सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

११४ उत्तररामचरितं [ ५-१६
कृशाश्वतनया होते कृशाश्वात्कौशिकं गताः ।
अथ तत्संप्रदायेन रामभद्रे स्थिता अपि ॥ १५ ॥
चन्द्रकेतुः—अपरेऽपि प्रैक्ष्यमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः प-
श्यन्ति ।
सुमन्त्रः—वत्स सावधानो भव । परागतस्ते प्रतिवीरः ।
कुमारौ—( अन्योन्यं प्रति । ) अहो प्रियदर्शनः कुमारः । ( सस्नेहा-
नुरागं निर्वर्ण्य । )
यदृच्छासंवादः किमु किमु गुणानामतिशयः
पुराणो वा जन्मान्तरनिबिडवैद्धः परिचयः ।
निजो वा सम्बन्धः किमु विधिवशात्कोऽप्यविदितो
ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥
सुमन्त्रः—भूयसा जीविधर्म एष यद्रसमयी कस्यचित्क्वचित्प्रीतिः, यत्र
लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तमप्रतिसंख्येयमनिबन्धनं
प्रेमाणमाममनन्ति ।
आसीर्यते ॥ १४ ॥ आगमः प्राप्तिः । एते जृम्भकादयोऽप्यविशेषाः ॥
कृशाश्वतनया इति ॥ १५ ॥ कृशाश्वस्य ऋषेः । तस्मात् कौशिकात् ।
संप्रदायेन शिष्यक्रमेण । एकपदमेतत् ॥ १५ ॥ परं भृशम् । उपेति वर्ध-
मानव्याख्यार्थे(२) 'प्रकाशोऽतिप्रसिद्धेऽपि' इत्यमरः । 'ऋषिर्योगी च मन्त्रदृक्'
इति लिङ्गानुशासनम् । स्वयं सर्वे पश्यन्ति । एतेन कृशाश्वकौशिकादिवत्
प्रायेणसादोनामपि अस्त्रप्रवर्तरूपप्रकृतिकरण भवतीत्यवधेयम् । ते तुभ्यम् ।
कुमारौ लवचन्द्रकेतू ॥ यदृच्छासंवाद इति ॥ १६ ॥ यदृच्छया स्वैरम्
संवादः संलाप किमु । निजः नित्य परिचयो वेति पूर्वेण योज्यम् । अवि-
दितः सबन्ध किमु । कुत एवमत आह—ममेति । अवधानं अनन्यरति-
त्वम्, कर्म । हृदयं परवशीभवतीति भावः ॥ १६ ॥ 'द्वये रसः' इत्यमरः ।
प्रीतिरिति यत् एष धर्म इत्यन्वय । यत्र प्रीतिविषये । लौकिकानां वेदि-
कमार्गानभिज्ञानाम् । उपचारः आदरमात्रमित्यर्थ ॥ अथ वैदिकमर्थ विश्रृ-
णोति—तारेति । तारेव तारा । 'तारकाक्ष्ण कनीनिका' इति 'मैत्रं मैत्री
च सख्यं च' इत्यमररत्नकारौ । चक्षुषोः रागः । न राग उभयत्र दर्शनं
लक्ष्यते । तत् प्रसिद्धम् । अप्रतिसन्धेयं अवचनीयम् । निबन्धनं शास्त्रम् ।
१ 'भृशाश्व' न. २ 'परमोपचीदमान' घ-य. ३ '०गत प्रवीर 'क-घ-य.
४ 'किमु गुणगणानाम्' न ५ 'बन्ध' घ-घ. ६ 'भूयसा जीवितानामेष धर्मे एष
यत्र सरसमयी' ग. ७ 'स्वाहारः' य. ८ 'तदमतिसंख्येयनिबन्धन प्रमाणम्' न

५-२० ] उत्तररामचरितं ११५
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥
कुमारौ—( अन्योन्यमुरिक्ष । )
एतस्मिन्मसृणितराजपट्टकान्ते -
मोक्तव्याः कथमिव सायकाः शरीरे ।
यत्प्राप्तौ मम परिरम्भणामिलाषा-
दुन्मीलत्पुलककदम्बमङ्कमास्ते ॥ १८ ॥
किं त्वाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥
सुमन्त्रः—( लवं निर्वर्ण्य साश्रगात्मगतम् । ) हृदय किमन्यथा परि-
प्लवसे ।
मनोरथस्य यद्वीजं तद्देवेनाडितो हतम् ।
लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥ २० ॥
चन्द्रकेतुः—अवतराम्यार्य सुमन्त्र स्यन्दनात् ।
प्रमाणमामनन्ति । वैदिका इति शेषः । 'प्रतिसन्धानमि(म?)निबन्धनं द्वे
बन्धनार्थके' इति रद्रः ॥ अहेतुः पक्षपात इति ॥ १७ ॥ पक्षपातः
ममता । मैथिलीपक्षपातेनेत्यक्षरसारूपादात्तधर्मा । प्रतिक्रिया आक्षेपः स
पक्षपात प्रेमस्वरूपम् । सूत्रं कर्तृ । भूतानि प्राणि कर्म । अन्तः आत्मनि
सीव्यति स्प्यूतान् करोतीत्यर्थ ॥ १७ ॥ एतस्मिन्मसृणितेति ॥ १८ ॥
मसृणितं च तत् राजपट्टाय साम्राज्यीय कान्तं मनोशं तस्मिन् । यस्य
शरीरम्ब । प्राप्तौ सङ्गे । उन्मीलत्पुलकानां कदम्ब्यं समूह यस्मिन् ।
उन्मीलन्ति पुलका एव कदम्बानि नीपपुष्पाणि यस्मिन्निति वा । 'अङ्गं वपु-
र्व्यवयवे' इति रत्नाकरः ॥ १८ ॥ ननु यथेच्छमालिङ्गयता, नास्तु शस्त्रयुद्धम्,
अस्तु वा बाहुयुद्धम्, इत्याशङ्क्याह किन्त्वाक्रान्तेति ॥ १९ ॥ किन्तु
आक्रान्ताः अभिभूता कठोरतेजसः शूराः येन तस्मिन् लव इति यावत् ।
यस्य शक्षस यस्य मनेति या शेष । ईदृश इति षष्ठीप्रथमैकवचनम् । 'सुडे-
तशपथाचारसिद्धान्ता समया' इति धनञ्जयः ॥ १९ ॥ परिप्लवसे चञ्चति ॥
मनोरथस्य यदिति ॥ २० ॥ बीजं सीतेत्यर्थ । प्रसवः फलादिः ॥ २० ॥
१ 'अन्तर्भूतानि' क-घ-च. २ 'परिरम्भणे' घ-घ-च. ३ 'हतम्' घ.
४ 'प्रसूनस्यागम.' ब-घ.

