुद्ध्यति" or "बुद्ध्व्यति"?
Wait, in line 28: ब, then द्ध with य = बुद्ध्यति. Wait, is there a व? No, it's
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंबायाँ पृष्ठ (Page 212)
२१२ वेदस्वरूप-विमर्शः
भ्रातृत्वमुक्तप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितृतेजोभागस्य हरणात्
दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तकत्शान् वा भ्रातृत्वम् । अथ
एषु भ्रातृषु मध्ये पुरोदेशे वा विशपति प्रजापालयितारं सप्तपुत्रं सर्पण-
शीलरश्मिपुत्रोपेतम् । ऐतिहासिकपक्षे अदितिः पुत्रकामा इति प्रस्तुते
मित्रावरुणादिषु अदितिपूत्रेषु अस्यादित्यस्य सप्तमपुत्रत्वम् । ईदृशं महा-
नुभावमादित्यम् अपश्यम् अद्राक्षं भावनया आत्मत्वेन साक्षात्करोमी-
त्यर्थः । 'तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतेः । एवं वा अस्य वामस्य
विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य स्वतृप्तं जगत् पालनशीलस्य
होतुरोदातुः स्वस्मिन् संहर्तुः परमेश्वरस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपृष्ठ २१४
यदप्युक्तम्- "सर्वाणि रूपाणि सूर्य्यरश्मिभिरेव निर्मीयन्ते । शुक्लं कृष्ण-
ञ्चेति द्वे एव रूपे मुख्ये । तत्सन्धिगतं रक्तम् , मिश्रणजानि चान्यानीति
रूपविषये वैज्ञानिकानां दर्शनम् । तदपि 'इन्द्रो रूपाणि कनिक्रदच्चरन्'
'शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥'
(ऋक् सं० ६. ५८. १)
इत्यादिषु स्फुटमाम्नातम्" इति । तदपि न ; मन्त्रस्यान्यपरत्वात् । तथा
हि—हे पूषन् ते तव शुक्रं शुक्लवर्णम् अन्यन् एकम् अहर्भवति वासरा-
त्मकम् । तथा ते तव सम्बन्धि यजतम् । यजिरत्र सङ्गतिकरणे वर्तते ।
यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यन् एकम् अहर्भवति
रात्र्याख्यम् । इत्थं विषुरूपे शुक्लकृष्णतया नानारूपे अहनी तव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२१६ वेदस्वरूप-विमर्शः
श्चेन प्रतिबन्धीयमानां बुद्धिं विप्लावयन्ति । तत्र काले तस्या विद्याया
अभाव एवापराध्यति, को दोषो भाष्यकृताम् ?' इति ।
तदत्रोच्यते—महाभारतयुद्धानन्तरं विज्ञानह्रासोऽभ्युपेयते भवता,
किन्तु तत्र प्रदर्शितं कारणं नोपपद्यते । यतो महाभारतयुद्धानन्तरमपि
व्यासाद्या महर्षयस्तु अवशिष्टा एवासन् । सर्वज्ञः श्रीकृष्णोऽप्यवशिष्ट एवा-
सीत् । युधिष्ठिराऽर्जुन-सात्यक्यादयश्चासन् । साक्षाद् बृहस्पतेः शिष्य
उद्धवोऽप्यासीत् । विशेषतो म्रियमाणस्य ज्ञानसूर्यस्य भीष्मस्य मुखात्
अनेकदिनानि धर्मप्रज्ञ-राजनीत्याद्याश्रयाणि अनेकानि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२१८ वेदस्वरूप-विमर्शः
प्रदानेन विशेषेण वर्तमानमकरोत् । किं कुर्वन् ? दिवि अन्तरिक्षे मेघम्
ओपशम् उपेत्य शयानम्, चक्राणः कुर्वन्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१२० वेदस्वरूप-विमर्शः
शब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभिप्रवन्त
नसन्त च, स ताश्च हर्यति ।
यदप्युक्तम् - "तिस्रो मातृः तिस्रो भूमीर्धारयत्' इत्यादिभिरपि
मन्त्रैः सूर्यकृतं पृथिव्यादिधारणं सिद्धयति" इति । तदपि न ; मन्त्रयो-
रनयोरन्यार्थकत्वात् । समग्रौ मन्त्रौ मन्त्रार्थचेत्थम्-
'तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥'
( ऋ० सं० १.१६४.१० )
अर्थः-एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः
संवत्सराख्यः कालो वा तिस्रः मातृः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें