सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

५९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०२]
प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ।
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥
मुण्डके श्रूयते—" एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योति-
रापः पृथिवी विश्वस्य धारिणी" इति । तत्र प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाण-
त्वादाकाशादिकः पूर्वोक्तसृष्टिकमो भज्येतेति प्राप्ते ब्रूमः—" अन्नमयं हि सोम्य ।
आपोमयः प्राणस्तेजोमयी वाक् " इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावे
पृथक्क्रमो नापेक्षितः । न च मुण्डकश्रुतिः क्रमवाचिनी । आकाशाद्वायुर्वायोरग्निरित्य-
दाविव क्रमस्याप्रतीयमानत्वात् । तदुत्पत्तिमात्रं तु केवलं ब्रूते । तस्मान्नानया श्रुत्या
पूर्वोक्तक्रमभङ्गोऽस्ति " ।
तैरेतैरधिकरणैर्मायाविशिष्टाद्ब्रह्मण आकाशादिका पुरुषान्ता जगदुत्पत्तिः सुस्थिता
तस्यां च सुस्थितायां कारणव्यतिरेकेण कार्यस्याभावाद्ब्रह्मणो देशकालसर्ववस्तुस्वात्मक-
त्वेनानन्तत्वं सुस्थितम् । तस्य सत्यं ज्ञानमनन्तमिति प्रतिज्ञातमनन्तत्वं समर्थ्य यो वेद
निहितं गुहायामित्युक्तं गुहानिहितत्वं समर्थयितुमन्नमयादिभ्य आनन्दमयान्तेभ्यः
पञ्चभ्यः कोशेभ्यो ब्रह्मतत्त्वं विवेक्तुकाम आदावन्नमयकोशं दर्शयति—
स वा एष पुरुषोऽन्नरसमयः, इति ।
यः पुरुषः शिरःपाण्यादिमानाकृतिविशेषः सृष्ट्यादावाकाशादिक्रमेणोत्पन्नः स
एवैष इदानीमस्मद्देहत्वेनानुभूयते । यद्यप्ययं न सृष्ट्यादावुत्पन्नस्तथाऽप्याकाशादिपर-
म्पराप्राप्तान्नकार्यत्वेन सजातीयतया स एवोच्यते । तामेतां विवक्षां स्पष्टीकर्तुमन्नरसम-
यशब्दः । मधुराम्ललवणतिक्तकटुकषायात्मकः षड्विधोऽन्नस्य रसस्तस्य च विकारोऽ-
न्नरसमयः । मातापितृभ्यां भुक्तान्नरसस्तयोः शरीरे त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रा-
ख्यसप्तधातुरूपेण क्रमात्परिणतः सन्गर्भाशये प्रविश्य पुनर्देहरूपेण विक्रियते । तथा
गर्भोपनिषद्याम्नायते— " षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मे-
दसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्लं शुक्रशोणितसंयोगादावर्तते गर्भः " इति
एतेनान्नरसमयेन स्थूलदेहेन तदन्तर्वर्ती सूक्ष्मदेहोऽप्युपलक्ष्यते । तस्यापञ्चीकृतभूतकार्या-
त्वादुक्तेनान्नादिना पोष्यमाणत्वाच्च । तत्र भूतकार्यत्वमाचार्यैरुदाहृतम्— " अपञ्ची-
कृतपञ्चमहाभूतानि तत्कार्यं च सप्तदशकं लिङ्गं भौतिकम् " इति । अन्नादिपोष्यत्वं
छन्दोगैराम्नायते— " अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् " इति
उपवासेन प्रक्षीणशक्तिकस्य मनसः पारणेनाऽऽप्यायनं जन्तूनामन्वयव्यतिरेकसिद्धम् ।
तथा मार्गश्रमेण प्रक्षीणशक्तेः प्राणो जलपानेनाऽऽप्यायमानो लोके दृश्यते । तथा
१ क. ॰तेष्वन्त० । २ ख. ॰था पू० । ३ घ. ॰शादिषु० । ४ क. ख. घ. ङ. ॰हार्हि० ।
५ ग. भुक्ताऽन्न० । ६ ख. ग. ॰शुक्राख्य० । ७ ख. ग. शुक्लं शुक्रशो० । ८ क. ॰था च मां० ।

[प्रपा० ८ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९१
घृततैलादितैजसद्रव्यसेवया ˙कण्ठशुद्धिं कृत्वा , वाचं पोषयन्तो गायका उपलभ्यन्ते ।
ईदृशेन मनःप्राणवागादिना लिङ्गदेहेन संयुतो योऽन्नकार्यः स्थूलदेहोऽस्माभिरुपलभ्यते
सोऽयमाध्यात्मिकः । एतेनाधिदैविको वैराजदेहो ब्रह्माण्डरूप उन्नेयः ।
सोऽप्याचार्यैर्वार्तिके दर्शितः—
“ दिगादिकरणो देवः पञ्चभूतशरीरभृत् ।
सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत ” ॥ इति ।
सोऽयमन्नमयः कोशः शाखाग्रचन्द्रदर्शनन्यायेन ब्रह्मतत्त्वं बोधयितुमुपन्यस्तः ।
अथास्य कोशस्य चित्याग्निवत्पक्ष्याकारेणोपासनार्थं पञ्चावयवानुपन्यस्यति—
“ तस्येद॑मेव॒ शिर॑ः । अयं दक्षि॑णः पक्ष॑ः । अयमु-
त्तर॑ः