११६ उत्तररामचरितं [ ५-२४ ]
सुमन्त्र —तत्कस्य हेतोः ।
चन्द्रकेतु —एकेतस्तावदय वीरपुरुष पूजितो भवति । अपि च स्व-
त्वार्थं क्षात्रधर्मं समनुगतो भवति । न रथिनः पादचारमभियुञ्जन्तीति
शास्त्रविदः परिभाषन्ते ।
सुमन्त्र —( स्वगतम् । ) आः कष्टा दशामनुप्रपन्नोऽस्मि ।
कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाभ्यनुजानातु साहसरैकरसां क्रियाम् ॥ २१ ॥
चन्द्रकेतु —यदा तातमिश्रा अपि पितुः प्रियसखधर्मसंशयेष्वार्यमेव
पृच्छन्ति तत्किमार्यो विमृशति ।
सुमन्त्र —आयुष्मन्, एव यथार्थमभिमन्यसे ।
एष साङ्ग्रामिको न्याय एष धर्मः सनातनः ।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥
चन्द्रकेतु —अप्रनिरूपं वचनमार्यस्य ।
इतिहास पुराणं च धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥
सुमन्त्र —( सस्नेहास्रं परिष्वज्य )
जातस्य ते पितुरपीन्द्रजितो निहन्तु-
र्धैत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं
दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥
पादाभ्यां चारः संचारो यस्य ॥ कथ हीदमनुष्ठानमिति ॥ २१ ॥
अनुष्ठानं आचरणम् । मादृशः अनभिज्ञः इति यावत् । प्रवीते समानयु-
द्धस्य न्याय्यत्वादिति भावः । रणमुखे यानादवतरणमेव साहसमिति भावः ।
अनुष्ठान क्रियामिति च ध्वनी । अत्र द्विारावजागलस्तनी ॥ २१ ॥ मिश्रा
इत्यत्र पादा इति च पाठः । रामादयः इत्यर्थः । पितुः दशरथस्य । विमृ-
शति विचारयति । अनुरूध्यसे अनुवर्तसे ॥ एष साङ्ग्रामिक इति
॥ २२ ॥ सनातनः नित्यः । 'चरितमपि चारित्रम्' इति द्विरूपः ॥ २२ ॥
अप्रतिरूपं असमानम् ॥ इतिहास पुराणमिति ॥ २३ ॥ इतिहास
पुरातनम् ॥ २३ ॥ जातस्य ते पितुरिति ॥ २४ ॥ तस्य लक्ष्मणस्य ।
१ 'एकस्तावद्' ग, 'यतस्तावद्' घ-च २ 'परिभाषित' न; 'सम्यगनुगतः'
घ; 'अनुगृहीत' प ३ 'कथ हीद' न ४ 'प्रतिरूप' घ-प ५ 'विजेतुः'
घ-च ६ 'कुल' प-प

५-२६ ] उत्तररामचरितं ११७
चन्द्रकेतुः—( सरथम् )
अप्रतिष्ठे रघून्ज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
इति दुःखेन तप्यन्ते अद्यो नः पितरोऽपरे ॥ २५ ॥
सुमन्त्रः—अहह हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः—हन्त मिश्रीकृतो रसक्रमो वर्तते ।
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालोल्बणरसः ॥ २६ ॥
चन्द्रकेतुः—(अवतरणं रूपयन् ।) आर्य सौमित्रिश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः—अहितस्यैव पराजयाय महानादिवराहः कल्पताम् ।
अपि च ।
अपत्यं चन्द्रकेतु । प्रतिष्ठां कीर्त्तिम् । गतमिति ध्वनि ॥ २४ ॥ अप्रतिष्ठे
कुलज्येष्ठे इति ॥ २५ ॥ रघवः दशरथाय ज्येष्ठा यस्य । 'ज्येष्ठोऽतिशय.'
इत्यमर । रघुभ्य भरतलक्ष्मणशत्रुघ्नेभ्य इति वाऽर्थ । रघूश्रेष्ठे इति च पाठ ।
अप्रतिष्ठे अपवादिनि भावि । तुर्यपादे ध्वनि ॥ २५ ॥ रसयो शान्त-
वीरयो । क्रमो रीति । शान्तिं वर्णयति-यथेन्दावानन्दमिति ॥ २६ ॥
समुपोढे उदिते । अस्मिन् चन्द्रकेतौ । वीररस वर्णयति-कलहकाम
इति । अयमसौ । रणत्कारः शब्दानुकार । तेन क्रूरं क्वणितं शब्द यस्य
तादृग्गुण मौर्वी यस्य घण्टामाघनेन गुञ्जद् गुरु बलिष्ठु यत् धनुः गुणं च
तदनु । तस्मिन् धृतप्रेमा । विकचाः स्फुटा विकरालाः विशेषेण भय-
ङ्करा व्रणाः व्याघातसमयी मुखे तले यस्य । 'मार्गगभ्यस्तयो सन्धिरि-
शेयतलयोर्मुखम्' इति त्रिकाण्डशासनम् । बाहु स्फुरतीति शेष ॥ २६ ॥
अहितस्य शत्रो एवकारेण लवो व्यावत्र्त्यते । तस्याहितत्वाभावादिति दैव-
विज्ञं बोध्यम् । पराजयं भङ्गम् । महान् पूज्य । आदिवराहः वराहा-
वतारो विष्णु ॥ 'दाशमर्काविट्ठयं शकारसत्यं रामाहुरोमेतिम् । पराजयमनि-
१ 'कुलज्येष्ठे' क-घ-न. २ 'मिश्रीकृतक्रमो रसो' न, 'रम.' घ. ३ 'विक-
रालव्रणमुख.' न-टी. ४ 'रैश्यारु' न. ५ अस्य स्थाने 'अमिस पूज्यमूर्द्धन्वि
ककुत्स्थस्येव ते महः । श्रेयसे शाश्वतो देवो वराह. परिकल्पताम्' ॥ २७ ॥ इति
क-घ-च-पुस्तकेषु.

११८ उत्तररामचरितं [ ५-२७
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पिता
त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि ।
ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते
देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥
लवः—कुमार अति हि नाम शोभसे रथस्थ एव । कृतं कृतमत्या-
दरेण ।
चन्द्रकेतुः—तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।
लवः—आर्य प्रत्यारोपय रथोपरि राजपुत्रम् ।
सुमन्त्रः—त्वमप्यनुरुध्यस्व चन्द्रकेतोर्वचनम् ।
लवः—को विचारः स्वेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्तरथ-
चर्याः ।
सुमन्त्रः—जानासि वत्स दर्पसौजन्ययोर्यथोचितमाचरितुम् । यदि पुन-
स्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदा तस्य स्नेहेन हृदयमभिष्य-
न्देत ।
लवः—आर्य सुजनः स राजर्षिः श्रूयते । ( सलज्जमिव । )
त्राणा प्रार्थ्यदादिकाळत ॥' इति स्मरणात् ॥ देवस्त्वां सवितेति ॥ २७ ॥
धिनोति प्रीणयतीति माठरः । मैत्रावरुणः वसिष्ठ । ते तव गुरूणां
पित्रादीनाम् । गुरुः पुरोहित । 'अथागस्त्यवसिष्ठयोमैत्रावरुणिमैत्रावरुणः'
इति वैजयन्ती । 'मङ्गलेष्वथो अथ' इति धरणि । इन्द्राविष्णोरिदं ऐन्द्रावै-
ष्णवम् । अग्निमरुतोरिदं आग्निमारुतम् । सुपर्णस्येदं सौपर्णम् । ओजः
तेज । ते तुभ्यम् । अस्तु । इन्द्राविष्णू इत्यादिश्रुतिसिद्धा । ज्याघोष एव
मन्त्रः । जयं च देयादेव । रामलक्ष्मणेत्यनेन लवचन्द्रकेत्वोरुभयोरपि जय
इत्यर्थात् सिद्धम् । अत्र त्वामिति एन(१)ते चैकं पुनरुक्तम् ॥ २७ ॥ अतिशो-
भसे इति वक्तव्यमिति पृथक्कथनं प्रमाद इति कश्चित् । तन्न । 'अत्यन्तमति
चैकान्तमशर्थम्' इति शब्दमालायां सात्तण्डेनाभिधानादतीति पृथक्
प्रयोगो युज्यते । द्विगर उच्चारणव्रीडेर । नाम प्रसिद्धौ । रथमलमिति
ध्वनिः । उपकरणेषु रथादिषु । 'साधनमुपकरणं सामग्री च परिच्छदः' इति
रत्नाकर । अरण्ये सीदन्तीति अरण्यसदः । चर्या पदस्थिति । अनुपदे
वयमपीत्यात्मनैवात्मा स्तूयत इति सङ्कोचवशात् सलज्जमियेत्युक्तम् ॥ यदि
१ 'पतिः' न. २ 'ऐन्द्र वैष्णवम्' ग-घ. ३ 'यथाचरितम्' न.

