सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 95, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 95

६६ • (१.२.१) तैत्तिरीयब्राह्मणम्
सु॒मिधा॒ऽग्निं दु॑वस्यत (९) घृ॒तैर्बो॑धय॒तार्ति॑थिम् ।
आऽस्मि॑न्-ह॒व्या जु॑होतन॒ इति॑ ।
हे ऋत्विजोऽनया प्रक्षिप्यमाणवा समिधाऽग्निं दुवस्यत प्रीणयत ।
अतिथिं वैश्वदेवान्ते समागतं ब्राह्मणमिव पूजनीयमेनमग्निं घृतैर्बोधयत
दीपयत । अस्मिन्नग्नौ हव्या हवींष्याजुहोतन सर्वत्र जुहुत ।
अथ द्वितीयमाह-
उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताची॑र्यन्तु हर्यत् । जु॒षस्व॑
सु॒मिधो॒ मम॑, इति॑ ।
हे हर्यत भजनीय वह्ने हविष्मतीर्ब्रह्मौदनारख्यहविष्मत्यो
घृताचीर्घृताच्यो घृतसंपृक्ता एताः समिधस्त्वामुपयन्तु । मम समिधो
जुषस्व प्रीत्या सेवस्व ।
अथ तृतीयमाह-
तं त्वा॑ सु॒मिद्भि॑रङ्गिरः। घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा
यविष्ठ्य, इति॑ ।
हेऽङ्गिरोऽङ्गसौष्ठवयुक्त वह्ने तं तादृशं सर्वकर्मसु प्रसिद्धं त्वां
समिद्भिर्घृतेन च वर्धयामसि वयं वर्धयामः । हे यविष्ठ्य युवतमाग्ने
बृहच्छोचा महत्त्वं यथा भवति तथा दीप्यस्व ।
यदुक्तं ब्राह्मणे--“त्रिष्टुग्मी राजन्यस्य” इति तत्र प्रथममाह-
स॒मिध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः
(१०) । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो
अ॒ग्निर्यज॑थाय दे॒वान्, इति॑ ।
अयमग्निर्देवान्यजत्राय यष्टुमुक्तुभिर्घृताक्ताभिः समिद्भिः समज्यते
सम्यगभिव्यज्यते दीप्यते । कीदृशोऽग्निः सर्वैर्यजमानैः सर्वत्र
समिध्यमानः प्रथमो नु सर्वासां देवतानां मध्येऽवश्यं प्रथमभावी । अत
एवान्यत्राऽऽम्नातम्-“अग्निरग्रे प्रथमो देवतानाम्” इति । धर्मो विश्वस्य
धारयिता विश्ववारोऽनिष्टं सर्वं निवारयितुं समर्थः । शोचींषि ज्वाला
केशस्थानीया । यस्यासौ शोचिष्केशः । घृतेन निर्णिज्यते । निःशेषेण