तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
इस ग्रन्थ के बारे में
तैत्तिरीय ब्राह्मण कृष्ण यजुर्वेद की तैत्तिरीय संहिता से जुड़ा ब्राह्मण-ग्रन्थ है और इसे उसी संहिता का विस्तार माना जाता है। पुस्तक के पिछले आवरण पर बताया गया है कि विद्वान इसे सबसे प्राचीन उपलब्ध ब्राह्मणों में गिनते हैं; शतपथ ब्राह्मण की तरह इसका पाठ भी स्वरांकित है, और सायणाचार्य ने अपने भाष्य-कार्य का आरम्भ इसी ब्राह्मण से किया था। ग्रन्थ तीन काण्डों में है: पहले और दूसरे काण्ड में आठ-आठ और तीसरे में बारह प्रपाठक हैं।
यह नाग पब्लिशर्स, दिल्ली का संस्करण है, जिसमें सायणाचार्य के भाष्य सहित पाठ प्रो. पुष्पेन्द्र कुमार ने प्रस्तुत किया है; यह उसका पहला भाग है। संस्कृत भूमिका में ब्राह्मण की विशेषताओं, उसकी भाषा की प्राचीनता और उसमें आने वाले पुरूरवा-उर्वशी जैसे आख्यानों की चर्चा है। पाठ का आरम्भ अग्न्याधान की विधि से होता है, और उपहोम, सोमयाग आदि श्रौत कर्मों का विवेचन आगे के अनुवाकों में मिलता है। अनुवाकों की विस्तृत सूची भी दी गई है।
लगभग ३४५ पृष्ठों का यह भाग वैदिक यज्ञ-विधान और ब्राह्मण साहित्य के अध्येताओं के लिए उपयोगी है।
६० (१.२.१) तैत्तिरीयब्राह्मणम्
कल्पः-“ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः
पुरूचीर्वम्रीभिरनुवितं गुहासु श्रोत्रं त उव्य॓बधिरा भवाम इति
वल्मीकवपाम्” इति । पृथिव्या रसः सारमूर्जं क्षीरादिवत्समानं
वल्मीकवपारूपं संभरन्तो वयं शतं शरदो जीवेम । कीदृशीः शरदः
पुरूचीः पुरूणि बहूनि भोग्यान्यञ्चन्ति संपादयन्तीति पुरूच्यस्तादृशीः ।
कीदृशं रसं गुहासु, भूच्छिद्रेषु वम्रीभिः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.१) ६१
तत्पुष्कर॒स्याऽऽय॑त॒नाद्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न ँ
हरामि ।
कल्पः-“यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम्
तत्पुष्करस्याऽऽयतनाद्धि जातं पर्णं पृथिव्याः प्रथन ँहरामीति पर्णम् ”
(इति) । जगतः स्थावरजङ्गमरूपस्य प्रतिष्ठामाधारभूतामुर्वी लब्धकामः
प्रजापतिः सरिरस्य मध्ये
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंकल्पः-“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो
निलाय तन्ते न्यक्तमिह संभरन्तः, शतं जीवेम शरदः सवीरा इत्यश्वत्थम्”
इति । हेऽग्ने त्वं यद्यदाऽ श्वः संस्तदीयं रूपं च सम्यक्कृत्वा देवेभ्यो
निलाय ऽपक्रम्य संवत्सरं निरन्तरमश्वत्थे स्थितवानसि । तत्तदा ते त्वदीयं
न्यक्तमश्वत्थे निगूढं तेजः सारमिह यज्ञभूमौ संभरन्तः संपादयन्तो वयं
सवीराः पुत्रभृत्यसहिताः शतं शरदो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.१) ६३
देवानां संबन्धं ब्रह्मवादं यद्यस्मात्कारणात्त्वमुपाशृणोः समीपे स्थित्वा
श्रुतवानसि । अत एव सुश्रवा इति नाम्नैव त्वं श्रुतोऽसि प्रसिद्धोऽसि
तत्तस्मात्कारणात्त्वदानयने प्रवृत्तं मां ब्रह्मवर्चसमाविशतु । तत्तादृशं
पर्णाख्यं संभरन्नहं ब्रह्मवर्चसं साक्षादवरुन्धीय विलम्बमन्तरेण प्राप्नुयाम्।