वयमपि न खल्वेवं प्रायाः ऋतुप्रैतिघातिनः
क इह न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमस्रक्षिणां
विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥
चन्द्रकेतुः-( सस्मितम् ) किं नु भवतस्तातपादोत्कर्षेप्यमर्षः ।
लवः-अस्त्विहामर्षो मा भूद्वा । एतत्तु पृच्छामि । दान्तं हि राजानं
राघवं शृणुमः । स किल नात्मना दृप्यति नास्य प्रजा वा दृप्ता जायन्ते ।
तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ।
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः ॥ २९ ॥
इति ह स्म तां निन्दन्ति । अथेतररामिष्टुवन्ति ।
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥
च वयमपीति ॥ २८ ॥ वयमपि न खल्वेवमिति काकुः । एवं सुजना
एवेत्यर्थः । किं तम् इत्याह-शाम इति । प्रायः बहुधा । ऋतुद्विषतां असुर-
राक्षसानाम् । अरिं हन्तारम् । तदपि तथापि । 'सप्तलोकरैकवीरस्य' इति
तुरङ्गरक्षिणा व्याहारः उक्तिः । मे विकृतिं विकारम् । अकरोत् खलु
॥ २८ ॥ 'दमं क्लेशसहो दान्तः' इत्यमरः । 'दमशीलो बाह्यः इन्द्रियनिग्रहः'
इति भगवान् बोधायनः । अन अस्वरक्षशेगायाम् । तस्य राज्ञस्य मनु-
ष्याः ॥ ऋषयो राक्षसीमेति ॥ २९ ॥ सा वाक् योनिः कारणम् ।
लोकस्य बहुर्जनस्य । 'अलक्ष्मीस्तु निर्ऋतिः' इत्यमरः ॥ २९ ॥ इति ह स्म
इति कथनार्थः सम्प्रदायः । 'तु हि च स्म ह वै पूर्ती' इति केशवः । अत एव
'शारमहं ददर्श ह' इति प्राचेतसः ॥ कामं दुग्धे इति ॥ ३० ॥ कामं
मनोरथम् । दुग्धे दोग्धि विप्रकर्षति दूरयति । निष्कृदन्ति (१) निस्कृप
इति । सूनृतां प्रिताम् वाचं धेनुं कामधेनुम् । आहुः वदन्ति ॥ ३० ॥
-१ 'यदि च वयमप्येवं' न. २ 'ऋतुद्विषतामरी' न, 'ऋतुभति मत्सराः' घ.
३ 'निष्कृति.' न. ४ 'रामागदुग्धे' क-घ-व. ५ 'दुर्हदो निष्प्रदान्ति' न.
६ 'शुद्धो शान्ता' ग.

१२० उत्तररामचरितं [ ५-३३
सुमन्त्रः—परिपूतस्वभावोऽयं यत कुमारः प्राचेतसान्तेवासी । यद्यत्-
थैमभिसंपन्नमार्षेण संस्कारेण ।
लवः—यत्पुनश्चन्द्रकेतो वदसि किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष
इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति ।
सुमन्त्र.—नैव खलु जानासि देवमैक्ष्वाकं येनैवं वदसि । तद्विरमाति-
प्रसङ्गात् ।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने नै हि निर्बन्धमर्हसि ॥ ३१ ॥
लवः—( सहासम् । ) आर्य जामदग्न्यस्य दमन स राजेति कोऽयमु-
च्चैर्वादः ।
सिद्धं ह्येतद्वाचि वीर्ये द्विजानां
बाहोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्य-
स्तस्मिन्दांते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥
चन्द्रकेतुः—( सोन्मादमिव । ) आर्य सुमन्त्र कृतमुत्तरोत्तरेण ।
कोऽप्येष संप्रति नवः पुरुषावतारो
धीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि
पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥
लवः—को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किं-
चिदस्ति वक्तव्यम् । अथवा शान्तम् ।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वर्ण्यते
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
अभिसंपन्नं सुसत्कृतं यथा तथा । संस्कारेण संप्रदायेन । व्यनिथ । इति
यद्वदसि ॥ सैनिकानां प्रमाथेनेति ॥ ३१ ॥ दमने निग्रहीतारे रामभद्रे तु
विषये निर्बन्धं कर्तुम् ॥३१॥ सिद्धं ह्येतदिति ॥३२॥ 'वीर्ये बले प्रभावे च'
इत्यमरः । ध्वनिश्च ॥ ३२ ॥ उन्मादः चित्तविभ्रमः । कोऽप्येष संप्रतीति
॥ ३३ ॥ यस्य स्वस्य भृगुनन्दनोऽपि धीरो न । पर्याप्तं यथेप्सितं
सप्तभुवनेभ्य अभयदक्षिणा येभ्यः । पुण्यानि पूतानि रम्याणि च
तातः राम तस्य चरितानि । यः रव. ॥ ३३ ॥ यदिः संभावनायाम् ॥
वृद्धास्ते इति ॥ ३४ ॥ ते रामपादा वन्द्या इत्यर्थ । तर्के । वर्तते चरित-
१ 'परिपूतोऽय' न २ 'अभ्युपपन्नामार्षेण' न; 'अभ्युपपन्नम्' क ३ नातिनिर्वैक्त-
मर्हसि'प-घ. ४ 'श्राप्य ' घ. ५ 'दु वर्तते' न. ६ 'दमनेऽप्यखण्डयशस.' घ-प.

५-३५ ] उत्तररामचरितं १२१
यानि त्रीण्यपराङ्मुखान्यपि पदान्यासन्खरायोघने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥
चन्द्रकेतुः—आः, तातापेवादभिन्नमर्याद, अति हि नाम प्रगल्भसे ।
लवः—अये मय्येव भ्रुकुटीमुखः संवृत्तः ।
सुमन्त्रः—स्फुरितमनयोः क्रोधेन । तथा हि ।
चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः
किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमखण्डताण्डवितयोर्भङ्गेन वक्रं भ्रुवो
श्चन्द्रस्योत्कटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥
कुमारौ—तदितो विमर्दक्षमां भूमिमवतरावः ।
( इति निष्क्रान्ताः सर्वे । )
॥ पञ्चमोऽङ्कः ॥
निति शेषः । दूषणविनाशाय । सुन्दरीणां तादृशा । हि प्रसिद्धौ । सोऽप्यध-
ष्टदिति भावः । यानि त्रीणि पदानि पदक्षेपानि । पृष्ठं विमुखं (विमुखं!)
मुखं नायं येषां तानि कुतोमुखान्यपि आसन् । तत्र तेषु पदेषु । जनो-
ऽभिज्ञः पद्यानिवृत्त इति भावः । अत एव 'अपासर्पद्धनुर्मानम्' इति रामा-
यणे । अथवा इन्द्रसूनुनिधने वालिसंहारे, यत् कौशलं तत्र तस्मिन्
कौशलेऽपि । जनोऽभिज्ञः । वञ्चनया वालि संहारेति भावः । तत्रेलस्य
एकत्र सन्निवेशोऽन्यत्रानुपङ्गः । सुन्दरीति कनडेषु ध्वनिः ॥ ३४ ॥ इति
एवम् । भ्रुकुटीमुखं मुखं यस्य स भ्रुकुटीमुखः ॥ क्रोधेनोद्धतौ ॥ ३५ ॥
आवेगेन आगहेन उद्धतं यथा तथा धूतः बन्धित कुन्तलभारः यस्मिन् ।
वक्रं भ्रुवोर्भङ्गेन कौटिल्येन । उत्कटं मत्तं लाञ्छनं हरिणो यस्य तस्य
चन्द्रस्य । उद्भ्रान्तः सभ्रान्त भृङ्गः यस्मिन् । तस्य कमलस्य च कान्तिं
धत्ते इत्यनेन वक्रं चन्द्रकमलद्विम्बाकृतेर्धारित्वेन कवेस्तात्पर्यम् । न तु
पद्मिना रुष्टिना वा विवक्षितं । अत एव 'किमिन्दुः किं पद्मं किमु मुकुरबिम्बं
किमु मुखम्' इति विल्हणः ॥ ३५ ॥ विमर्दक्षमां युद्धयोग्याम् इति दिक् ॥
इति महाराजपद० घनश्यामपण्डितविरचिते उत्तररामचरित भावार्थनाट्यटि-
प्पण्ये पञ्चमोऽङ्कः समाप्तः ॥ इति पञ्चमोऽङ्कः ॥
१ 'अप्रातोमयान्त्ये' प, 'अप्रातोऽन्यन्ये' न. २ 'तातापरादिन्' व. ३
'र(' क-घ-य. ४ 'वेगेनोज्धूतकुकुन्दभारः सबाह्ली' न-टी. ५ 'कान्तिभेदं
च वक्रनयनाभङ्गेन निरुद्ब्रुवोः' न.

