सामग्री पर जाएँ
सर्वकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 107, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 107

पृष्ठ १६०

मानान्तरसिद्धार्थस्यापि धर्मश्रद्धार्थपर्यवसायिभिः मन्त्रब्राह्मणैर्व्याजेन
वर्णनसंभवात् । तथापि वैज्ञानिका यथा यन्त्रादिसाहाय्येन तत्तद्-
पदार्थानां प्रयोगेण परिचिन्वन्ति, न तथा वैदिकविज्ञानवादिभिरापरो-
क्ष्येण ते ते गुणधर्मा निश्चेतुं शक्यन्ते । उपपत्तियुक्तैरपि शब्दैः
सञ्जातं ज्ञानं परोक्षमेव तिष्ठति। अत एव लौकिकमनो-वाक्-प्राणादि-
व्यतिरिक्तानां जगन्मूलभूतत्वेनाभिमतानां मनोवाक्प्राणादीनां तद्विशे-
षाणां वैज्ञानिकपदार्थत्वेनाभिमतानां वेदानां तद्विशेषाणामृगादीनाञ्च न
वैज्ञानिकाथर्वदपरोक्षता संपादयितुं शक्यते । प्राचीनभाष्याकारैस्तु
मन्त्रार्थवादानुरोधेन नानाविधलौकिका-ऽलौकिक-यौगिक-शाब्दिकार्थ-
जातं विवृण्वद्भिरपि धर्मज्ञानस्यापरोक्षता नोच्यते । ब्रह्मणस्तु साक्षादप-
रोक्षप्रत्यगभेदेन तज्ज्ञानस्य अपरोक्षता उच्यते । अत एव ब्रह्मसम्बन्धे
'मन्तव्यश्चोपपत्तिभिरित्युक्तम् । धर्मस्य भव्यत्वाद् ब्रह्मणश्च भूतत्वा-
दुभयोर्वैलक्षण्यमिष्टमेव ।
यत्तूक्तम्— "अग्निमीळे पुरोहितमिति मन्त्रे पार्थिवोऽग्निः स्तूयते,
न वैद्युत-सौरा-न्तरिक्ष्यादिव्याग्निः पुरोहितमिति विशेषणात् पुरः
स्थितस्यैव अग्नेर्ग्रहणात्” इति। तदपि न रमणीयम्; प्रसिद्धार्थत्यागे
मानाभावात् । लोकेषु येष्वर्थेषु ये शब्दाः प्रसिद्धाः वेदेऽपि तेषां शब्दानां
त एवार्था इति मीमांसकसिद्धान्तात् । अग्निम् पुरोहितं यज्ञस्य देव-
मूर्त्विजं होतारमित्येते सर्वेऽपि शब्दाः प्रसिद्धार्थकाः, तेन तदनुरोधे-
नैव सायणोक्तोऽर्थः । यथा—
'अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।'
भाष्यम्-अग्निम् अग्निनामकं देवम्। ईडे स्तौमि। मन्त्रस्य होत्रा-
प्रयोज्यत्वात् होतैवात्र स्तोता । कीदृशमग्निम् ? पुरोहितम् । यथा राज्ञः
पुरोहितस्तदभीष्टं सम्पादयति, तथाऽग्निरपि यज्ञस्यापेक्षितं होमं
सम्पादयति ।
एवं प्रथमं प्रसिद्धार्थानुरोधेन पुरोहितशब्दं व्याख्याय यौगिकार्था-
नुरोधेनाऽऽह-यद्वा पुरः यज्ञस्य सम्बन्धिborder निवर्त्त भागे आहवनीयाग्नि-


पृष्ठ १६१

रूपेण हितं स्थितं पुरोहितम् । यज्ञपदसन्निधानाद् आहवनीयोऽग्निः
पुरोहित इति श्लिष्टोऽर्थः । 'पार्थिवोऽग्निः पुरोहित' इति तु वैज्ञानिकाथं-
लापनार्था क्लिष्टकल्पनैव, तस्य पुरोहितत्वाननुभवात्, यज्ञासम्बन्धत्वाच्च ।
यज्ञस्यापि प्रसिद्ध-यज्ञव्यतिरिक्तार्थकल्पनमपिल्पनमेव । किञ्च-यथा
शालग्रामरूपेण पुरःस्थितस्यापि विष्णोः स्तवो न शालग्रामपाषाणमात्रस्य
स्तवः, किन्तु सर्वकल्याणगुणाकरस्य सर्वेश्वरस्य विष्णोरेव स्तवः, तथैव
अग्निनामकस्य देवस्य आहवनीयाग्निरूपेण वा पुरःस्थितस्य संस्कृताग्नेः
संस्तवेन पार्थिव-वैद्युत-दिव्याग्न्यादिरूपेण व्यापकस्य पञ्चीकृतस्य
अपञ्चीकृतस्य च मूलतेजसस्तदभिमानिनो देवस्य तदन्तर्यामिणश्च
संस्तबो भवत्येव ।
पुनः कीदृशम् ? देवम् = दानादिगुण युक्तम् । पुनः कीदृशम् ?
होतारम् ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विक् अग्निरव ।
तथा च श्रूयते- 'अग्निर्वै देवानां होता' (ऐ० ब्रा० ३-१४) । पुनः
कीदृशम् ? रत्नधातमम्, यागफलरूपाणां रत्नानामतिशयेन धारयि-
तारं पोषयितारम् ।
यास्केन अग्निशब्दस्य बहुधा निर्वचनं कृतमेव—'अथातोऽनुक्रमिष्य-
मागोऽग्निः पृथ्वीस्थानस्तं प्रथमं व्याख्यास्यामः । अग्निः कस्मात् अग्रणी-
र्भवति ? अग्रम्, यज्ञेषु प्रणीयतेऽङ्गं नयति....' इत्यादिना (नि० ७।१४) ।
पृथिवीलोके स्थितोऽग्निः व्याख्यायते। कस्मात् प्रवृत्तिनिमित्ताद्
देवताऽभिधीयते इति प्रश्नस्य अग्रणीः इत्यादिकमुत्तरम् । देवसेनानमग्रे
भवतीत्यग्रणीः, 'अग्निर्देवानां सेनानीः' इति ब्राह्मणम् । 'अग्निर्मुखं
प्रथमो देवतानाम् (ऐ० ब्रा० १.४), 'अग्निर्वै देवानांमवमः'
( ऐ० ब्रा० १.१ )।
वाजसनेयिनस्तु- 'स वा एषोऽग्रे देवतानामजायत । तस्मादग्निर्नाम
यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिववर्त्याहवनीयदेशं प्रति
गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । सन्नममानः सम्यक्
स्वयमेव प्रह्रीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके
प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् ।