यया॑ ते सृ॒ष्टस्याग्ने॑ ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६४ (१.२.१) तैत्तिरीयब्राह्मणम्
भव । एतेषूक्तेषु सर्वेष्वपि मन्त्रेषूद्धन्तीत्याद्यनुवाकोक्तं तत्तद्ब्राह्मणमनु-
संधेयम् ।
चि॒त्रिया॑दश्व॒त्थात्स॑म्भृ॑ता बृ॒हत्य॑: (७) । शरी॑रम॒भिस ँ॑
स्कृ॑ताः स्थ । प्र॒जाप॑तिना य॒ज्ञमु॒खेन॒ संमि॑ताः ।
ति॒स्रस्ति॒वृद्भि॑र्मिथु॒नाः प्र॒जात्यै॑ ।
कल्पः-“अथ ब्रह्मोदनशेष ँ स ँस्कृत्य तस्मिन्नाज्यशेषमानीय
तस्मिँश्चित्रियाश्वत्थस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.१) ६५
कल्पः-“यो अश्वत्थः शमीगर्भ आरुरोह त्वे स चा तं ते हरामि
ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति”
इति । अर्थक्रमादयं मन्त्रः पूर्वभावी द्रष्टव्यः । न ह्याहरणमन्तरेणा-
भिमन्त्रयितुं शक्यते । रणे त्वे त्वयि निमित्तभूतायां सत्यां
शमीगर्भोऽश्वत्थः स च तया शम्या समवेत आरुरोह समारुह्य प्रवृद्धस्तं
तादृशमश्वत्थं ते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६६ • (१.२.१) तैत्तिरीयब्राह्मणम्
सु॒मिधा॒ऽग्निं दु॑वस्यत (९) घृ॒तैर्बो॑धय॒तार्ति॑थिम् ।
आऽस्मि॑न्-ह॒व्या जु॑होतन॒ इति॑ ।
हे ऋत्विजोऽनया प्रक्षिप्यमाणवा समिधाऽग्निं दुवस्यत प्रीणयत ।
अतिथिं वैश्वदेवान्ते समागतं ब्राह्मणमिव पूजनीयमेनमग्निं घृतैर्बोधयत
दीपयत । अस्मिन्नग्नौ हव्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.१) ६७
बोध्यते धूमरहितज्वालायुक्तः क्रियत इति घृतनिर्णिग् । पावकः सर्वस्य
शोधकः । सुयज्ञः शोभनज्योतिष्टोमादियज्ञहेतुः ।
अथ द्वितीयमाह-
घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैः समि॑द्धो घृ॒तम॒स्यान॑न्नम् ।
घृ॒तपृ॒षो॒स्त्व॒ा सरि॑तो वहन्ति । घृ॒तं पिब॑न्त्सुय॒र्जा य॑क्षि
दे॒वान्, इति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६८ (१.२.१) तैत्तिरीयब्राह्मणम्
ज्रयांसि वैरिणामभिभवनानि यस्यासावुरुज्रयास्तादृशं घृतयोनिं
घृतेनोत्पन्नज्वालमाहुतमाहुतिभिराराधितं त्वेषं दीप्यमानं त्वां चोदयन्वति
विधायकवाक्ययुक्ते कर्मणि चक्षुर्दधिरे चक्षुः स्थानीयं कृतवन्तो देवाः ।
यथा लोके चक्षुषा रूपं स्पष्टं प्रकाश्यते तथा त्वया विधिवाक्योक्तानि
कर्माणि संपाद्यन्त
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.१) ६९
बध्नाति” इति । तत्राग्निशब्देनाजः संबोध्यते तस्याग्निसंबन्धित्वात् ।
“आग्नेयी वा एषा यदजा” इति श्रुत्यन्तरादग्निना सह
प्रजापतिमुखादुत्पन्नत्वाच्च । हेऽग्नेऽजात्मन्प्रजा अस्मदीयाः पशुभिः
सहाऽऽशा दिग्द्वर्तिनः प्राणिनश्च संवासय संवासनेन पालय । यानि
राष्ट्राणि सवितुः सवे परमेश्वरस्याऽऽज्ञायां पूर्वमासंस्तानि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७० (१.२.१) तैत्तिरीयब्राह्मणम्
मत्प्रा॒तः प्र॒जनि॑ष्येथे । ते मा॒ प्रजा॑ते प्र॒जनयि॑ष्यथः (१४) ।
प्र॒जया॑ प॒शुभि॒र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के ।
कल्पः-“ऋत्वियवती स्थो अग्नेरेतसौ गर्भं दधाथां ते वामहं ददे
तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथस्ते मत्प्रातः प्रजनिष्येथे ते मा
प्रजाते प्रजनयिष्यथः प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.१) ७१
जा॒तवे॑दो॒ भुव॑नस्य॒ रेत॑: । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्जनि॒ष्यते॑
(१५) । अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह॑म् ।
श॒मी॒गर्भा॒ज्जन॑य॒न्यो म॑यो॒भूः ।
कल्पः-“तस्मिन्नुपव्युषमरणी निष्टपति-जातवेदो भुवनस्य रेत इह
सिञ्च तपसो यज्जनिष्यतेऽग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो
मयोभूरयं ते योनिर्ऋत्विय इत्येताभ्याम्' द्वितीयमन्त्रः संहितायामपि
पठितत्वात्सूत्रकारेण सर्वोऽपि न पठितः । हे जातवेदो ब्राह्मौदनिकाग्ने
भुवनस्य रेतः सर्वलोकस्य कारणभूतमाघातव्याग्निरूपमिह सिञ्चानयो-
ररण्योर्निषिञ्च । यद्रेतस्तपसोऽस्मात्संतापाज्जनिष्यत उत्पत्स्यते तादृशं
रेतः सिञ्चेति पूर्वत्रान्वयः। योऽग्निराधातव्यो मयोभूः सुखस्य भावयिता
हव्यवाहं हविषो वोढारं शमीगर्भादरणीरूपादश्वत्थाज्जनयञ्जनयितुकामो
निषिञ्चेति पूर्वत्रान्वयः ।
द्वितीयमन्त्रपाठस्तु-
अ॒यं ते॒ योनि॑र्ऋ॒त्विय॑: । यतो॑ जा॒तो अरो॑चथाः । तं
जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम्, इति ।
हे जनयितव्याग्नेऽयमरणियद्वयसंघस्ते . तवोत्पत्त्यर्थमृत्वियों
योनिर्ऋतुयुक्तमुत्पत्तिस्थानं यतो योनेर्जातस्त्वमरोचथा लोके
दीप्तिमानासीः । योनिमेतदरणीरूपं जानन्नारोह । अथानन्तरं नोऽस्माकं
रयिं धनं वर्धय ।.
कल्पः-“अपेत वीतेति गार्हपत्यायतनमुद्धत्य" इति । पाठस्तु-
अपै॑त॒ वी॑त॒ वि च॑ सर्पतातः । येऽत्र॒ स्थ पु॑रा॒णा ये च॒
नूत॑नाः । अदा॑दि॒दं य॒मो व॒साने॑ पृथि॒व्याः । अक्र॒न्निमं॑
पि॒तरो॑ लो॒कम॑स्मै (१६), इति ।
यमपुरुषाः संबोध्यन्ते । “यममेव देवयजनमस्यै निर्याच्य "
इत्येतन्मन्त्रब्राह्मणे समाम्नानात् । हे यमपुरुषा अत्रास्मिन्देशे पुराणा ये
यूयं स्थ नूतनाश्च ये यूयं स्थ ते सर्वेऽप्यतो देशादपेतापगच्छत। वीर परस्परं
वियुक्ता गच्छत । पुनरपि वि दूरं सर्पत । यमो
राजेदमवस्थानमदाद्यजमानाय दत्तवान् । पितरश्चेमं लोकं
स्थानविशेषमस्मै यजमानार्थमक्रन्कृतवन्तः ।
७२ (१.२.१) तैत्तिरीयब्राह्मणम्
कल्पः-“सिकतानामर्धं द्वैधं विभज्यार्धं गार्हपत्यायतने निवपत्यर्धं
दक्षिणाग्नेरर्धं त्रेधं विभज्य पूर्वेष्टेनेव कल्पेन सर्वान्पार्थिवान्निवपति ।
अग्नेर्भस्मासीति सिकता निवपति” इति । पाठस्तु -
अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि, इति ।
हे सिकतेऽग्नेर्भस्म भासमानहेतुस्त्वमसि तथाऽग्ने पुरीषं
पूरणहेतुस्त्वमसि ।
कल्पः-“संज्ञानमित्यूषांस्तानिवपन्यददश्चन्द्रमसि कृष्णं
तदिहास्त्विति मनसा ध्यायति” इति । पाठस्तु-
सं॒ज्ञान॑मसि काम॒धरण॑म् । मयि॑ 'ते काम॒धरणं॑ भूयात्,
इति ।
हे ऊष संज्ञानं सम्यग्ज्ञानहेतुः कामधरणं धारणहेतुश्च त्वमसि । ते
त्वदीयं यत्कामधारणं सामर्थ्यं तन्मय्यपि भूयात् ।
सं वः॑ सृजामि॒ हृद॑यानि । सा ँ सृ॑ष्टं मनो॑ अस्तु वः ।
स ँसृ॑ष्टः प्रा॒णो अ॑स्तु वः ।
कल्पः-“सं या वः प्रियास्तनुव इत्येषा । संवः सृजामि हृदयानि