  • मदन' इत्यीकत्तनाम्रो शशाङ्कता यद्दानमुच्य कवेश्च दर्पणपद्मसन्देहद
    ॥ उ०

१२२ उत्तररामचरितं [ ६–२
षष्ठोऽङ्कः ।
( ततः प्रविशति विमानेनोन्मुखं विद्याधरमिथुनम् । )
विद्याधरः—अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहमच-
ण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तचरितानि ।
तथाहि प्रिये पश्य पश्य ।
रणत्करणझञ्झणत्क्वशितकिङ्किणीकं धनु-
र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतोः शरानविरतं पुनः शूरयो-
र्विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥
जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
स्तनयित्नोरिवामन्ददुन्दुभेर्दुन्दुमायितम् ॥ २ ॥
तत्प्रत्यवेतामनयो प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकम-
नीयसंहतिरमरतरुतरणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।
अथ रामकुशलबचन्द्रकेतूनां सङ्गापं वर्णयिष्यन् कविः 'रतोपयामयुद्धादि न
साक्षादीरये यदि ह (१) इति नाटकलक्षणस्यानश्यकतया विद्याधरमिथुनमुखा-
नुवादेन पञ्चमाङ्कावसानोपक्षिप्त चन्द्रकेतुलववक्षस्त्राशस्त्रिसमरषट्मुद्दङ्कयति–तत
इति ॥ विक्रान्ते शौर्यस्य ॥ रणत्करणझञ्झणेति ॥ १ ॥ रणत्करणेन ,
शब्दानुकरणेन सह झञ्झणन्त्यः दीप्यमानाः । क्वणितयुक्ता किङ्किण्यो
यस्मिन् । ध्वनद्गुरुगुणया अटन्या कोव्या कृतः दारुणकलकल यस्मिन् ।
धनुः कर्म । वितत्य प्रसार्य कोटिद्वयकर्षणानुत्तरसन इति भाव । अविरतं
अनिशं । मुहुः असकृत् । अभिवर्तते समन्ताद्वर्तते ॥ १ ॥ जृम्भितमिति
॥ २ ॥ 'विचित्र तु विरिधेऽपि च विस्मये' इति हलायुध । द्वयोः मङ्गलाय
शुभाय शकुनाय च । स्तनयित्नोर्मेघस्य । अमन्दं महत् । दुन्दुमायितं
शब्दानुकार कर्तृ । विजृम्भितं आविर्भूतमित्यर्थ ॥ २ ॥ अनवरतं सन्त-
तम् । अविरलं सान्द्र यथा तथा । मिलिता कमलानां कमनीया
संहतिः सङ्ग यस्मिन् । निकराणां समूहानाम् । मकरन्दैः रङ्ग्यथासी
पुष्पनिपातः कर्तृपदेतत् । निपात इति ध्वनि । तस्मात् किमिति आकाशं
१ 'क्षात्र' व-घ. २ 'रितमितानि' न, 'विचरणाति' घ. ३ 'रणत्झणितक-
ङ्कण' क-घ-प. ४ 'मतिरतरुउरङ्कलो.' क-घ-प. ५ 'अभिशयेते' व-घ.
६ 'विजृम्भितं च दिव्यस्य' क-घ-व. ७ 'अमन्द्र' क-घ-प. ८ 'हरितु'
क-घ-प.

६-४ ] उत्तररामचरितं १२३
विद्याधरी—ता किं णि उज अआण्डविस्फुरिदनडिच्छडाकडारं विअ
गम्बरं झत्ति संवुत्तम् । तकिमिति पुनरकाण्डविस्फुरिततडिच्छटाकडारमिवा-
म्बरं झटिति सवृत्तम् ।
विद्याधरः—तर्कि नु खल्वद्य
त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः ।
पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥
आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमक्षाम्याग्नेयम् ।
यस्यायमचिरात्सम्पातः । संप्रति हि । आश्चर्यम् ।
अवदग्धकर्बुरितकेतुचामरै-
रपयात्येव हि विमानमण्डलैः ।
द॑हति ध्वजांशुकपट्टावलीमिमां
नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥
प्रवृत्त एवायमुद्दण्डवज्रखण्डावस्फोटपटुरवस्फुलिङ्गगुरुश्चलत्तुमुललेलि-
हानोज्ज्वलज्वालासंभारभैरव भगवानुपर्बुध । प्रचण्डश्चास्य सर्वतः
सन्तापः । तन्प्रियामङ्गेनाच्छाद्य सुदूरमपसरामि । ( तथा करोति । )
ताण्डवितोद्धतरत्नटि च्छटाकटारमिव झडिति सवृत्तम् । 'उद्दण्ड' इति बहु-
रूपाचको देशीयशब्द । 'इट्ण्ड' इति महाराष्ट्रा । 'छटा परम्परा' इति
जय. ॥ त्वष्टृयन्त्रभ्रमीति ॥ ३ ॥ त्वष्टुः विश्वकर्मण । यन्त्रं शाणचक्रम् ।
तस्य भ्रम्या भ्रमणेन । भ्रान्तस्य मार्तण्डस्य । ज्योतिषा उज्ज्वलः ।
'आकाशमक्षियाम्' इति रमम । नीललोहितस्य रुद्रस्य । चक्षुषः नेत्र-
रुग्रामे । पुटभेदः । 'मृत्तिशाखपरे पुट ' इति निकाटी । 'मूख' इति महा-
राष्ट्रा । तथा च गालपुटे आभेदाश्रमिदं नार्तण्डवत् रुद्रेनेनाग्निवहुस्सहर्मिति
भाव ॥ ३ ॥ अप्रतिरूपं जयनिन्द्वम् । अचिरात् झटिति संपातः पतनं
यस्य ॥ अवदग्धकर्बुरितेति ॥ ४ ॥ अवदग्धानि कर्बुरितानि उत्ताल-
चित्रवर्णानि चामराणि येषु । किंशुकद्रुम इव सविभ्रमः मविलाम ।
अनेनारण्यं सूचितम् । शिखी अग्नि ॥ ४ ॥ खण्डावस्फोटैः शकलस्यै
पटुः । उत्तालाः उद्धता । तुमुललोलाः रणझुल्त्वरा । लेलिहा-
नाः ये उज्ज्वलाः तेषा संभारैः भैरवः उपर्बुधः अग्नि । 'उत्तार-
१ 'त्वाष्ट्र' क-घ-प. २ 'अप्रतिरूपम्' इति नास्ति क-घ-च-पुस्तकेषु.
३ 'अग्निरुन्द्र' ग. ४ 'र्वरित' न. ५ 'दहती ध्वजांशुकपट्टनेविभाः
यद्कुङ्कुमद्युतिविभ्रम शिखा' क-घ-च. ६ 'पटुतर' घ-च, 'पटुतरम्' न.
७ 'अनुशेन' न.