"विद्वन्": look at 'द्व'.
Here, in line 24, it really looks like 'वि' or 'द्वि'?
Wait, if it's "य-" at the end of line 23, and line 24 starts with "द्वियदादि", that makes total sense: य-द्वियदादिपरम्परया!
Wait, but if line 23 is "य-", and line 24 is "द्वियदादि", together it is "यद्वियदादिपरम्परया"!
Wait, or is line 23 ending with: "प्राप्नुवन्ति । य-"?
Wait, look at the letter after "प्राप्नुवन्ति ।":
It is 'य'!
And then line 24: "द्वियदादिपरम्परया" or "वियदादिपरम्परया"?
Wait, if line 23 ends with "य-", could line 24 be "द्वियदादि"? Yes, hyphenated: य- / द्वियदादि... Wait, nobody hyphens between य and द्व! Unless it is यत्-वियदादि, hyphenated as य-द्वियदादि.
Wait, what if it's "यद्वियदादि"? Let's check how Anandashrama prints: they often break at syllable: य- / द्वियदादि or यद्- / वियदादि.
Wait, look at line 23: is that a hyphen after य

त्पत्त्यभिवृद्धिहेतुत्वादप्युपास्यमन्नं प्रशस्तम् । अन्नशब्दनिर्वचनपर्यालोचनेऽपि सर्व
देहकारणत्वेनान्नस्य प्रशस्तत्वमवगम्यते । अद्यते सर्वैः प्राणिभिर्जीवनार्थं भक्ष्यत
इत्यन्नम् । यद्वा सर्वान्प्राणिनोऽत्ति भक्षयति संहरतीत्यन्नम् । सर्वेऽपि देहा अन्नरस-
वैषम्योत्पादितरोगादिना म्रियन्त इति लोके प्रसिद्धम् । श्रौत इतिशब्द उदाहृत-
श्लोकसमाप्त्यर्थः, कोशसमाप्त्यर्थश्च । यः पुमान्गुहाहितं ब्रह्मतत्त्वं बुभुत्सते तं प्रति
बोधद्वारभूतोऽयमन्नमयकोशोऽभिहितः । द्वारत्वं चास्य पुत्रमित्रकलत्रगृहक्षेत्रादिबाह्य-
विषयासक्तिं निवार्य देहमात्रपर्यवसायित्वसंपादनादुपपद्यते । प्राणिनां हि स्वभावत
एव पुत्रादिष्वात्मव्यवहारो भवति । तं च श्रुतिरनुवदति—‘‘आत्मा वै पुत्रना-
मासि ’’ इति । ऐतरेयकेऽप्याम्नायते— ‘‘सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति-
धीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति ’’ इति । अस्यायमर्थः—
पुत्रवतो गृहस्थस्य द्वावात्मानौ पुत्ररूपः पितृरूपश्चेति । अस्य गृहिणः संबन्धी सोऽयं
पुत्ररूप आत्मा श्रौतस्मार्तपुण्यकर्मानुष्ठानार्थं गृहेऽवस्थाप्यते । पितृरूपस्तु स्वस्य कर्त-
व्यानि सर्वाणि कृत्वा वयोगत आयुष्येण विरहितो म्रियत इति । ईदृशं पुत्रादावात्म-
त्वारोपं भगवान्भाष्यकार उदाजहार—‘‘पुत्रभार्यादिषु विकलेषु सकलेषु वाऽह-
मेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति’’ इति स्वस्माद्भेदस्य पुत्रे प्रती-
यमानत्वात्तस्मिन्नात्मत्वव्यवहारः सिंहो देवदत्त इतिवत् । तर्ह्यमुमेव मुख्यताभावं बोध-
यितुं पुत्रमित्रादिकाद्वाह्यात्सर्वस्माल्लोकाद्व्यावर्त्याऽऽत्मतत्त्वबुद्धिं देहे संकोचयितुमन्नमय
आत्मोपदिष्यते । एतमेवाभिप्रायमुपरिष्टाद्विस्पष्टी करिष्यति—‘‘ स य एवंवित् ।
अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति ’’ इति । यस्तु बाह्यविषयासक्तिवा-
सनाप्राबल्यात्सकृदुपदेशमात्रेणान्नमयात्मनि न पर्यवस्यति तस्य तत्पर्यवसानार्थं तद्वि-
षयोपासनोपदिष्टा । स चोपासको निरन्तरमन्नमयमात्मानमुपासीनो बाह्यविषयेभ्यो व्यावृ-
त्तोऽर्थादन्नमये पर्यवस्यति । यदि कश्चिदल्पायुः सन्नुपरितनस्य प्राणमयादिविवेकस्या-
भावेन ब्रह्मतत्त्वबोधस्य संपूर्त्यभावादुक्तोपासनं कुर्वन्नेव म्रियेत । तदानीमुक्तरीत्या तस्य
सर्वान्नप्राप्तिर्भवति । ईदृशमेव विषयमभिप्रेत्य भगवतोक्तम्—
‘‘प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’’ ॥ इति ।
तदेवं विषयाभिमुख्यनिवृत्त्यर्थमन्नमयकोशमुपादिश्य प्रसङ्गात्तदुपासनं तत्फलं चोक्तम् ।
अथ विषयेभ्यो निवृत्तस्यान्नमयकोशादप्यन्तःप्रवेशाय प्राणमयकोशमुपदिशति—
तस्मा॑द्वा ए॒तस्मादन्न॑रसम॒यात् । अन्योऽन्तर॑
आ॒त्मा प्रा॑णम॒यः । तेनै॑ष पू॒र्णः, ॥ इति ।
१ ग. द्वारं वा° । २ घ. ॰त्त्वादन्नु° । ३ ग. ॰वृत्त्यर्था° । ४ ग. म्रियते । तत्तदां ।
७५