स ँ सृष्टं मनो अस्तु वः स ँसृष्टः प्राणो अस्तु व इत्येताभ्यां
बानस्पत्यान्सँसृज्य सिकतावद्विभज्य निवपति” इति । अत्र “सं वः
सृजामि” इति मन्त्रः पूर्वमाम्नातः । हे वानस्पत्यसंभारा वो युष्माकं
हृदयानि संसृजामि परस्परमनुरक्तानि करोमि । तथा वो युष्माकं मनो
वचश्च संसृष्टमस्तु । हृदयवाक्येन परस्परस्नेहोऽपि विवक्षितः ।
मनोवाक्येन कार्यैकैकमत्यम् । तथा वो युष्माकं प्राणश्च संसृष्टोऽस्तु ।
अनेनैकविद्या प्रवृत्तिर्विवक्षिता ।
“सं या वः” इति मन्त्रस्य संहितायामाम्नातत्वात्प्रतीकमात्रं सूत्रे
दर्शितम् । इह तु सर्वोऽप्येवमाम्नातः-
सं या वः॑ प्रि॒यास्तनुवः॑ । सं प्रि॒या हृद॑यानि वः । आ॒त्मा
वो॑ अस्तु॒ सं प्रियः॑ सं प्रि॒यास्त॒नुवो॒ मम॑ (१७) इति ।
हे वानस्पत्यसंभारा वो युष्माकं याः प्रियास्तनुवस्ताः
संसृज्यन्तामेकस्मिन्नैव कार्ये प्रवर्तन्ताम् । तथा वो युष्माकं प्रियाणि
तैत्तिरीयब्राह्मणम् (१.२.१) ७३
हृदयानि च संसृज्यन्ताम् । तथा वो युष्माकं प्रिय आत्मा जीवश्च
संसृज्यताम् । तथा ममप्रियास्तनुवोऽपि संसृज्यन्ताम् । एकस्मिन्कार्ये
प्रवर्त्तन्ताम् । ऋत्विग्भिः सह शरीरं बहुत्वम् ।
कल्पः-“क्लृप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते- कल्पेतां
द्यावापृथिवी येऽग्नय समनसः” इति । तत्र क्लृप्त्यभिधायिकाया ऋचः
पाठस्तु-
कल्पै॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः ।
कल्प॑न्ताम॒ग्नयः॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः, इति ।
द्यावापृथिव्यादयः सर्वे मम ज्यैष्ठयायोत्तमफलसिद्धये सव्रता व्रतेन
कर्मणा युक्ताः सन्तः । स्वस्वव्यापारक्षमा भवन्तु ।
सामनस्याभिधायिकाया ऋचः पाठस्तु-
येऽग्नयः॒ सम॑नसः । अ॒न्तरा द्यावा॑पृथि॒वी ।
वा॒स॒न्ति॒कावृ॒तू अ॒भिकल्प॑मानाः । इन्द्र॑मिव दे॒वा
अ॒भिसंवि॑शन्तु, इति ।
हेऽग्ने द्यावापृथिव्योर्मध्ये त्वया सह समानमनस्काऽग्नयः सन्ति ते
सर्वेऽपि वासन्तिकावृतू ऋत्ववयवौ वासन्तिकमासौ
चैत्रवैशाखाख्यावभिकल्पमानाः सर्वतः संपादयन्तस्तामभितः
संविशन्तु । यथा देवा इन्द्रमभिसं विशन्ति तद्वत् ।
अनन्तरमन्त्रस्तु गार्हपत्याधानमन्त्राणां मध्ये सूत्रकारेणोदाहृतः ।
पाठस्तु-
दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना (१८) । अ॒न्तरि॑क्षस्य॒
पोषे॑ण । सर्व॑पशु॒माद॑धे, इति ।
हे गार्हपत्य द्युलोकस्य यद्वीर्यं पृथिव्याश्च यो ऽन्तरिक्षस्य यत्पोषं
सामर्थ्यं तैः सर्वैरपि सर्वपशुप्रदानसमर्थं त्वामिहायतन आदधे ।
अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्त्रेमा॑णं त॒रणिं॑ वी॒ळुज॑म्भम् ।
दश॒ स्वसा॑रो॒ अग्रु॑वः । समीचीः॑ । पुमां॑ ँ सं
जा॒तम॑भिसं॒रभ॑न्ताम् ।
७४ (१.२.१) तैत्तिरीयब्राह्मणम्
कल्पः-“अजीजन्मृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भं दश
स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसँरभन्तामिति
जातमञ्जलिनाऽभिगृह्य” इति मर्त्यासो मनुष्यऋत्विजोऽमृतं
मरणरहितमग्निं देवमजीजनन्नुत्पादितवन्तः · । कीदृशमग्नि-