१२४ उत्तररामचरितं [ ६-५ ]
विद्याधरी-दिट्ठिआ एदेण विमलमुत्ताफलभसीदलसिणिद्धमसिणेण-
सलेन णाहदेहप्फंसेण आणन्दमदमउलिदपुण्णंतलोभणाए अंधोदिदो
जेव्व अन्तरिदो मे सदावो । दिष्ट्या एतेन विमलमुक्ताफलकशीतलस्निग्ध-
मसृणमांसलेन नाथदेहस्पर्शनानन्दमन्दमुकुलितघूर्णमानलोचनाया अर्धादित
एवान्तरितो मे सन्तापः ।
विद्याधरः—अयि किमत्र मया कृतम् । अथवा ।
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥
विद्याधरी-कह णविरलबिलोलधुण्णन्तविजुल्लदाविलास मडिदेहिं मत्त
मोरकण्ठसामलेहिं ओत्थरीअदि णभोङ्गण जह्हरेहिं । कथमविरलविलोलघूर्ण-
मानविद्युल्ताविलासमण्डितैर्मत्तमयूरकण्ठश्यामलेरवलीयते नभोङ्गण जलधरैः ।
विद्याधर -हन्त कुमारलवप्रयुक्तवारुणास्त्रप्रभाव खल्वेष । कथम-
विरप्रवृत्तवारिधारासहस्रसम्पाते प्रशान्तमेव पावकास्त्रम् ।
विद्याधरी-पिअं मे पिअं मे । प्रिय मे प्रिय मे ।
स्तूदते इति तल्लिहानस्तु भक्षक इति । 'सामग्र्यामपि सम्भार' इति धर
नीहारावलीनेदारा ॥ दिष्ट्या एतेन विमलमुक्ताफलशीतलस्निग्धमसृणमासलेन
नाथदेहस्पर्शन आनन्दमन्दमुकुलितघूर्णमानलोचनाया अर्धादित एवान्तरितो मे
सन्तापः । स्निग्धं चिक्कणं । 'मनोहरे च मसृणम्' इत्यमरमाला । मांसलो
निबिडः । आत्मनि उदित जातः । अन्तरित अन्तर्हित एव ॥ अकिं
श्विदपि कुर्वाण इति ॥ ५ ॥ किञ्चिन्न भवतीत्यकिञ्चित् । किंचिदपि न
कुर्वाण इत्यर्थः । यः प्रियो जनः । सौख्यैः यस्य दुःखान्यपोहति
दूरीकरोति, तस्य दुःखमुक्तस्य तत्सौख्यै दुःखहर्ता जन इति भावः ।
किमपि अनिर्वाच्यम् । द्रव्यं गुणाश्रयो हि । द्रव्यविधयस्त्वासन्निति नपुंस
कत्वेन निर्देश ॥ ५ ॥ कथमविरलविलोलघूर्णद्विद्युल्तानिवासमण्डितै मत्त
मयूरकण्ठश्यामले अवलीयते नभोऽङ्गन जलधरैः । वात्याऽर्थो 'घोण्त' शब्दो
देशीयः । 'घोळन्ता' इति महाराष्ट्राः ॥ प्रियं मे प्रियं मे । अतिमात्रं धनि
शय इत्यर्थः । क्षोभेण गम्भीरं यथा तथा प्रसक्तिमधे । नद्धं स्तब्धम् ।
प्रवासवाचको 'गञ्जगल' शब्दो देशीयः । 'गळाय' इति महाराष्ट्राः । 'सादृशि
१ 'अधोदिदो' (अन्तोन्नि) क एतन्नास्ति घ पु-पुस्तकयो २ 'न
किञ्चिदपि' क-न

[६-७] उत्तररामचरितं १२५

विद्याधरः—हन्त हन्त भोः सर्वमनिमात्रं दोपाय । यत्प्रलयवाता-
वटिक्षोभगम्भीरगुञ्जद्गुहापायमानमेघमेदुरान्धकारनीरन्ध्रनेदमिव एकवारवि-
श्रसयनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्ध-
सर्वद्वारनारायणोदरनिर्विष्टमिव भूतजातं प्रवेपते । साधु चन्द्रकेतो साधु ।
स्थाने वायव्यमश्रीमरीरितम् । यत ।
विद्याकल्पेन मरुता मेघाना भूयसामपि ।
ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृत. ॥ ६ ॥
विद्याधरी—णाह को दाणि एसो सभमुल्लिसन्तकरणमिदोत्तारिया-
अलो दूरदो जेव्व महुरस्निगिद्धवअणपडिसिद्धउद्धव्वावारो एदाण कुमाराणं
अन्तरे विमाणवर ओदरावेदि । [नाथ क इदानीमेष ससंभ्रोल्लिसत्करप्रमितो-
त्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोः कुमारयो-
रन्तरे विमानवरमवतारयति ।]
विद्याधरः—( दृष्ट्वा ) एष शम्बूकवधाद्विनिवृत्तो रघुपतिः ।
शान्तं महापुरुषसङ्गतितं निशम्य
तद्घोरवत्समुपसंहृतसं प्रहारः ।
ग्वद्यु नेदुर ' इत्यन्र । एकवार गङ्कद् । निरुड त्रुटिउ । कन्दरे
विवर्तमानं परिणममानम् । निद्रया निरुद्धानि वार्वानि सर्वद्वाराणि
शरीरखन्युद्वाराणि यस्य । निविष्टं प्रविष्टमिव यत् तद् भूतजातं प्राणि-
मूह प्रवेपते इति अन्वयो योज्य ॥ विद्यारूपेनेति ॥ ६ ॥ विद्यायाः
मोक्षसाधनीभूतवेदान्तस्य कल्पेन पारडीचनेन । 'कल्पो योगेष पारडीहने'
इति धनञ्जय. । ब्रह्मणि विवर्तानां जाता प्रविलय. ऐक्यमिव । मरुता
वायुना मेघानां क्वापि प्रकरण इति शेष । प्रविलयः प्रमार्जनम् ।
कृतम् ॥ ६ ॥ नाथ क इदानीमेष सप्रनोल्लिखसोत्तरायाञ्चल दुरत एव मधुरस्नि-
ग्धवचनप्रतिषिद्धव्यापार कुमारयोरन्तर विमानोरसंवरो नाहरति । वत्त्रघूननं
निषेधव्यञ्जक इति जयदनुभवसिद्धम् । अन्तरे मध्ये ध्वनिथ ॥ शान्तं
महापुरुषेति ॥ ७ ॥ शान्तं सौम्यम् । पनिथ । महापुरुषस्य रामस्य
संगतकं हृदयद्रमम् । सार्थ क इति कश्चित् । तन, 'शिरोऽम्बुवचनेषु दम्'
इति केदार । रुसासङ्गतमित्यस्य हृदयङ्गमवचनमित्यर्थ इति कथनहंसोर्वि-
तत्वात् । संप्रहारः युद्धम् । शान्तो रूप इति ध्वनि । तुकार पादपूरण
१ 'गुञ्जगुमायमान' प, 'गुञ्जगुपायमान' ड. २ 'निवडम्' व-घ.
३ 'विसदते' व. ४ 'शन्द' व-प. ५ 'निविष्टिव' व-घ.