यः परमात्मा स्वयमाकाशादिक्रमेणान्नमयतां प्राप्त इति ब्राह्मणेन प्रतिपादितः स
एव पुनः श्लोकेन स्पष्टीकृतः । तस्मादेव ब्राह्मणोक्तादेतस्माच्छ्लोकेन प्रतिपादितादहं
मनुष्य इत्यनुभूयमानादङ्गातिरिक्तोऽभ्यन्तरप्रदेशवर्ती कश्चित्प्राणमय आत्मा विद्यते ।
तेन प्राणमयेनैषोऽन्नमयः पूर्णः । देहस्यान्तरापादमस्तकं प्राणमयो व्याप्य वर्तते ।
लिङ्गशरीरे ज्ञानशक्तिः क्रियाशक्तिश्चेतिद्वयं विद्यते । तयोर्मध्ये क्रियाशक्तिकार्यभूतः
कश्चित्प्राणाख्यः पदार्थः । तस्य च प्राणस्य विकारः पञ्चवृत्तिसमूहः प्राणमयः । वृत्तयश्च
प्राणापानव्यानोदानसमानाख्यास्तस्य प्राणपदार्थस्य व्यापारविशेषास्ते च हृदयादि-
प्रदेशेषु निष्पद्यन्ते ।
तथा चोक्तम्—
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ”॥ इति ।
तस्यैत

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९५

एवाऽऽत्मेति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति॑ च
देहे चैतन्यमुपलभ्यते न त्वसति । न॑ च चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्तात्मत्वं
शङ्कनीयम् । क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो
जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्माच्चेतनो देह आत्मेति प्राप्ते ब्रूमः—
पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुमर्हति विषयित्वात् । यद्यद्वि-
षयि तत्तद्विषयाद्व्यतिरिक्तम् । यथा रूपाच्चक्षुः । तथा सति तादृशचैतन्यस्याऽऽत्मत्वं
वदन्तं प्रति कथं भौतिकदेहरूपत्वमापाद्यते । सत्येव देहे चैतन्यमुपलभ्यते नासतीति
यावन्वयव्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः । असत्यपि देहे परलोकगामिनश्चिदा-
त्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् ” ।
अनात्मत्वेन निर्णीतादस्माद्देहादभ्यन्तरो यः प्राणस्तस्योत्पत्तिर्द्वितीयाध्यायस्य
चतुर्थपादे* चिन्तिता—
“ मुख्यप्राणः स्यादनादिर्जायते वा न जायते ।
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वायुनिषेधनात् ।
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ” ॥ इति ॥
मुखबिले संचरन्नुच्छ्वासैर्निःश्वासका॑री वायुर्मुख्यप्राणः । सोऽनादिः । कुतः ।
नासदासीदितिसूक्ते आनीदवातमित्यानीच्छब्देन सृष्टेरर्वाक्प्राणचेष्टाश्रवणादिति प्राप्ते
ब्रूमः—आनीच्छब्दो न प्राणव्यापारं वक्त्यवातमितिनिषेधात् । किं तर्हि ब्रह्मसत्त्वं
ब्रूते । सदेव सोम्येदमग्र आसीदित्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्श्रुत्यन्तरैः समा-
नार्थत्वात् । एतस्माज्जायते प्राण इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति ।
तस्मादिन्द्रियवत्प्राणो जायते ।
× तत्रैवान्यच्चिन्तितम्—
“ वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणश्रुतितोऽनिलः ।
सामान्येन्द्रियवृत्तिर्वा सांङ्ख्यैरेवमुदीरणात् ॥
भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः ।
वायुजत्वेन सामान्यवृत्तिर्नाक्षेपतोऽन्यता” ॥ इति ।
बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते । न तु


  • श्रेष्ठश्च—ब्र० सू० अ० २ पा० ४ अ० ४ सू० ८ । × न वायुक्रिये पृथगुपदेशात्—ब्र०
    ० अ० २ पा० ४अ० ५ सू० ९ ।
    १ क. ख. ग. छ. ॰ति दे॑ । २ ख. न चै॑ । ३ क. ख. ग. छ. ॰स्का॑ ।

५९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ८ अनु० २]
प्राणो नाम किंचित्त्वान्तरमस्ति । कुतः । यः प्राणः स वायुरिति श्रुतेः । अथवा
पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति एवमेकादशाक्षाणि
स्वस्वव्यापारद्वारा देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो
व्यापारः स प्राणो भविष्यति । तथा च सांख्यैरुक्तम्—“ सामान्या करणवृत्तिः
प्राणाद्या वायवः पञ्च ” इति । तस्मान्न तत्त्वान्तरं प्राण इति प्राप्ते ब्रूमः--“ प्राण एव
ब्रह्मणश्चतुर्थः पादः । स वायुना ज्योतिषा भाति ” इति श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपास-
नप्रसङ्गेनाऽऽध्यात्मिकप्राणस्याऽऽधिदैविकवायोश्चानुग्राह्यानुग्राहकत्वेन विभेदः स्पष्ट-
मेव निर्दिष्टः । अतो यः प्राणः स वायुरित्येकत्वश्रुतिः कार्यकारणयोरभेदवृत्त्या
नेतव्या । यत्तु सांख्यैरुक्तं तदसत् । इन्द्रियाणां सामान्यवृत्त्यसंभवात् । पक्षिणां तु
सामान्यचलनान्येकविधानि पञ्जरचलनस्यानुकूलानि । न तु तथेन्द्रियाणां दर्शनश्रवणम-
नैनादिव्यापारा एकविधाः । नापि देहँचलनानुकूलाः । तस्मात्तत्त्वान्तरं प्राण इति परि-
शिष्यते ।

