तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 103, कुल 345 में से
संदर्भ में पढ़ें७४ (१.२.१) तैत्तिरीयब्राह्मणम्
कल्पः-“अजीजन्मृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भं दश
स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसँरभन्तामिति
जातमञ्जलिनाऽभिगृह्य” इति मर्त्यासो मनुष्यऋत्विजोऽमृतं
मरणरहितमग्निं देवमजीजनन्नुत्पादितवन्तः · । कीदृशमग्नि-
मस्रेमाणमगम्यमशोषणीयं वा । स्त्रिवु गतिशोषणयोरिति धातुः तरणिं
दुःखेभ्यस्तारकं वीळुजम्भं दृढदन्तमूलमग्रुवोऽङ्गुलयस्ताश्च शरीरेण
सहोत्पन्नत्वात्स्वसारो भगिनीसमानाः । दशसंख्याकास्ता अङ्गुलयः
समीचीरनुकूला भूत्वा जातमभिरूपं पुमांसमभिसंरभन्तामभितः संगृह्णन्तु ।
प्रजाप॑तेस्त्वा प्रा॒णेना॒भिप्रा॑णिमि । पू॒ष्णः पोषे॑ण॒ मह्य॑म् ।
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒त ँ॑शरद्भ्य॒ आयु॑षे॒ वर्च॑से
(१९)। जी॒वात्वै॑ पु॒ण्या॑य ।
कल्पः-“जातं यजमानोऽभिप्राणिति-प्रजापतेस्त्वा प्राणेनाभि-
प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शत ँ शरद्भ्य
आयुषे वर्चसे जीवात्वै पुण्याय” इति । हेऽग्ने प्रजापतेः प्राणेन प्राणवायुना
त्वामभिलक्ष्य प्राणिमि श्वासं करोमि । तथा पूष्णो देवस्य पोषेण
सामर्थ्येन वाऽभिप्राणिमि । किमर्थं मह्यं मम शतशारदाय दीर्घायुत्वाय
शतसंवत्सरपरिमितं यद्दीर्घायुस्तत्सिद्धये । किंच, शतं शरद्भ्यः
शतसंख्याकेभ्यः संवत्सरेभ्य ऊर्ध्वमप्यायुःसिद्धये वर्चसे बलाय जीवात्वै
जीवनौषधाय पुण्याय सुकृतसिद्धये च ।
अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒
योनि॑र॒स्मि । ममै॑व॒ सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे
लौ॑कृ॒ज्वातवेदः ।
कल्पः-“अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि
ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोकृजातवेद इत्याधीयमानमनुमन्त्रयते
यजमानः” इति । ह आहवनीयाग्नेऽहं त्वत्तो हेतोरस्मि । यदा
त्वमासीस्तदानीमहमस्मि । यदा तु त्वं नाऽऽसीस्तदानीं विद्यमानोऽप्यहं
निष्प्रयोजनत्वेन नास्मि । त्वं च मदसि मत्तो हेतोर्जायसे । एतच्च
प्रत्यक्षम् । एवमुक्तप्रकारेण मम योनिः कारणं त्वमसि । तवापि योनिः
कारणमहमस्मि । तस्मान्ममैव बन्धुः सन्मदीयानि हव्यानि वह । हे
जातवेदो यथा लोके पुत्रः पित्रे लोककृत्पुण्यलोकसंपादको भवति
तद्वदतिस्नेहेन मम लोककृद्भव ।