मस्रेमाणमगम्यमशोषणीयं वा । स्त्रिवु गतिशोषणयोरिति धातुः तरणिं
दुःखेभ्यस्तारकं वीळुजम्भं दृढदन्तमूलमग्रुवोऽङ्गुलयस्ताश्च शरीरेण
सहोत्पन्नत्वात्स्वसारो भगिनीसमानाः । दशसंख्याकास्ता अङ्गुलयः
समीचीरनुकूला भूत्वा जातमभिरूपं पुमांसमभिसंरभन्तामभितः संगृह्णन्तु ।
प्रजाप॑तेस्त्वा प्रा॒णेना॒भिप्रा॑णिमि । पू॒ष्णः पोषे॑ण॒ मह्य॑म् ।
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒त ँ॑शरद्भ्य॒ आयु॑षे॒ वर्च॑से
(१९)। जी॒वात्वै॑ पु॒ण्या॑य ।
कल्पः-“जातं यजमानोऽभिप्राणिति-प्रजापतेस्त्वा प्राणेनाभि-
प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शत ँ शरद्भ्य
आयुषे वर्चसे जीवात्वै पुण्याय” इति । हेऽग्ने प्रजापतेः प्राणेन प्राणवायुना
त्वामभिलक्ष्य प्राणिमि श्वासं करोमि । तथा पूष्णो देवस्य पोषेण
सामर्थ्येन वाऽभिप्राणिमि । किमर्थं मह्यं मम शतशारदाय दीर्घायुत्वाय
शतसंवत्सरपरिमितं यद्दीर्घायुस्तत्सिद्धये । किंच, शतं शरद्भ्यः
शतसंख्याकेभ्यः संवत्सरेभ्य ऊर्ध्वमप्यायुःसिद्धये वर्चसे बलाय जीवात्वै
जीवनौषधाय पुण्याय सुकृतसिद्धये च ।
अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒
योनि॑र॒स्मि । ममै॑व॒ सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे
लौ॑कृ॒ज्वातवेदः ।
कल्पः-“अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि
ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोकृजातवेद इत्याधीयमानमनुमन्त्रयते
यजमानः” इति । ह आहवनीयाग्नेऽहं त्वत्तो हेतोरस्मि । यदा
त्वमासीस्तदानीमहमस्मि । यदा तु त्वं नाऽऽसीस्तदानीं विद्यमानोऽप्यहं
निष्प्रयोजनत्वेन नास्मि । त्वं च मदसि मत्तो हेतोर्जायसे । एतच्च
प्रत्यक्षम् । एवमुक्तप्रकारेण मम योनिः कारणं त्वमसि । तवापि योनिः
कारणमहमस्मि । तस्मान्ममैव बन्धुः सन्मदीयानि हव्यानि वह । हे
जातवेदो यथा लोके पुत्रः पित्रे लोककृत्पुण्यलोकसंपादको भवति
तद्वदतिस्नेहेन मम लोककृद्भव ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७५
अनन्तरमन्त्रौ गार्हपत्याधानमन्त्रेषु सूत्रकृतोदाहृतः । पाठस्तु-
प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्नादम॒न्नाद्या॑य । गो॒प्तारं॑
गुप्त्यै॑, इति ।
हे गार्हपत्य प्राणेऽस्मदीये निमित्तभूते सति तद्रक्षार्थममृतं
त्वामादधामि । ममान्नाद्यसिद्धयेऽन्नादं मम गुप्त्यै रक्षणसिद्धये गोप्तारं
त्वाऽऽ दधामि ।
सु॒गार्ह॑पत्यो वि॒दह॒न्नरा॑तीः । उ॒षसः॑ श्रेय॑सीः श्रेय॑सी॒र्दध॑त्
(२०) । अग्ने॑ स॒पत्नँ॑ अप॒बाध॑मानः ।
रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि ।
कल्पः-‘‘सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधदग्ने
सपत्नाँ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानम-
भिमन्त्रयते यजमानः’’ इति । शोभनो गार्हपत्योऽयमग्निररातीद्वेषिणो
विशेषेण दधन्नुषसो दिवसाञ्छ्रेयसीः श्रेयसीर्दधदुत्तरोत्तरश्रेष्ठान्कुर्वन्वर्तते ।
हेऽग्ने गार्हपत्य सपत्नास्मदीयाञ्शत्रूनपबाधमानः पीडयन्ध्नन्पुष्टिमन्नरसं
चास्मासु संपादय ।