  • तत्रैव पुनरप्यन्याचिन्तितम्—
    “प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लुष्युपक्रमे ।
    हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः ॥
    समासव्यासरूपेण विभुतैवाऽऽधिदैविकी ।
    आध्यात्मिकोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम् ॥
    प्लुषीर्नाम मशकादेरपि न्यूनकायः पुत्तिकाख्यो जीवस्तामारभ्य हिरण्यगर्भपर्यन्तेषु
    देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते— “समः प्लुषिणा समो मशकेन समो नागेन
    सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण ” इति । तस्माद्व्यापी प्राण इति प्राप्ते ब्रूमः—
    आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु ।
    वायुरेव व्यष्टिर्वायुः समष्टिरिति श्रुतेः । तदेव विभुत्वं समः प्लुषिणेत्यादिश्रुतावुपास-
    नार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च ” ।
    यस्त्वनेकजन्माभ्यस्तेदेहात्मत्ववासनाप्राबल्यात्प्राणमयात्मोपदेशमात्रेणाऽऽत्मत्व-
    बुद्धिं देहे परित्यक्तुं न शक्नोति तं प्रत्युपासनान्तरं विधातुमुपास्यस्वरूपं दर्शयति—
    स वा ए॒ष पु॑रुषवि॒ध ए॒व । तस्य॑ पुरु॑षवि॒धताम् ।
    अन्व॒यं पु॑रुष॒विध॑ः । तस्य॑ प्रा॒ण ए॒व शिर॑ः ।
  • अणूश्च— ब्र० सू० अ० २ पा० ४ अ० ६ सू० १३ ।
    १ व. षण मे° । २ ग. घ. तु च सा° । ३ व. 'ननय्या° । ४ घ. °हचाल° । ५ क.
    °रन्य° । ६ ख. घ. °सनां वि° ।

समानयत्येष"

Everything is remarkably clear and consistent.[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९५

व्या॒नो द॑क्षि॒णः प॒क्षः । अ॒पान॒ उत्त॑रः प॒क्षः ।
आ॒काश॑ आ॒त्मा । पृ॒थि॒वी पु॒च्छं प्रति॑ष्ठा॒, इति ॥
देहादभ्यन्तरत्वेन यः प्रोक्तः स एवैष प्राणितीत्येवमनुभूयमानः प्राणमयः पुरुष-
विध एव । यद्यप्यस्य शिरआद्यवयवाः स्वतो न सन्ति तथाऽपि तान्संपाद्य पुरुषा-
कार एव उपासनीयः । न चात्र दुःसंपादत्वं शङ्कनीयम् । तस्य पूर्वोक्तस्यान्नमयस्य
पुरुषप्रकारतामनुसृत्य तन्मध्ये पूर्णत्वेन वर्तमानोऽयं प्राणमयोऽपि पुरुषप्रकार इति
वक्तुं शक्यत्वात् । यथा मूषायां निषिक्तं द्रुतताम्रं प्रतिमाकारं संपद्यते तद्वत् । तत्र
हृदयादूर्ध्वं मुखनासिकयोः संचारी प्राणारख्यो वृत्तिविशेषः शिरस्त्वेन चिन्तनीयः ।
सर्वासु नाडीषु संचारी