शान्तो लवः प्रणत एव च चन्द्रकेतुः
कल्याणमस्तु सुतसङ्गमनेन राज्ञः ॥ ७ ॥
तदितस्तावदेहि । ( इति निष्क्रान्तौ । )
मिश्रविष्कम्भकः ।

( ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च । )
रामः—( पुष्पकादवतरन् । )
दिनकरकुलचन्द्र चन्द्रकेतो
सरभसमेहि दृढं परिष्वजस्व ।
तुहिनशकलशीतलैस्तवाङ्गै-
र्शममुपयातु ममापि चित्तदाहः ॥ ८ ॥
( उत्थाप्य सस्नेहम् परिष्वज्य । ) अपि नाम कुशलं तव दिव्यास्त्रपरदेहस्य ।
चन्द्रकेतुः —कुशलमत्यद्भुतक्रियस्य प्रियदर्शनस्य लवस्य लाभाभ्युद-
येन । तद्विज्ञापयामि मामिव विशेषेण वा मत्त प्रियेण चक्षुषा पश्यत्वमुं
वीरंमनराक्षसाहस तात ।
रामः—( लवं निरूप्य । ) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं
वयसो धरस्य ।
धातुं लोकानिव परिणतः कायवानक्षवेद्यः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।
सामर्थ्यानामिव समुदयः सञ्चयो वा गुणाना-
माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥
लवः—( स्वगतम् । ) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः ।
इति केचित् । चन्द्रकेतुरित्यन्ये । स चन्द्रकेतुरिति वा पाठः । सुतयोः
सङ्गमनेन प्राप्त्या । सङ्गमने इति सप्तमीलाभात् राज्ञ इति ध्वनिः ॥ ७ ॥
मिश्रविष्कम्भ इति उदात्तनीचपात्रोक्तौ मिश्रविष्कम्भ' इति लक्षणात् ।
दिनकरकुलेति ॥ ८ ॥ 'दिष्ट्यार्थे चन्द्रकछाया' इति मेदिनी । दाहः
तापः ॥ ८ ॥ अन्तरालं मध्यं ॥ धातुं लोकानिवेति ॥ ९ ॥ धर्मः क्षात्रो
य धर्म आचार एव कोशः प्रदीपः । समुदयः संचयश्च राद्धः । व्य-
निधिः । जगतः पुण्यनिर्माणानां सुकृतविरचनानाम् । राशिः पुञ्जः ॥ ९ ॥
पुण्यस्य अनुभावः प्रभावः यस्मात् तादृशं दर्शनं आलोकनं यस्य । पुण्या-
१ 'संनिकतेन' घ. २ 'महावीरप्रकाण्डम्' क-घ-प.

तृतीय अङ्क: छाया (तमसा, सीता छाया व राम मूर्छा)

॰१२] उत्तररामचरितं १२७
आश्वासस्नेहभक्तीनामेकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० ॥
आश्चर्यम् ।
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन-
स्तद्दौर्जन्यं क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमित्र परवानस्मि यदि वा
महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥
रामः—तत्किमयमकेपद एव मे दुःखविश्रामं दद्यात्पुत्रस्नेहयति च
कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्र-
निषिद्धमेतत् ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
नि पवित्रत्वानि । अनुभाव सम्मतिनिधय । दर्शनानि शास्त्राणि च यस्मि-
न् । 'अनुभाव प्रभावे च सत्ता च मतिनिधये' इत्यमर ॥ आश्वास इवेति
॥ १० ॥ आश्वासस्नेहयोः सान्त्वनप्रणययो सन्निध्योरिति भाव ।
भक्तीनां परन्तृचाणामिति भाव । एकं अद्वितीयम् । आयतनं स्थानम् ।
प्रकृष्टस्य आवरणस्य । धर्मस्य तत्रनेयादे । 'यजेतावरणैर्मृथ्यैः' इति
स्मरणात् । मूर्त्या सुन्दरः मूर्ति शरीर सुन्दर दस्येति वा । सौन्दर्येण मूर्त्त
इति भावः । प्रसाद अनुग्रह इव स्थित इति शेष । तथा चाश्वमेधस्यैव फलं
राम इति भाव ॥ १० ॥ विरोधो विश्रान्त इति ॥ ११ ॥ स प्रसिद्धः ।
विश्रान्तः विरत वीरो रसः निर्वृतिघनः सुखमान्द्र सन् । प्रसरति
व्यासो भवति । तत् परभण्डरम् । प्रह्वयति नक्षयति । अस्मिन् महापुरुषे ।
'पराधीन परवानायत्तामपि' इत्यमर । यदि वा अथवेत्यर्थं । 'मद्गोत यदिवा-
यथा' इति निकमार्क । तीर्थानां गुरुणानिव । महतां पूज्यानाम् । महार्घः
उत्सवपूर्वकपूजाविधिरित्यर्थ । 'मह उत्सवे' इति, 'पूजाविधावर्घ ' इति
चामर । कोऽपि अतिशयो हि ॥ ११ ॥ 'सहसा स्यादेकपदे' इति
जन्दी । दुःखाय विश्रामं रिरति अभावनिति यावत् । कुतः कस्मादपि ।
निमित्तात् कारणात् । निमित्तेन सव्यपेक्षः सापेक्ष इत्येतात् । विप्रतिपि-
द्धं विशेषेण निषिद्धमित्यर्थ ॥ तदेवोपपादयति ॥ व्यतिषजति इति ॥ १२ ॥
१ 'आश्वास इव भक्तीनामेकम्' ग, 'रुकमात्म्नन' क-घ-व. २ '० सप्रर.'
३ 'किमिति' ग; 'किमसि' क.

३२८ उत्तररामचरितं [ ६-१३
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥
लवः-चन्द्रकेतो क एते ।
चन्द्रकेतुः-प्रियवयस्य ननु तातपादाः ।
लवः-ममापि तर्हि धर्मतस्तथैव । यत प्रियवयस्य इति भवतोक्तम् ।
किं तु बहवः खलु भवतामेवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथा-
पुरुषाः । तद्विशेषं ब्रूहि ।
चन्द्रकेतुः-ननु ज्येष्ठतातपादा इत्यवेहि ।
लवः-( सोल्लासम् । ) कथं रघुनाथ एव । दिष्ट्या सुप्रभातम् अद्य यदयं
देवो दृष्टः । ( सविनयकौतुकं निर्वर्ण्य । ) तात प्राचेतसान्तेवासी लवोऽभि-
वादयते ।
रामः-आयुष्मन् एह्येहि । ( इति सस्नेहमालिङ्ग्य । ) अयि वत्स कृतं
कृतमतिविनयेन । अनेनवारमपरिक्लथ्य परिष्वजस्व माम् ।
परिणतकठोरपुष्करगर्भच्छदपीनमस्सृणसुकुमार ।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तर स्पर्श ॥ १३ ॥
लवः-( स्वगतम् । ) ईदृशो मा प्रत्यमीषामकारणस्नेहः । मया पुन-
रेभ्य एव द्रोद्धुमनेनायुधपरिग्रहः कृतः । ( प्रकाशम् । ) मृष्यन्त्विदानीं
लवस्य बालिशतां तातपादाः ।
आन्तरः अन्तःकरणात्मको हेतुः । पदार्थान् प्रतिरूपान् । व्यतिषजति
व्यतिषक्तान् सम्बद्धान् करोतीत्यर्थः । 'व्यतिषजन्ति सम्बध्नाति' इति श्रीनाथः ।
'उपाधिस्तु निमित्ते च' इति हेमचन्द्रः । तत्रोदाहरणमाह-हीति । पतङ्गस्य
रवेः । पुण्डरीकं सिताम्भोजम् । हिमरश्मौ चन्द्रे । उद्गते उदिते सति ।
चन्द्रकान्तशिला । द्रवती स्रवतीति माठरः । तथा च अतिदूरे रवौ चन्द्रेऽप्यु-
दिते यथा पुण्डरीकं विकसति चन्द्रकान्तश्च द्रवति । तथैव केनाप्यान्तरहेतुना
प्रीतयो वर्धन्त । नात्र निमित्तापेक्षेति भावः । 'प्रतिशब्दः प्रेम्णा च' इति वामनः
॥ १२ ॥ क एत इति पूजायां बहुवत्वम् । तथैव तातपादा इत्यर्थः । भवता-
मिति पूजायाम् । युष्मच्छब्दश्चन्द्रकेतुप्रमुखानामिति च व्यज्यते । भवत इति च
पाठः । एवं व्यपदेशः तातेति व्यवहारः स एव भागः येषामस्ति ते
भागिनः । तत्रभवन्तः पूज्याः । 'व्यपदेशस्तु व्यवहारः' इति संसारावर्ते ।
तेषु विशेषम् । अपरिक्लथं दृढम् ॥ परिणतकठोरेति ॥१३॥ परिणत-
१ 'अङ्गेन मामपरिक्लथे परिष्वजस्व' न. २ 'अभिद्रुग्धमनेन यदायुधपरिग्रह-
मावद्बप्पास्ततो दुर्योग' क-घ-प.