इ॒मा उ॒ मामुप॑तिष्ठन्तु रा॒यः । आ॒भिः प्र॒जाभि॑रि॒ह संव॑सेय ।
इ॒हो इडा॒ तिष्ठ॑तु वि॒श्वरू॑पी । मध्ये॒ वसो॑र्दीदिहि
जात॑वेदः ।
कल्पः-‘‘इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेयेहो
इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा
अभिप्रव्रजन्ति’’ इति । इमा उ रायो लोके दृश्यमानानि सर्वाण्यपि धनानि
मामुपतिष्ठन्तु प्राप्नुवन्तु । आभिः पुत्रपौत्रादिभिः प्रजाभिः सहेहास्मिञ्जन्मनि
संवसेय सम्यक् तिष्ठामि । किंचेहेहैव जन्मनि विश्वरूपी
महिष्याद्यनेकपशुरूपयुक्तेडा गौस्तिष्ठतु । हे जातवेदस्त्वस्मदीयस्य
वसोर्मध्ये स्वामित्वेन स्थित्वा दीदिहि दीप्यस्व ।
ओर्ज॑से बला॑य त्वोद्य॑च्छे । वृष्णे॒ शुष्मा॑याऽऽयु॑षे वर्च॑से ।
स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्तै॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः (२१) ।
७६ (१.२.१) तैत्तिरीयब्राह्मणम्
यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पु॒ष्ट्या॑ ते मनु॒ष्ये॑षु पप्र॒थे
तया॑ । नो अग्ने जु॒षमा॑ण ऐहि॑ ।
कल्पः- "गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीप्य सिक्तश्चोपय-
मनीरुपकल्पयते तमुद्यच्छति-ओजसे बलाय त्वोद्यच्छे वृषणे
शुष्मायाऽऽयुषेवर्चसे सपत्नतूरसि वृत्रतूर्यस्ते देवेषु महिमा सुवर्गो यस्त
आत्मा पशुषुपविष्टः पुष्ट्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण
एहि" इति। हेऽग्नेत्वामोजः प्रभृतिसिद्ध्यर्थमुद्यच्छे ओजो बलहेतुरष्टमो
धातुः । बलं शरीरसामर्थ्यम् । वृषञ्शब्दः सेचनसामर्थ्यवाची ।
शुष्माशब्दोऽत्र सहकारिसंपादितां शक्तिमाचष्टे । आयुः प्रसिद्धम् । वर्चः
कान्तिः । हेऽग्ने त्वं सपत्नतूरसि वैरिहिंसकोऽसि । तथा
वृत्रतूर्धर्मबुद्धंरावकाणां पापानां हिंसकोऽपि सोऽयमेको मन्त्रः। हेऽग्ने
देवेषु मध्ये कर्मफलभूतः स्वर्गरूपो यस्ते महिमा पशुषु क्षीरादिहविः
स्वरूपंण प्रविष्टो यस्तवाऽऽत्माऽत्यन्तप्रियः पदार्थो मनुष्येषूराग्निजनिता
या त्वदीया पुष्टिः पप्रथे प्रसिद्धा वर्तते तया पुष्ट्या
तदुपलक्षितस्वर्गक्षीराभ्यां च नोऽस्माञ्जुषमाण एहि ।
असौ द्वितीयो मन्त्रः-
दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । वाता॑त्प॒शुभ्यो॒
अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदः संब॒भूर्थ॑ । ततो॑ नो
अग्ने जु॒षमा॑ण एहि॑, इति ।
दिवः पृथिव्या अन्तरिक्षाद्धोपरि वातात्पशुभ्य ओषधिभ्यश्चोपरि
तथा यत्र यत्र देशविशेषे हे जातवेदः संभूयोत्पन्नोऽसि । हेऽग्ने ततः
सर्वस्मात्स्थानान्नोऽस्माञ्जुषमाण एहि ।
अनन्तरभाविनस्त्रयो मन्त्राः प्रणयनकाले गमनार्थाः। तत्र प्रथममाह-
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अग्ने॑रग्ने पुरो
अ॒ग्निर्भ॑वे॒ह । विश्वा॒ आशा॑ दीद्या॒नो वि॑भाहि (२२) ।
ऊर्जं॑ नो धेहि॒ द्विप॑दे॒ चतु॑ष्पदे, इति ।
हेऽग्ने प्राचीं पूर्वा प्रदिशं प्रकृष्टां दिशमनुलक्ष्य विद्वान्मार्गाभिज्ञः
प्रेहि प्रकर्षण गच्छ । अग्नेर्गार्हपत्यस्येह पुरोऽग्निर्भवास्मिन्देवयजने
पूर्वदिग्वर्ती वह्निर्भव । दीद्यानः स्वयं प्रकाशमानो विश्वा आशा