वाव समानसंज्ञोत्तरं व्यानस्य रूपं चैतेषामन्तरा प्रसूतिरेवोदानस्याथ योऽयं पीतमशित-
मुगिरति निगिरति चैष वाव स उदानः” इति। पुरा प्रजापतिः स्वयमेकाकित्वेन क्रीडा-
रहितस्तत्सिद्धयर्थं देहान्सृष्ट्वा सृष्टानां तेषां व्यवहारसिद्धयर्थं प्राणवायूपाधिकजीवात्मरूपे-
णान्तः प्रविश्य पञ्चधा विभज्य व्यवहरतीति श्रुतेरर्थः ।
पूर्वोक्तान्नमयवत्प्राणमयेऽपि श्लोकमुदाहरति—
तदप्येष श्लोको भवति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्या॑: प॒शव॑श्च॒ ये ।
प्रा॒णो हि भू॒ताना॒मायु॑: । तस्मा॑त्स॒र्वायु॒षमु॑च्यते ।
सर्व॑मेव॒ त आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मोपास॑ते । प्राणो
हि भू॒ताना॒मायु॑: । तस्मात्सर्वायुषमुच्य॑त इति॒, इति।
ये सात्त्विका अग्नीन्द्रादयो देवा ये च राजसा ब्राह्मणक्षत्रियादयो मनुष्या येऽपि
तामसा गवाश्वादयः पशवः [ते] सर्वेऽपि स्वस्वदेहमध्यवर्तिनं प्राणवायुं चेष्टमानमनुसृत्य
स्वयमपि चेष्टन्ते । प्राण एव हि देहं चालयति । तथा कौषीतकिनः समामनन्ति—
“ अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ” इति । आथर्वणिका-
श्चाऽऽकाशादिभूताभिमानिदेवैर्वागादीन्द्रियाभिमानिदेवैश्च सह प्राणाभिमानिदेवस्य देहधा-
रणविषये संवादे समामनन्ति—“ तान्वरिष्ठः प्राण उवाच मां मोहमापद्यथाहमेवैतत्पञ्च-
धाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि ” इति । यथा बाणो धनुष्केण प्रेर्यते
तथा प्राणेन प्रेर्यमाणत्वाद्बाणशब्देन शरीरमुपलक्ष्यते । यः प्राणो देवमनुष्यपश्वादिदेहानां
चेष्टामुत्पादयति स प्राणो यस्मात्सर्वप्राणिनामायुर्हेतुस्तस्मात्सर्वायुषमुच्यत इति प्राणस्य
नामधेयम् । यथोक्तप्राणमयकोशज्ञानमात्रेणान्न मयात्मवासनां परित्यक्तुमशक्नुवन्तो ये
पुरुषास्तद्वासनानिवृत्तये प्राणोपाधिकं ब्रह्मोपासते, ते पुरुषा : आध्यात्मिकप्राणोपाधिक-
ब्रह्मोपासनादेतस्मिञ्जन्म न्यपमृत्युपरिहारेण सर्वमायुः प्राप्नुवन्ति । आधिदैविकाहिरण्यगर्भा-
त्मकप्राणोपासनेन तु जन्मान्तर स्वयमेव हिरण्यगर्भरूपाः सन्ता महापलयपर्यन्तं सर्वमायुः
प्राप्नुवन्ति । कोशप्रशंसार्थं पूर्वमुक्तस्य प्राणो हीतिवाक्यस्योपास्तिप्रशंसार्थं पुनरप्यभि-
धानम् ।
१ क. ख. छ. ॰र पान' । २ क. ख. ग. छ. ॰जीवरू' ।

Anuvāka 2 text in this edition:
Let's look at L24 very carefully:
[५] [ ? ] द्यिश्रुत्यन्तराण्युदाहार्याणि
Wait, it has:
५ then आ? No, इत्यादि?
Let's zoom in on ५ ... द्यादिश्रुत्यन्तराण्युदाहार्याणि:
Wait, look at the letters:
५ then a letter with an 'ā' matra, then 'दि':
Wait! Is it "५त्यादिश्रुत्यन्तराण्युदाहार्याणि"?
Yes! "लोभ" at the end of L23, and "इत्यादि" split across lines as "लोभे" / "लोभ"+"इत्यादि"?
Wait, if it's "लोभ इत्यादिश्रुत्यन्तराण्युदाहार्याणि", why would there be "त्यादि"?
Could L23 end with: "लोभ"
and L24 start with: "५इत्यादि..."?
Wait, look at the letter after ५:
It has: a left hook, a loop, a vertical bar with an ā-matra:
Wait, could it be "५मोहादिश्रुत्यन्तराण्युदाहार्याणि"?
Look at 'म' in 'मनोमयः' (L24): 'म' has a loop on the left, horizontal stroke, vertical bar.

६०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८ अनु०४]
तेषामिन्द्रियाणामुत्पत्तिर्द्वितीयाध्यायस्य चतुर्थपादे*चिन्तिता—
“ किमिन्द्रियाण्यनादीनि सृज्यन्ते वा परात्मना ।
सृष्टेः प्रागृषिणामैषां सद्भावोक्तेरनादिता ॥
एकबुद्ध्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्श्रवात् ।
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥
“ ऋषयो वाव तदग्रे सदासीत्केत ऋषय इति प्राणा वा ऋषयः” इति श्रुत्या सृष्टेः
पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषामिति प्राप्ते ब्रूमः—एकविज्ञानेन सर्वविज्ञानं
तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा “ अन्नमयं हि सोम्य मन आपोमयः प्राण-
स्तेजोमयी वाक् ” इति भूतकार्यत्वमिन्द्रियाणां श्रूयते । “ एतस्माज्जायते प्राणो मनः
सर्वेन्द्रियाणि च ” इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु सृष्टेः प्राक्सद्भाववाक्यं
तदवान्तरसृष्टिविषयं व्याख्येयम् । तस्मादिन्द्रियाणि परमात्मन उत्पद्यन्ते ” ।
+तत्रैवान्यच्चिन्तितम्—
“ सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ।
सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषाणात् ॥
अशीर्षण्यस्य हस्तादेरपि वेदे समीरणान् ।
ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुगेधतः ॥
सप्तैवेन्द्रियाणि । कुतः । सप्त प्राणाः प्रभवन्ति तस्मादिति सामान्यश्रुतेः । स
शीर्षण्याः प्राणा इति शिरोगतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्चेति प्राप्ते ब्रूमः
शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते “ हस्तौ चाऽऽदातव्यं चोपा
श्वाऽऽनन्दयितव्यं च ” इत्यादिना । तथा च वेदमुखादेव निश्चये सत्येकादशव्यापारा
दर्शनश्रवणघ्राणास्वादनास्पर्शनाभिवदनादानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधना
नेन्द्रियाण्येकादशेत्युपगन्तव्यम् ” ।
÷पुनरप्यन्यच्चिन्तितम्—
“ व्यापिन्यणूनि वाऽक्षाणि सांख्या व्यापित्वमूचिरे ।
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥
देहस्थवृत्तिसद्भावेप्येवाक्षत्वं प्रकाश्यते ।
उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात् ॥

