सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 145, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 145

शान्तो लवः प्रणत एव च चन्द्रकेतुः
कल्याणमस्तु सुतसङ्गमनेन राज्ञः ॥ ७ ॥
तदितस्तावदेहि । ( इति निष्क्रान्तौ । )
मिश्रविष्कम्भकः ।

( ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च । )
रामः—( पुष्पकादवतरन् । )
दिनकरकुलचन्द्र चन्द्रकेतो
सरभसमेहि दृढं परिष्वजस्व ।
तुहिनशकलशीतलैस्तवाङ्गै-
र्शममुपयातु ममापि चित्तदाहः ॥ ८ ॥
( उत्थाप्य सस्नेहम् परिष्वज्य । ) अपि नाम कुशलं तव दिव्यास्त्रपरदेहस्य ।
चन्द्रकेतुः —कुशलमत्यद्भुतक्रियस्य प्रियदर्शनस्य लवस्य लाभाभ्युद-
येन । तद्विज्ञापयामि मामिव विशेषेण वा मत्त प्रियेण चक्षुषा पश्यत्वमुं
वीरंमनराक्षसाहस तात ।
रामः—( लवं निरूप्य । ) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं
वयसो धरस्य ।
धातुं लोकानिव परिणतः कायवानक्षवेद्यः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।
सामर्थ्यानामिव समुदयः सञ्चयो वा गुणाना-
माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥
लवः—( स्वगतम् । ) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः ।
इति केचित् । चन्द्रकेतुरित्यन्ये । स चन्द्रकेतुरिति वा पाठः । सुतयोः
सङ्गमनेन प्राप्त्या । सङ्गमने इति सप्तमीलाभात् राज्ञ इति ध्वनिः ॥ ७ ॥
मिश्रविष्कम्भ इति उदात्तनीचपात्रोक्तौ मिश्रविष्कम्भ' इति लक्षणात् ।
दिनकरकुलेति ॥ ८ ॥ 'दिष्ट्यार्थे चन्द्रकछाया' इति मेदिनी । दाहः
तापः ॥ ८ ॥ अन्तरालं मध्यं ॥ धातुं लोकानिवेति ॥ ९ ॥ धर्मः क्षात्रो
य धर्म आचार एव कोशः प्रदीपः । समुदयः संचयश्च राद्धः । व्य-
निधिः । जगतः पुण्यनिर्माणानां सुकृतविरचनानाम् । राशिः पुञ्जः ॥ ९ ॥
पुण्यस्य अनुभावः प्रभावः यस्मात् तादृशं दर्शनं आलोकनं यस्य । पुण्या-
१ 'संनिकतेन' घ. २ 'महावीरप्रकाण्डम्' क-घ-प.