तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 106, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ७७
पशवे चोर्जं रसं धेहि संपादय । अयं मन्त्रो "धर्मः शिरः" इत्यनुवाकेऽपि
समाम्नातः । प्रयोजनं तु द्विराम्नातस्य सूत्रान्तरे द्रष्टव्यम् ।
अथ द्वितीयमाह-
अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वह॑ानि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पु॒रुत्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी
आर्त॑तान, इति ।
अयमग्निरुपसामग्रं प्राप्तोऽन्वख्यदनुक्रमेण प्रकाशितवान् । प्रथमो
देवेषु मुख्योऽयं जातवेदा अहानि दिवसानन्वख्यत् । किंच सूर्यस्य पुरुत्रा
सर्वानपि रश्मीनन्वख्यत् । तथा द्यावापृथिव्यावनुक्रमेणाऽऽ ततान् सर्वतो
व्याप्तवान् । यद्यप्ययं मन्त्रो नाऽऽपस्तम्बेन विनियुक्तस्तथाऽपि
सूत्रान्तरानुसारेणात्र विनियोगो द्रष्टव्यः ।
अथ तृतीयमाह-
वि॒क्रम॑स्व म॒हाँ ँअ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑
जागृ॑हि, इति ।
हेऽग्ने विक्रमस्वानिष्टनिवारणे पराक्रमं कुरु । त्वं महानस्यधिक
शक्ति युक्तोऽसि । मानुषेभ्यो मनुष्याणामर्थे वेदिषन्वेद्यामुपविष्टः संस्त्रिषु
लोकेषु जागृहि यजमानं नेतुं सावधानो भव ।
यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी
संब॑भूव॒तुः (२३) । तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शंभूः
प्र॒जाभ्य॑स्त॒नुवे॑ स्यो॒नः ।
कल्पः-“यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी
संबभूवतुस्तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन
इत्यभिमन्त्रय" इति । यदिदमूषाख्यं दिवो यज्ञियं पृथिव्यां वर्तते यच्चादः
कृष्णाख्यं पृथिव्या यज्ञियं दिवि चन्द्रमसि वर्तते तेनोभयेन वयमेनं
मन्यामहे । रोदसीद्यावापृथिव्यौ संविदान ऐकमत्यं गते संबभूवतुः।
पूर्वमेकी बभूवतुरिति तयोस्तादृश्योर्द्यावापृथिव्योः पृष्ठ उपरि जातवेदाः
सीदतु । कीदृशः प्रजाभ्यः शंभूः प्रजानां सुखस्य भावयिता तनुवे स्योनः
स्वशरीराय च सुखकरः। अनन्तरमन्त्रा आहवनीयाधाने
सूत्रकारेणोदाहृताः । तत्पाठस्तु-