  • तथा प्राणाः—ब्र० सू० अ० २ पा० ४ अ० १ सू० १ । + सप्त गतेर्विशेषितत्वाच्च—
    सू०अ०२ पा० ४ अ० २ सू० ५ । ÷ अणवश्च—ब्र० सू०अ० २ पा० ४ अ० ३ सू० ७ ।
    १ ग. ॰न्ते च स॰ । २ घ. ॰प्त.शीं॰ । ३ घ. देशे ।

नि? No, modern OCR or transcription: if it's a variant mark, writing आलोचकत्वेनान्यानि` (or with a note/candrabindu) is standard. But wait! Look at the prompt: "Transcribe it into pure, clean Markdown in Unicode Devanagari." Clean Markdown means accurate reading. "आलोचकत्वेनान्यानि" is the actual correct reading!

Let's check line 24:
इह वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति । कुतः । तेषां प्राणरूपत्वश्रव-
णात् । “त एतस्यैव सर्वे रूपमभवन्” इति श्रुतेः । किंच प्राणशब्देनैव तानि लोके
व्यवह्रियन्ते म्रियमाणस्य प्राणा नाद्यापि निर्गच्छन्तीत्यादौ । श्रुतिश्च वागादीनां
प्राणनैकतामाह— “न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा

Footnotes:
※ज्योतिराद्यधिष्ठानं तु तदामननात्—ब्र० सू० अ० २ पा० ४ अ० ७ सू० १४ । + त
इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्—ब्र० सू० अ० २ पा० ४ अ० ८

ङ् in Taittiriya Aranyaka text:
Could the text have printed ङ्गेना by mistake?
Wait, look at the first akshara:
It's ङ् (a dot to the right of ङ) + ख्ये?
Wait! Could it be अथर्वा + ङ्गिरोनामकेन?
Wait, why च महर्षिणा? "अथर्वणा अङ्गिरोनामकेन च महर्षिणा"!
Wait! Look at line 27:
अथर्वा-
Line 28:
Wait, does it say अथर्वा- or अथर्वा-?
Yes, line 27 ends with: अथर्वा-
And line 28 starts with:
Wait, is that ङ्?
No! Look at the dot: is it a dot or an anusvara?
Wait, could it be त्स? No.
Let's look at the shape:
Top bar.
A vertical line going down, curving right with a dot: ङ!
Underneath/attached: ख्ये?
Wait, look at ख्य in line 10: वैलक्षण्यात् - that has क्ष not ख्य.
Wait, look at line 28:
ङ्ख्यॆना(णा)ङ्गिरोनामकेन?
Wait, let's search for

प्रपा०८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०३
पूर्ववदस्मिन्मनोमयेऽपि श्लोकमुदाहरति—
तदप्येष॒ श्लोको॑ भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
अथ चतुर्थोऽनुवाकः ।
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आन॑न्दं
ब्रह्म॑णो वि॒द्वान् । न बि॑भेति कदा॑चनेति, इति ।
वाचकाः शब्दा ज्ञापकेन मनसा सह ब्रह्मणः स्वरूपभूतमानन्दमप्राप्य यस्माद्ब्र-
ह्मानन्दान्निवर्तन्ते तद्ब्रह्मानन्दं विद्वान्मनोमयोपाधिविशिष्टमुपासीनः कदाचिदपि न
बिभेति । जातिगुणाद्यभावान्न ब्रह्मणि वाचकशब्दप्रवृत्तिः ।
एतच्च नैष्कर्म्यसिद्धावुक्तम्—
“ षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः

त्रेदं" - wait! If it's "तत्रेदंप्रत्ययो", why does line 25 start with "दं"?
Ah! तत्र + इदं = तत्रेदं.
If split: तत्रे / दंप्रत्ययो!
Let's look at the end of line 24 again:
Letter 1: त
Letter 2: is it त्र?
Wait, it has a vertical line, a slant down-left, and a stroke on top slanting left (e-matra)!
Wait, does it have an anusvara?
Wait, look at the letter: it's 'त्र'! And above it is an e-matra!
Wait, but is there an anusvara? Or is it just "तत्रे"?
Wait, why would it be "तत्रे" if line 25 starts with "दंप्रत्ययो"?
Because "तत्रे" + "दं" = "तत्रेदं"!
Wait, but look at the character at the end of line 24:
Wait, could it be "तत्र"? No, look at line 24 end:
"त" and then... wait, look at the character:
Is it "त" followed by "त्र"? No, it's just one character: "तं"?
Wait, why would it be "तं"?
Wait! Could it be "तत्रेदंप्रत्ययो"?
What if line 24 ends with "तत्रे" and line

