तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 108, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ७९
अथर्व पूर्वमथर्वाख्येन (ण) महर्षिणा मथितत्वात्तद्रूपत्वम् । तथा
चान्यत्राऽऽम्नातम्-“अथर्वा त्वा प्रथमो निरमन्थदग्ने ” इति । तादृश हे
दक्षिणाग्ने मे पितुं मदीयमन्र्नं गोपाय । यो रसः क्षीरादिर्यच्चान्नं
व्रीहियवादिकं तदुभयमिह शरीर आयुष आयुर्थ स्थापयेति शेषः ।
हेऽदब्धायो केनाप्यहिंसिताग मन, न खलु त्वदीयमानगमनं केनचिदपि
निवारयितुं शक्यम् । हेऽशीततनो, उष्ण शरीर नोऽस्मदीयं पितुमन्नमविषं
विषरहितं कुरु ।
अथ तृतीयमाह-
शᳵस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः (२५) ।
अ॒ष्टाश॑फाश्च॒ य इ॒हाग्नै॑ । ये चैक॑शफा आशु॒गाः, इति ।
हे शंस्यर्त्विग्भिः प्रशस्यमानाऽऽहवनीय मे पशून्गोपाय । ये पशवो
द्विपादो मनुष्यरूपा येऽपि चतुष्पदो गवादिरूपास्तेऽप्यपि
चतुष्पात्स्वष्टाशफा गोमहिष्यादय एकशफा आशुगामिनश्चाश्वादयो ये
सन्ति तान्सर्वानिह लोके हेऽग्ने गोपाय ।
अथ चतुर्थमाह-
सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्याः॑ सभा॒सदः॑ ।
ताविन्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम्, इति ।
प्रथया ख्यातया सहितः सप्रथः । तादृश हे सभ्य मे
सभामधिदेवनस्थानं गोपाय । ये चं सभ्याः सभायोग्यः सभासदः
सभायामुपविष्टाः सन्ति तान्सर्वानिन्द्रियावतश्चक्षुरादीन्द्रियपाट-
वयुक्तान्कुरु । ते च सभ्याः सर्वमायुः शतसंवत्सरमायुरुपासतां
सेवन्ताम् ।
अत्र पञ्चममाह-
अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रयी॒वि॒दा वि॒दुः ।
ऋचः॒ सामा॑नि॒ यजू॑ᳵषि । सा हि श्रीरमृ॑ता स॒ताम्, (२६),
इति ।
हेऽहेऽहिंसितव्य बुध्निय बुध्ने मूले जगदादावुत्पन्नाऽऽवसथ्य मे
मदीयम्ऋगादिरूपं मन्त्रं गोपाय । यं मन्त्रं त्रयिविदा वेदत्रयाभिज्ञा ऋषयोऽ-
तीन्द्रियद्रष्टारो विदुर्जानन्ति । तं मन्त्रं गोपायेति पूर्वत्रान्वयः । वेदत्रयोक्ता