६-१४ ] उत्तररामचरितं १२९
रामः-किमपराद्धं वत्सेन ।
चन्द्रकेतुः-अश्वानुयात्रिकेभ्यस्तातमपराधविकरणमुरुबहुल वीरायित-
मनेन ।
रामः-नन्वयमलंकारः क्षत्रस्य ।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥
चन्द्रकेतुः- अमर्षोऽप्यस्यैव शोभते महाबीरस्य । पश्यन्तु हि तात-
पादाः प्रियमबलनियुक्तजृम्भकास्त्रनिरुद्धरम्भितानि सर्वतः सैन्यानि ।
रामः-वत्स लव संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो निर्व्यापारविल-
क्षितानि सान्त्वय बलानि ।
लवः-यथाज्ञापयति तातः । ( इति प्रणिधानं नाटयति । )
चन्द्रकेतुः-यथादिष्टम् । ( इति निष्क्रान्तः । )
लवः-तात प्रशान्तमस्त्रम् ।
रामः-वत्स सरहस्यप्रयोगसंहाराण्यस्त्राण्याम्नायवन्ति ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा
परं सहस्राः शरदस्तपांसि ।
कठोरपुष्कराणां विकसितपद्मारविन्दानाम् । आन्तरपुटवत् पीनः स्थूलः ।
जडः शिशिरः ॥ द्रोग्धुं द्रोहं कर्तुम् । वालिशतां मौर्व्यम् । वीरवदाचरितं
वीरायितं पौरुषं कृतमित्यर्थः । ध्वनिध ॥ न तेजस्तेजस्वीति ॥ १४ ॥
प्रसूतं व्याप्तम् । तस्य तेजस्विनः । प्रकृतिनियतत्वात् जन्मसिद्धत्वात् ।
'जन्मसिद्धस्वभावेषु प्रकृति.' इति कश्चित् । अकृतकः अकृत्रिमः । मयूखैः
किरणैः । अश्रान्तं भनिशम् । तपति यदि तपति चेत् । आग्नेयग्रावा
'सूर्यकान्तरत्नमिभा' इति, 'विकृतः स्यादुपकृत' इति चामरः । 'तस्मिन्
विप्रकृताः काले' इति ईश्वरकृष्णमिश्रः ॥१४॥ निर्व्यापाराणि व्यापाररहि-
तानि । अत एव विलक्षणा(क्षिता?)नि । बलानि सैन्यानि । प्रणिधानं
ध्यानम् । सरहस्या. जृम्भकाणां प्रयोगोपसंहाराः येषु तानि । पाराय-
१ 'प्रसहते' घ-व. २ '० नियुक्तेन जृम्भकास्त्रेण विकन्द सम्भितानि सर्वसैन्यानि'
न. ३'०णहारजृम्भकास्त्राणि दिष्ट्या इत्यक्षतारि संपदन्ते' न. ४'दरःसहस्रं' क-न.

१३० उत्तररामचरितं [ ६-१७
एतान्यपश्यन्गुरवः पुराणाः
स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥
अथैतन्मन्त्रपारायणोपनिषदं भगवान्कृशाश्वः परःसहस्रसंवत्सरान्तेवासिने
कौशिकाय प्रोवाच । स तु भगवान्मह्यमित्येष गुरुपूर्वानुक्रमः । कुमारस्य
कुतः संप्रदाय इति पृच्छामि ।
लवः—स्वतःप्रकाशान्यावयोरस्त्राणि ।
रामः—( विचिन्त्य । ) किं न संभाव्यते । प्रकृष्टपुण्यपरिपाकोपादान-
कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ।
लवः—भ्रातरावां यमौ ।
रामः—स तर्हि द्वितीयः कः ।
( नेपथ्ये । ) दाण्डायन
आयुष्मतः किल लवस्य नरेन्द्रसैन्यै-
रायोधनं ननु किमात्थ सखे तथेति ।
अद्यास्तमेतु भुवनेष्वधिराजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥
रामः—अथ कोऽयमिन्द्रमणिमेचकुरुच्छवि-
र्ध्वनिनेव बद्धपुलकं करोति माम् ।
नवनीलनीरधरधीरगर्जित-
क्षणबद्धकुड्मलकदम्बडम्बरम् ॥ १७ ॥
लवः—अयमसो मम ज्यायानार्यः कुशो नाम भरताश्रमान्प्रतिनिवृत्तः ।
रामः—( सकौतुकम् । ) वत्स इत एवाह्वयैतमायुष्मन्तम् ।
लवः—एवम् । ( इति परिक्रामति । )
पश्य पठमस्य । उपनिषदं । तमरेभ्य प्रभृति । अन्तेवासिने शिष्याय ।
गुरूणाम् । कुतः कस्मात् । पुण्यानां परिपाक परिणाम एव उपादानं
कारणं यस्य । उपादानमिति यमायिति च ध्वनी । तथा अनिशयेनेत्यर्थ ॥
आयुष्मतः किलेति ॥ १६ ॥ क्षत्रम्य रामस्येति भावः । शस्त्राण्येव
शिखिनः अग्नय ॥ १६ ॥ अथ कोऽयमिन्द्रेति ॥ १७॥ इन्द्रमणिवत्
मेचका नीला छविः कान्ति यम्य । धीरगर्जितक्षणे गम्भीरस्तनितक्षणे ।
यद्धकुड्मलः यः कदम्बो नीर तस्य डम्बरः शारभटी यस्य तम् ।
१ 'अथैतास्मन्त्रान्द्रोपनिषदम्' ग-क. २ 'सहस्राधिकसंवत्सरपरिचर्यानिरा
यान्ते०' न. ३ 'पूर्वानुक्रमः' घ, 'क्रमः' घ. ४ 'भुवनेषु च राज०' न.