[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०५

भिमन्ता सर्वेषु प्रमाणव्यवहारेषु प्रमाता सोऽयमत्र विज्ञानमयः । एतमेवोद्दिश्याऽऽ-
थर्वणिकाः—“चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ” इत्यादिना प्रमाणप्रमेयजातं
सर्वमनुक्रम्य सर्वव्यवहारकर्तारं पृथगेव विस्पष्टमामनन्ति—“एष हि द्रष्टा स्प्रष्टा
श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” इति । कौषीतकि-
नश्च—“प्रज्ञया वाचं समारुह्य” इत्यादिना विषयेन्द्रियव्यवहारस्य सर्वस्यान्वयव्य-
तिरेकाभ्यां मनोधीनत्वमाम्नायाशेषव्यवहारकर्तारं पृथगामनन्ति—“ न वाचं विजि-
ज्ञासीत वक्तारं विद्यात् ” इत्यादिना । नन्वात्मैव व्यवहारस्य कर्ता भवति । नैत्वसौ
विज्ञानमयाख्यश्चतुर्थः कोशः । अत एव भगवान्बादरायणो द्वितीयाध्यायस्य तृती-
यपादे जीवात्मविचारे—“कर्ता शास्त्रार्थवत्त्वात् ”

६०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ८अनु०२]
एवं च सति कर्तृत्वमपि विज्ञानमयोपाधौ वर्तमानमात्मन्यारोप्यत इत्यभ्युपगन्तव्यम्।
सोऽयं कर्तृत्वशक्तियुक्तो विज्ञानमयः करणत्वशक्तियुक्तान्मनोमयादभ्यन्तरः । ननु
मनसा सहितान्येकादशेन्द्रियतत्त्वानि पञ्चवृत्त्युपेतं प्राणतत्त्वं चेत्येतावदेव लिङ्गशरीरं
मीमांसाशास्त्रे विचारितम् । न तु विज्ञानाख्यं किंचित्त्वमिति चेत्प्राणपादे तद्विचारा-
भावेऽपि ततः पूर्वस्मिन्पादे जीवात्मनि संसारधर्मापादकत्वेन तद्गुणसारत्वादित्यादिना
विचारितत्वात् । अङ्गीकृतेऽपि विज्ञानाख्ये बुद्धितत्त्वे लिङ्गशरीरस्य सप्तदशसंख्या
पूर्यते । सा च संख्या भगवद्भिरुदाहृता—“ अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं च
सप्तदशकं लिङ्गम् ” इति ।
तस्याश्च संख्यायाः संख्येयानि तत्त्वानि विश्वरूपाचार्यैर्दर्शितानि—
“ ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि ।
वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः ” ॥ इति ।
नन्वेकस्यैवान्तःकरणतत्त्वस्य मनोबुद्ध्यहंकारचित्ताख्याश्चत्वारो वृत्तिभेदाः ! संशया-
त्मकं मनः । निश्चयात्मिका बुद्धिः । अभिमानात्मकोऽहंकारः । चेतनात्मकं चित्तमिति
वृत्तीनां लक्षणानि । एताश्चतस्रो वृत्तयस्तद्विषयाश्चाऽऽथर्वणिकैरनुक्रान्ताः—“मनश्च
मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च ” इति ।
एते च वृत्तिविशेषाः क्षणिकाः कालभेदेनैवोत्पद्यन्ते “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्”
इति न्यायात् । तथा सति वृत्तिमात्रस्वरूपयोर्मनोमयविज्ञानमययोरन्नमयप्राणमयवत्पृथ-
क्तत्त्वरूपत्वाभावाद्विन्नकालीनत्वाच्चान्तर्बहिर्भावो न युक्त इति चेत् । न । करणरूपेण
कर्तृरूपेण च तयोस्तत्त्वभेदाङ्गीकारात् । पूर्वोक्ता मनोबुद्ध्यादयश्चत्वारोऽपि करणस्यैव
व्यापारविशेषाः । कर्तृरूपं तु करणात्पृथगेव तत्त्वम्। तच्च बुद्धिशब्देन विज्ञानशब्देनाहं-
शब्देन च तत्र तत्र व्यवह्रियते । तत्र कठाः कर्तरि बुद्धिशब्दमेवामनन्ति—“आत्मानं
रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रि-
याणि हयानाहुर्विषयांस्तेषु गोचरान् ” इति । चिदात्मा रथस्वामी । अचिद्रूपा दर्पण-
सदृशी चैतन्यप्रतिबिम्बस्य कर्तृत्वधर्मस्य वाऽऽधारभूता बुद्धिः सारथिः । सा हि
चिच्छायापेतत्वेन चेतना कर्तृत्वेन च सारथिवत्स्वतन्त्रा सती प्रग्रहसदृशेन मनोरूपेण
करणेन हयसदृशानीन्द्रियाणि नियमयन्ती रथसदृशं शरीरं व्यापारयति । अतोऽत्र
बुद्धिमनसोस्तत्त्वभेदः । ३बुद्धिस्थायित्वमेककालवर्तित्वं चावगम्यते । विज्ञानशब्दोऽपि
तत्रैवाऽऽम्नायते—“ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति
तद्विष्णोः परमं पदम् ” इति । बुद्धेरन्तरतत्त्वविवक्षयोत्कर्षस्तत्रैवा४ऽऽम्नातः—“इन्द्रि-
१ ग. ॰ते हि वि० । २ ग. ॰र्वोक्तम० । ३ ग. घ. बुद्धेः स्था० । ४ ख. ॰त्रैव वर्णितः ।

"?
Wait, in Sanskrit: "कर्ता स योऽस्माभिरहं कर्तेत्यनुभूयमानो विज्ञानमयः" ("स यः अस्माभिः अहं कर्ता इति अनुभूयमानः विज्ञानमयः")!
Yes! "स योऽस्माभिरहं"! "स" at end of L25, "योऽस्माभिरहं" at start of L26!
Wait, look at the letter at the start of L26:
It has: left part, right vertical stem, and an o-kar. It is indeed "यो"!

