सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 148, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 148

६-१४ ] उत्तररामचरितं १२९
रामः-किमपराद्धं वत्सेन ।
चन्द्रकेतुः-अश्वानुयात्रिकेभ्यस्तातमपराधविकरणमुरुबहुल वीरायित-
मनेन ।
रामः-नन्वयमलंकारः क्षत्रस्य ।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥
चन्द्रकेतुः- अमर्षोऽप्यस्यैव शोभते महाबीरस्य । पश्यन्तु हि तात-
पादाः प्रियमबलनियुक्तजृम्भकास्त्रनिरुद्धरम्भितानि सर्वतः सैन्यानि ।
रामः-वत्स लव संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो निर्व्यापारविल-
क्षितानि सान्त्वय बलानि ।
लवः-यथाज्ञापयति तातः । ( इति प्रणिधानं नाटयति । )
चन्द्रकेतुः-यथादिष्टम् । ( इति निष्क्रान्तः । )
लवः-तात प्रशान्तमस्त्रम् ।
रामः-वत्स सरहस्यप्रयोगसंहाराण्यस्त्राण्याम्नायवन्ति ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा
परं सहस्राः शरदस्तपांसि ।
कठोरपुष्कराणां विकसितपद्मारविन्दानाम् । आन्तरपुटवत् पीनः स्थूलः ।
जडः शिशिरः ॥ द्रोग्धुं द्रोहं कर्तुम् । वालिशतां मौर्व्यम् । वीरवदाचरितं
वीरायितं पौरुषं कृतमित्यर्थः । ध्वनिध ॥ न तेजस्तेजस्वीति ॥ १४ ॥
प्रसूतं व्याप्तम् । तस्य तेजस्विनः । प्रकृतिनियतत्वात् जन्मसिद्धत्वात् ।
'जन्मसिद्धस्वभावेषु प्रकृति.' इति कश्चित् । अकृतकः अकृत्रिमः । मयूखैः
किरणैः । अश्रान्तं भनिशम् । तपति यदि तपति चेत् । आग्नेयग्रावा
'सूर्यकान्तरत्नमिभा' इति, 'विकृतः स्यादुपकृत' इति चामरः । 'तस्मिन्
विप्रकृताः काले' इति ईश्वरकृष्णमिश्रः ॥१४॥ निर्व्यापाराणि व्यापाररहि-
तानि । अत एव विलक्षणा(क्षिता?)नि । बलानि सैन्यानि । प्रणिधानं
ध्यानम् । सरहस्या. जृम्भकाणां प्रयोगोपसंहाराः येषु तानि । पाराय-
१ 'प्रसहते' घ-व. २ '० नियुक्तेन जृम्भकास्त्रेण विकन्द सम्भितानि सर्वसैन्यानि'
न. ३'०णहारजृम्भकास्त्राणि दिष्ट्या इत्यक्षतारि संपदन्ते' न. ४'दरःसहस्रं' क-न.