विभाहि सर्वा दिशः प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे
तैत्तिरीयब्राह्मणम् (१.२.१) ७७
पशवे चोर्जं रसं धेहि संपादय । अयं मन्त्रो "धर्मः शिरः" इत्यनुवाकेऽपि
समाम्नातः । प्रयोजनं तु द्विराम्नातस्य सूत्रान्तरे द्रष्टव्यम् ।
अथ द्वितीयमाह-
अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वह॑ानि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पु॒रुत्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी
आर्त॑तान, इति ।
अयमग्निरुपसामग्रं प्राप्तोऽन्वख्यदनुक्रमेण प्रकाशितवान् । प्रथमो
देवेषु मुख्योऽयं जातवेदा अहानि दिवसानन्वख्यत् । किंच सूर्यस्य पुरुत्रा
सर्वानपि रश्मीनन्वख्यत् । तथा द्यावापृथिव्यावनुक्रमेणाऽऽ ततान् सर्वतो
व्याप्तवान् । यद्यप्ययं मन्त्रो नाऽऽपस्तम्बेन विनियुक्तस्तथाऽपि
सूत्रान्तरानुसारेणात्र विनियोगो द्रष्टव्यः ।
अथ तृतीयमाह-
वि॒क्रम॑स्व म॒हाँ ँअ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑
जागृ॑हि, इति ।
हेऽग्ने विक्रमस्वानिष्टनिवारणे पराक्रमं कुरु । त्वं महानस्यधिक
शक्ति युक्तोऽसि । मानुषेभ्यो मनुष्याणामर्थे वेदिषन्वेद्यामुपविष्टः संस्त्रिषु
लोकेषु जागृहि यजमानं नेतुं सावधानो भव ।
यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी
संब॑भूव॒तुः (२३) । तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शंभूः
प्र॒जाभ्य॑स्त॒नुवे॑ स्यो॒नः ।
कल्पः-“यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी
संबभूवतुस्तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन
इत्यभिमन्त्रय" इति । यदिदमूषाख्यं दिवो यज्ञियं पृथिव्यां वर्तते यच्चादः
कृष्णाख्यं पृथिव्या यज्ञियं दिवि चन्द्रमसि वर्तते तेनोभयेन वयमेनं
मन्यामहे । रोदसीद्यावापृथिव्यौ संविदान ऐकमत्यं गते संबभूवतुः।
पूर्वमेकी बभूवतुरिति तयोस्तादृश्योर्द्यावापृथिव्योः पृष्ठ उपरि जातवेदाः
सीदतु । कीदृशः प्रजाभ्यः शंभूः प्रजानां सुखस्य भावयिता तनुवे स्योनः
स्वशरीराय च सुखकरः। अनन्तरमन्त्रा आहवनीयाधाने
सूत्रकारेणोदाहृताः । तत्पाठस्तु-
७८ (१.२.१) तैत्तिरीयब्राह्मणम्
प्रा॒णं त्वा॒ऽमृते॒ आद॑धामि । अ॒न्नाद॒मन्नाद्या॑य । गो॒प्तारं॑
गु॒प्त्यै॑ । यत्तै॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं
ज्योति॒रज॑स्रम् । तेन॑ मे दीदि॒हि तेन॑ त्वाऽऽद॑धे ।
अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा । आन॑शे व्या॑न॒शे सर्व॒मायु॒र्व्या॑निशे
(२४), इति ।
ह आहवनीय प्राणरूपं त्वाममृते स्थाने विनाशरहित आदधामि।
अस्माकमन्नाद्यसिद्ध्यर्थमन्नादं त्वाऽऽदधामि। रक्षणार्थं गोप्तारं
त्वामादधामि । सोऽयमेको मन्त्रः । हे शुक्र दीप्यमानाग्ने तव यच्छुक्रं
वर्चो निर्मला कान्तिर्या च शुक्रा तनूर्निर्मलो देहो यच्चाजस्रं निरन्तरं शुक्रं
ज्योतिर्निर्मलमितरभासकत्वं तेन सर्वेण युक्तो मे मदर्थं दीदीहि
प्रकाशस्व । तेन कारणेन हेऽग्नेऽग्निना ब्रह्मणाऽग्निप्रकाशकेन मन्त्रेण
त्वामादधे । अयं द्वितीयो मन्त्रः। अयमग्निरानशे भोक्तृदेहं व्याप्तवान् ।