Now look at Line 27:
Start of line 27:
"मनु स्वयमपि ताम्रप्रतिमान्यायेन शिरःपक्षादिकल्पनया पुरुषाकार एव भवति ।"
Wait, is there any missing letter before "मनु"?
No! Look at the alignment:
L25: पू
L26: यो (slightly indented? No, directly aligned under पू)
L27: म (directly aligned under यो)
L28: पि (indented? Wait, 'पि' is aligned under 'म'!)
Wait! Look at L28:
"पि श्रद्धादयो वृत्तिरूपत्वान्मनोममयस्य कार्याः, तथाऽपि विज्ञानमयस्य कर्तृ-"
Wait, where is "यद्य"?
Look at the spacing before "पि" on L28: there is an empty space!

६०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०२]
श्रद्धा शिर इत्युच्यते । गुरुशास्त्राभ्यामभिहिते तत्त्वे तदवबोधोपाययोश्च परमो
विश्वासः श्रद्धा । ऋतसत्यशब्दाभ्यामप्यत्र तत्तत्कर्तृत्वाभिमानरूपं वृत्तिद्वयं विवक्षि-
तम् । योगः संप्रज्ञातासंप्रज्ञातसमाधिद्वयम् । “योगश्चित्तवृत्तिनिरोधः” इति
योगशास्त्रे सूत्रितत्वात् । महःशब्देनं महतः परमितिश्रुत्यन्तरोक्तमव्याकृतस्य प्रथम-
कार्यरूपं हिरण्यगर्भाख्यं महत्तत्त्वं विवक्षितम् । तच्च सर्वेषामहंप्रत्ययगम्यानां कर्त्री-
त्मनां समष्टिरूपत्वेन प्रतिष्ठा । एतदेवाभिप्रेत्योत्तरतापनीये समाम्नायते—“सर्वा-
हंमानी हिरण्यगर्भः” इति ।
अस्मिन्विज्ञानमयेऽपि पूर्ववच्छ्लोकमुदाहरति—
तदप्येष श्लोको भवति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च ।
वि॒ज्ञानं॑ दे॒वाः सर्वे॑ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॑
ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्रमाद्य॑ति । *शरीरे पाप्म॑नो
हि॒त्वा । सर्वा॒न्कामा॒न्त्सम॑श्नुत॒ इति॑, इति ।
यदेतत्कर्तृत्वशक्तियुक्तं विज्ञानं तदेव ज्योतिष्टोमादीन्यज्ञाननुतिष्ठति । एतदीय-
मनुष्ठानं तत्साक्षिणि चिदात्मनि भ्रान्त्या परिकल्प्यते । तथा कृषिवणिज्यादिलौकिक-
कर्माण्यापि विज्ञानेनैव क्रियन्ते । तदेतल्लौकिकवैदिकसर्वक्रियाकर्तृरूपमाध्यात्मिकं
विज्ञानमिन्द्रादयः सर्वे देवा ज्येष्ठब्रह्मरूपेणोपासते । महत्तत्त्वरूपं हिरण्यगर्भाख्यं
प्रथमोत्पन्नज्येष्ठशरीरम् । “स यो हैतन्महः प्रथमजं यक्षम्” इति श्रुतेः । यक्षं
पूज्यम् । तथा—“हिरण्यगर्भः समवर्तताग्रे” इति श्रुत्यन्तरम् ।
स्मृतिश्च—“स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे सैमवर्तत” ॥ इति ।
इन्द्रादिवद्यः पुमान्विज्ञानोपाधिकं ब्रह्म यद्युपासीत तदुपासीनँश्च यावज्जीवं तस्मा-
द्विज्ञानोपाधिकाद्ब्रह्मणो यदि नै प्रमाद्येत्, उक्तविधं ब्रह्माहमस्मीत्येवं प्रत्ययप्रवाहं
परित्यज्य मनुष्योऽहं कर्ता भोक्ता सुखी दुःखीत्येवं प्राकृतजनवद्व्यवहारः प्रमादः

  • अत्र शकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः ।
    १ ग. °रूपत्वं° । २ ख. °रूपा हिं° । ३ ग. स व्य° । ४ ङ. °नस्य यां° । ५ ङ. नो
    ६ ग. °ह्येव प्र° ।

[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०९
यदि न कुर्यात्तदानीमयं शरीरे वर्तमान एव सम्भाविजन्मरूपदुःखहेतून्सर्वान्पाप्मनः
परित्यज्य ब्रह्मलोके संकल्पमात्रसंपादितान्सर्वान्भोगान्भुक्त्वा तत्त्वज्ञानोदये सति विमु-
च्यते । इन्द्रादिदेवानां स्त्रीशूद्रवद्वेदाध्ययनाभावेऽप्यस्ति वैदिकब्रह्मविद्यायामधिकारः ।
शूद्रादेस्तु वेदमुखेनाधिकाराभावेऽपि स्मृतिपुराणादावस्त्यधिकारः प्रथमाध्यायस्य
तृतीयपादे + चिन्तितः—
“नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ।
विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया ॥
अविरुद्धज्ञानवादिमन्त्रादेर्देहसत्त्वतः ।
अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः” ॥ इति ।
बृहदारण्यके तृतीयाध्याये श्रूयते—“तद्यो यो देवानां प्रत्यबुध्यत स एव तद-
भवत्तथ