वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 106, कुल 237 में से
संदर्भ में पढ़ेंवेदस्वरूप-विमर्शः (पृष्ठ १८८)
१८८ वेदस्वरूप-विमर्शः
च विज्ञानं तुष्टा ऋद्धि प्रयच्छति' । अन्यत्र यथा—'ज्ञानमस्ति समस्तस्य
जन्तोर्विषयगोचरे' इति । घटत्वप्रकारकज्ञानमिति केचित् । 'ये केचित्
प्राणिनो लोके सर्वे विज्ञानिनो मताः' इति ।'—इति शब्दकल्पद्रुमः।
'चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमितरं विद्याद्येन धर्मो विवर्धते ॥
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥
यथा संदेवो भगवान् विद्यते यत्र विद्यते ।
साक्षादेव महादेवस्तज्ज्ञानमिति कीर्तितम् ॥'
—इति कौर्मे उपविभागे १४ अध्याये ।
भौतिकविज्ञानवादिभिस्तु प्रमाणैर्ज्ञातस्य युक्तिभिः परीक्षितस्य
प्रयोगेणानुभव एव विज्ञानं मन्यते । न च वैदिकविज्ञानवादिनां प्राण-
वागादयः प्रयोगेणानुभवितुं शक्यन्ते, शब्दप्रमाणायत्तत्वात्तद्विज्ञानस्य ।
“यत्त जूः इति शब्दाभ्यां 'इलेक्ट्रोन-प्रोट्रोन' इति वैज्ञानिकप्रसिद्धे
तत्त्वे गृह्ये ते” इति कथनन्तु पशुनुकरणमेव ।
किञ्च—प्रत्यक्षं प्रत्यक्षाश्रितं वा ज्ञानमेव विज्ञानमिति रीत्याऽपि
वैदिकार्थज्ञानस्य न विज्ञानपदव्यपदेश्यत्वं संभवति, धर्मादितत्त्वस्य
शब्दैकसमधिगम्यत्वेन अपरोक्षत्वासंभवात् । वेदस्य दृष्टार्थपरत्ववर्णनं
तु भट्टपादैर्बहुधा खण्डितमेव—
'लोकायतिकमूर्खाणां नैवान्यत् कर्म विद्यते ।
यावत्किञ्चिद्दृष्टार्थं तद् दृष्टार्थं हि कुर्वते ॥
वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ।
अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥
तेभ्यश्चेत् प्रसरो नाम दत्तो मीमांसकैः कचित् ।
न च कश्चन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥
प्रसरं न लभन्ते हि यावत् कचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥
वेदस्वरूप-विमर्शः (पृष्ठ १८९)
वेदस्वरूप-विमर्शः १८९
कश्चिद् दत्तेऽवकाशो हि स्तोकेऽप्यालब्धजन्मभिः ।
जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥
तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् ।
एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥' इति ।
नास्तिकतानिकरणायैव भट्टपादानां मुख्यः प्रयत्न आसीत् । यथा-
'प्रायेणैव हि मीमांसा लोके लोकायतीकृता ।
तामास्तिकपथे कर्तु मयं यत्नो मया कृतः ॥ इति ।
यदुक्तम्—"वेदेषु विज्ञानसारेव शैली दृश्यते, एकस्मात् मूलात्
परस्परायत्त-विलक्षणपदार्थघटितस्य उत्पत्तिः बहुधा प्रपञ्चिता । तत्त-
द्वस्तुधर्माश्च करतलामलकवद्विस्पष्टं ग्राहिताः । तस्माद्वैदिकं सर्वमपि
विज्ञानम् आत्मविज्ञानं ब्रह्मविज्ञानं धर्मविज्ञानं विज्ञानशब्देनैव
उपदेष्टुमर्हम्” इत्यादि । तत्सत्यम् ; विस्पष्टताऽभिप्रायेण तथात्वेऽपि
धर्माऽपूर्व-स्वर्गाद्यतीन्द्रियाणां पदार्थानां शास्त्रैकसमधिगम्यत्वेन करतल-
गतामलकवत् अपरोक्षत्वासंभवस्य उक्तत्वात् । मोक्षहेतु ज्ञानस्यापि
वैदिकत्वेन तस्य च भवदुक्तरीत्या विज्ञान-पदव्यपदेश्यत्वाभावाच्च ।
धर्मब्रह्मात्मकस्य वेदार्थस्य महता समारम्भेण वशिष्ठ-मनु-व्यास-जैमिनि-
शबर-शङ्कर-सायणादिभिः विवरणं कृतमेव । तेन तद्गौरवमपि स्फुटमेव ।
न चातीन्द्रियाणां पदार्थानामपि प्रत्यक्षतोपपादनमेव गौरवम् ;
तस्य भ्रमरूपत्वात् । शास्त्रतात्पर्यविदां शबरस्वामिनां कुमारिलभट्ट-
पादानां च वेदादिसकलशास्त्रपाण्डित्यप्राखर्यमपि तद्ग्रन्थपरिशीलना-
मतिरोहितमेव । परो