६-१९ ] उत्तररामचरितं १३१
( ततः प्रविशति कुशः । )
कुशः- ( साकूतहर्षनेत्रं धनुरास्फालयन् । )
दत्तेन्द्राभयदक्षिणं भगवतो वैवस्वताद्वा मनो-
दृप्तानां दहनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितस्यं धनुः ॥ १८ ॥
( इति विकटं परिक्रामति । )
रामः-कोऽयमिन्क्षत्रियपोतके पौरुषातिरेकः ।
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमभ्युत दर्प एव ॥ १९ ॥
लवः- ( उपसृत्य । ) जयन्त्वार्यः ।
कुशः-आयुष्मन् किमियं वार्ता युद्धं युद्धमिति ।
लवः-यत्किञ्चिदेतत् । आर्यस्तु दृष्टभावमुत्सृज्य विनयेन वर्तताम् ।
कुशः-किमर्थम् ।
'आरभटी चारभटीकाऽम्बरश्च' इति रुद्रः ॥ १७ ॥ दत्तेन्द्राभयेति ॥ १८ ॥
वैवस्वतान्मनोरागतैः जातायैः । संभूतिरिति यावत् । दृप्तानां गर्वितदै-
त्यानाम् । आदित्यैः वैकर्तनैः । 'ऐक्ष्वादिजनकादित्यविदेहरघवो दिशः'
इत्यमरः । मानितैरिति च पाठः । ततः विस्तृतः । विग्रहो यदि युद्धं चेत् ।
धनुः । दीप्तास्त्राण्येव स्फुरन्तौ उग्रदीधिती अग्निमूर्ती तयोः शिखानिः
ज्वालाभिः । नीराजिता कृतनीराजना । गुम्भि(म्फि?)तेति यावत् । ज्या
मौर्वी यस्मिन् तादृशं शोभतामिति शेषः । धनुर्भ योजितास्त्रं भवत्विति भावः
॥१८॥ क्षत्रपोते क्षत्रियडिम्भे । पौरुषस्य सामर्थ्यस्य । अतिरेकः आधि-
क्यम् ॥ दृष्टिस्तृणीकृतेति ॥१९॥ जगत्त्रये मत्ताः । 'बलाधिके च सत्त्वोऽ-
स्त्री' इत्यमरशेषः । गतिः गमनम् । पादार्पणक्रम इति यावत् । 'बाल्ययौवनम-
ध्यस्थं वयः कौमारकं विदुः ।' इति नन्दी । गुरुतां गुरुत्वं गुणविशेषं
महत्त्वं च । गिरिवदिति कथनं गुरुतायां सार्वकालिकत्वसूचकम् । उत
अथवा । 'औद्धत्यमशङ्को दर्पः ।' इति गोवर्धनः ॥ १९॥ युद्धमित्यनादरे ।
यत्किञ्चिदिति कथनं आत्मसदृशयुद्धाभावज्ञापकम् । दृप्तभावं दर्पम् ।
, १ 'सक्रोधं कृतधैर्य' न. २ 'दमनाय' भ. ३ 'दीप्तास्त्र०' न-घ-व.
४ 'उत्सृज्याधोऽस्मिन् विनयेन' व-घ.

१३२ उत्तररामचरितं [५-२०
लवः—यदय देवो रघुपतिस्तिष्ठति। स च दिदृक्षावयोस्कण्ठते च
युष्मत्सैनिकपंक्त्य ।
कुशः—(सतर्कम्।) स रामायणकथानायको ब्रह्मकोशस्य गोपायिता।
लवः—अथ किम्।
कुशः—आशंसनीयपुण्यदर्शनः स महात्मा। किं तु कथमस्माभिरुपग-
न्तव्य इति न संप्रधारयामि।
लवः—यथैव गुरुस्तथोपसदनेन।
कुशः—कथं हि नामैतत्।
लवः—अभ्युदात्तः सुजनश्चन्द्रकेतुरेौरिमलेयः प्रियवयस्येति सख्येन मामु-
पतिष्ठते। तेन तत्सम्बन्धेन धर्मतात एवायं राजर्षिः।
कुशः—संग्रह्यवचनीयो राजन्येऽपि प्रश्रयः।
(उभौ परिक्रामतः।)
लवः—पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसम्भाव्यमानवि-
विधलोकोत्तरसुचरितातिशयम्।
कुशः—(निर्वर्ण्य।)
अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्देवी वाचं व्यवीवृतत् ॥ २० ॥
(उपसृत्य) तात प्राचेतसान्तेवासी कुशोऽभिवादयते।
रामः—एह्येह्यायुष्मन्!
आवयोरिति सप्तमीद्विवचनम्। धातृङ्.। ब्रह्मण एव विप्रा त एव कोशाः
अर्थांप.। ‘वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्र.’ इत्यमरः। ‘गुरुस्तात उपाध्याय.’
इति पठन् इति शेषः । उदात्त महान् । और्मिलेयः ऊर्मिलापुत्र. ।
‘सख्यं साप्तपदीनम्’ इत्यमर । राजन्ये क्षत्रियविषये । प्रश्रयः विनदः ।
...श्चास्र इति रभसः। आकारानुभावस्य स्वरूपप्रभावस्य। गाम्भीर्येण ॥
अहो प्रासादिकमिति ॥ २० ॥ प्रासादिकं प्रसादनदानम् । ‘माहात्म्ये
चानुभाव.’ इति वषिल । वाल्मीकिः रामायणमुद्दिश्य । वाचं सरस्वतीम् ।
व्यवीवृतत् वर्तयति स्मेल्यर्थः। परिणामयति स्मेति यावत्। स्थाने युक्तम्
१ 'रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता' इति
सूत्रवाक्य न-पुस्तके. २ 'भवीवृनद्' क, 'मवीवृषत्' न.

६-२३] उत्तररामचरितं १३३
अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः॥ २१॥
(परिष्वज्य। स्वगतम्।) तत्किमपत्यमयं दारकः।
अङ्गादङ्गात्स्रुतः इव निजस्नेहजो देहसारः
प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः।
सान्द्रानन्दक्षुभितहृदयप्रस्रवेनेव सृष्टो
गात्रं श्लेषे यदमृतरसस्रोतसा सिञ्चतीव ॥ २२ ॥
लवः—तात ललाटंतपो घर्मांशुः। तदत्र सालवृक्षच्छायाये मुहूर्त्तमासनप-
रिग्रहं करोतु तातः।
रामः—यदभिरुचितं वत्सस्य।
(सर्वे परिक्रम्य यथोचितमुपविशन्ति।)
रामः—(स्वगतम्।)
अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः।
साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥
॥ २० ॥ अमृताध्मातेति ॥ २१ ॥ अमृतेन सुधया। आध्मातः पूरित-
च जीमूतः मेघः। तस्येव स्निग्धं संहननं वपुः यस्य । 'मसृणश्यामयोः
स्निग्धम्' इति शाश्वतः ॥ २१ ॥ अङ्गादङ्गादिति ॥ २२ ॥ 'अङ्गादङ्गादिति'
श्रुतिः । यद. । निजस्नेहजः स्वप्रेमसंभवः। सारो बलं एको मुख्यः ।
चेतनायाः धातुः। 'कामोद्रेके चेतने' इति, 'धातु' स्याद्गर्भविकृतौ' इति
शब्दमालाभण्डार्थवी । आनन्देन क्षुभित. स्थानाद्गत्यासी हृदयप्रस्रवः तेन
सिक्तः । प्रस्रव आर्द्रता । 'पाडता' (पाण्डा ?) इति महाराष्ट्राः । स तादृशः
सम...यावत्। आश्लेषः आलिङ्गनम् । मम ये हिमप्योतं तुहिननिर्गलनम्।
आ समन्ताद् शंसतीव । एतदालिङ्गनमतिमुखशीतलमिति भावः ॥ २२ ॥
'कठोर...सूर्य्यं दृष्टो रविः करे' । यदा ललाटं तपति स्याल्ललाटन्तपस्तदा ॥'
डल्मरशेषः । 'भूर्जंशु मण्डस्मात्' इति धन्वन्तरिः । आसनपरिग्रहं
शासनं गृहाण । ध्वनिय ॥ अहो प्रश्रययोगेऽपीति ॥ २३ ॥ प्रश्रययोगे
अनन्यकर्तृरविनययोगेऽपि । स्वस्यैवोपचारकतादशायामपीति भाव । 'योग-
सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । स्थितिः अवस्थानम् । आसनं
उपवेशनम् । अनयोराङ्गत्वेन रूपणादिकं प्रद्यते । भावाः चेष्टा लक्षयन्ति कः ।
१ 'मिह' घ. २ 'परिप्वङ्गत' ब. ३ 'तत्किमप्य च दारकः' न. ४ 'स्रुत'
के-घ. ५ 'निजो देहजः स्नेहसारः' घ-च. ६ 'इव' क-घ. ७ 'प्रस्रवेणावसित्तः'
ग. ८ 'आश्लेष. स दि मम हिमख्योतनादांसतीव' न. ९ 'ललाटंतपस्तपति' न.
१२ उ०