सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 97, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 97

६८ (१.२.१) तैत्तिरीयब्राह्मणम्
ज्रयांसि वैरिणामभिभवनानि यस्यासावुरुज्रयास्तादृशं घृतयोनिं
घृतेनोत्पन्नज्वालमाहुतमाहुतिभिराराधितं त्वेषं दीप्यमानं त्वां चोदयन्वति
विधायकवाक्ययुक्ते कर्मणि चक्षुर्दधिरे चक्षुः स्थानीयं कृतवन्तो देवाः ।
यथा लोके चक्षुषा रूपं स्पष्टं प्रकाश्यते तथा त्वया विधिवाक्योक्तानि
कर्माणि संपाद्यन्त इत्यर्थः ।
अथ द्वितीयमाह-
त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तेन॑ सु॒म्नायवः॑ सु॒ष॒मिधा॒
समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरु॒क्षितः॑ । उ॒रु ज्रयां॑सि॒
पार्थि॑वा॒ विति॑ष्ठसे, इति ।
सुम्नं सुखमात्मन इच्छतीति सुम्नायव ऋत्विजस्ते प्रदिवे
प्रकृष्टस्वर्गार्थं यद्वा प्रदिवः प्रकृष्टस्वर्गान्निमित्तभूतात् । हेऽग्ने त्वां
घृतेनाऽऽहुतं सर्वत आराधितं सुषमिधा शोभनया समिधा समीधिरे
सम्यगुद्दीपितवन्तः । स त्वमोषधीभिरोषध्युपलक्षिताभिर्वावृधानोऽयं
वर्धमान उक्षितो घृतेनसिक्तः । पार्थिवा पार्थिवानि ज्रयांसि बाधकान्युरु
वितिष्ठसेऽत्यन्तविशिष्टानि स्थापय ।
अथ तृतीयमाह -
घृ॒तप्र॑तीकं च॒ ऋ॒तस्य॑ धू॒र्षदम्॑ । अ॒ग्निं मि॒त्रं न संमि॑धा॒न
ऋ॑ञ्जते (१२) । इन्धा॑नो अ॒क्रो वि॒दथे॑षु दीद्य॑त् ।
शु॒क्रव॑र्णामु॒दु॑ नो यँसते॒ धिय॑म्, इति ।
हे ऋत्विग्यजमाना युष्मत्संबन्धिन ऋतस्य यज्ञस्य धूर्षदं धुरि सीदन्तं
निर्वाहकमित्यर्थः । तादृशं घृतप्रतीकमग्निं समिधानो
दीपयन्नयमध्वर्युर्मित्रं न मित्रमिव ऋञ्जतेऽलं करोति । इन्धानः स्वयं
दीप्यमानोऽक्रः केनापिनाऽऽक्रान्तोऽयमग्निर्विदथेषु दीद्यदस्मान्प्रकाश-
यन्नोऽस्मदीयां शुक्रवर्णी निर्मलरूपां धियं प्रज्ञामुदयंसतेऽत्यन्त-
मुद्यच्छतेऽभिवर्धयतीत्यर्थः ।
प्र॒जा अ॑ग्ने॒ संवा॑सय । आशा॑श्च प॒शुभिः॑ स॒ह ।
राष्ट्रा॒ण्य॒स्मा आधै॑हि । यान्यासं॑न्त्सवि॒तुः स॒वे ।
कल्पः-“प्रजा अग्ने संवासयाऽऽशाश्च पशुभिः सह राष्ट्राण्यस्या
आधेहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्माषमजं