व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुरपमृत्युपरिहारेण
व्याप्तवान् । अयं तृतीयो मन्त्रः । तावेतौ द्वितीयतृतीयौ “धर्मः शिरः ”
इत्यनुवाकेऽप्याम्नातौ । तयोः प्राचीमितिमन्त्रवत्पृथगुपयोगः सूत्रान्तरे
द्रष्टव्यः । यद्वाऽस्यानुवाकस्य मन्त्रकाण्डानुरूपत्वाद् धर्मः शिर
इत्यादिकमप्यत्रत्यमेवेति दर्शयितुं तदेकदेशोऽत्र पठति । ब्राह्मणसंबन्धार्थं
तत्राऽऽम्नातं (नं) द्रष्टव्यम् ।
यदुक्तं सूत्रकारेण-“अथ विराट् कर्मयजमान उपतिष्ठते ” इति,
तत्र प्रथमं विराट् क्रममन्त्रमाह-
नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसै॑ । जा॒तां
ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम्, इति ।
हे नर्य मनुष्येभ्यो हित गार्हपत्य मे मदीयां प्रजां गोपाय ।
किमर्थममृतत्वाय जीवसेऽपमृत्युरहितजीवनाय । कीदृशीं प्रजाम् ।
पूर्वमुत्पन्नामितः परमुत्पत्स्यमानां च । तथाऽमृतत्वहेतौ सत्ये प्रतिष्ठितां
सर्वदा सत्यवादिनीमित्यर्थः ।
अथ द्वितीयमाह-
अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हाऽऽयु॑षे ।
अद॑ब्धायो॒ऽशी॑ततनो । अवि॑षं नः पि॒तुं कृ॑णु, इति ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७९
अथर्व पूर्वमथर्वाख्येन (ण) महर्षिणा मथितत्वात्तद्रूपत्वम् । तथा
चान्यत्राऽऽम्नातम्-“अथर्वा त्वा प्रथमो निरमन्थदग्ने ” इति । तादृश हे
दक्षिणाग्ने मे पितुं मदीयमन्र्नं गोपाय । यो रसः क्षीरादिर्यच्चान्नं
व्रीहियवादिकं तदुभयमिह शरीर आयुष आयुर्थ स्थापयेति शेषः ।
हेऽदब्धायो केनाप्यहिंसिताग मन, न खलु त्वदीयमानगमनं केनचिदपि
निवारयितुं शक्यम् । हेऽशीततनो, उष्ण शरीर नोऽस्मदीयं पितुमन्नमविषं
विषरहितं कुरु ।
अथ तृतीयमाह-
शᳵस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः (२५) ।
अ॒ष्टाश॑फाश्च॒ य इ॒हाग्नै॑ । ये चैक॑शफा आशु॒गाः, इति ।
हे शंस्यर्त्विग्भिः प्रशस्यमानाऽऽहवनीय मे पशून्गोपाय । ये पशवो
द्विपादो मनुष्यरूपा येऽपि चतुष्पदो गवादिरूपास्तेऽप्यपि
चतुष्पात्स्वष्टाशफा गोमहिष्यादय एकशफा आशुगामिनश्चाश्वादयो ये
सन्ति तान्सर्वानिह लोके हेऽग्ने गोपाय ।
अथ चतुर्थमाह-
सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्याः॑ सभा॒सदः॑ ।
ताविन्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम्, इति ।
प्रथया ख्यातया सहितः सप्रथः । तादृश हे सभ्य मे
सभामधिदेवनस्थानं गोपाय । ये चं सभ्याः सभायोग्यः सभासदः
सभायामुपविष्टाः सन्ति तान्सर्वानिन्द्रियावतश्चक्षुरादीन्द्रियपाट-
वयुक्तान्कुरु । ते च सभ्याः सर्वमायुः शतसंवत्सरमायुरुपासतां
सेवन्ताम् ।
अत्र पञ्चममाह-
अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रयी॒वि॒दा वि॒दुः ।
ऋचः॒ सामा॑नि॒ यजू॑ᳵषि । सा हि श्रीरमृ॑ता स॒ताम्, (२६),
इति ।
हेऽहेऽहिंसितव्य बुध्निय बुध्ने मूले जगदादावुत्पन्नाऽऽवसथ्य मे
मदीयम्ऋगादिरूपं मन्त्रं गोपाय । यं मन्त्रं त्रयिविदा वेदत्रयाभिज्ञा ऋषयोऽ-
तीन्द्रियद्रष्टारो विदुर्जानन्ति । तं मन्त्रं गोपायेति पूर्वत्रान्वयः । वेदत्रयोक्ता