सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 140, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 140

५-३५ ] उत्तररामचरितं १२१
यानि त्रीण्यपराङ्मुखान्यपि पदान्यासन्खरायोघने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥
चन्द्रकेतुः—आः, तातापेवादभिन्नमर्याद, अति हि नाम प्रगल्भसे ।
लवः—अये मय्येव भ्रुकुटीमुखः संवृत्तः ।
सुमन्त्रः—स्फुरितमनयोः क्रोधेन । तथा हि ।
चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः
किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमखण्डताण्डवितयोर्भङ्गेन वक्रं भ्रुवो
श्चन्द्रस्योत्कटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥
कुमारौ—तदितो विमर्दक्षमां भूमिमवतरावः ।
( इति निष्क्रान्ताः सर्वे । )
॥ पञ्चमोऽङ्कः ॥
निति शेषः । दूषणविनाशाय । सुन्दरीणां तादृशा । हि प्रसिद्धौ । सोऽप्यध-
ष्टदिति भावः । यानि त्रीणि पदानि पदक्षेपानि । पृष्ठं विमुखं (विमुखं!)
मुखं नायं येषां तानि कुतोमुखान्यपि आसन् । तत्र तेषु पदेषु । जनो-
ऽभिज्ञः पद्यानिवृत्त इति भावः । अत एव 'अपासर्पद्धनुर्मानम्' इति रामा-
यणे । अथवा इन्द्रसूनुनिधने वालिसंहारे, यत् कौशलं तत्र तस्मिन्
कौशलेऽपि । जनोऽभिज्ञः । वञ्चनया वालि संहारेति भावः । तत्रेलस्य
एकत्र सन्निवेशोऽन्यत्रानुपङ्गः । सुन्दरीति कनडेषु ध्वनिः ॥ ३४ ॥ इति
एवम् । भ्रुकुटीमुखं मुखं यस्य स भ्रुकुटीमुखः ॥ क्रोधेनोद्धतौ ॥ ३५ ॥
आवेगेन आगहेन उद्धतं यथा तथा धूतः बन्धित कुन्तलभारः यस्मिन् ।
वक्रं भ्रुवोर्भङ्गेन कौटिल्येन । उत्कटं मत्तं लाञ्छनं हरिणो यस्य तस्य
चन्द्रस्य । उद्भ्रान्तः सभ्रान्त भृङ्गः यस्मिन् । तस्य कमलस्य च कान्तिं
धत्ते इत्यनेन वक्रं चन्द्रकमलद्विम्बाकृतेर्धारित्वेन कवेस्तात्पर्यम् । न तु
पद्मिना रुष्टिना वा विवक्षितं । अत एव 'किमिन्दुः किं पद्मं किमु मुकुरबिम्बं
किमु मुखम्' इति विल्हणः ॥ ३५ ॥ विमर्दक्षमां युद्धयोग्याम् इति दिक् ॥
इति महाराजपद० घनश्यामपण्डितविरचिते उत्तररामचरित भावार्थनाट्यटि-
प्पण्ये पञ्चमोऽङ्कः समाप्तः ॥ इति पञ्चमोऽङ्कः ॥
१ 'अप्रातोमयान्त्ये' प, 'अप्रातोऽन्यन्ये' न. २ 'तातापरादिन्' व. ३
'र(' क-घ-य. ४ 'वेगेनोज्धूतकुकुन्दभारः सबाह्ली' न-टी. ५ 'कान्तिभेदं
च वक्रनयनाभङ्गेन निरुद्ब्रुवोः' न.

  • मदन' इत्यीकत्तनाम्रो शशाङ्कता यद्दानमुच्य कवेश्च दर्पणपद्मसन्देहद
    ॥ उ०