स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
58 स्मृतिचन्द्रिकायां
पौत्रवतो हरिवासरमात्रोपवासनिषेधाय ब्रह्माणं प्रति यम-
वचनं-
मनुष्याः पितृभिस्सार्धं तथैव च पितामहैः ।
तेषामपीह पितरः पितृणां पितरस्तथा ॥
अथ मातामहा यान्ति तेषां ये जनकास्तथा ।
तेषामपि जनयितारो जनितृणां तु पूर्वजाः ॥
प्रयान्ति वैष्णवं लोकमुपोष्य हरिवासरम् ।
एष दण्डः पटो ह्येष तव पद्ध्यां नियोजितः ।
लोकपालत्वमतुलमार्जितं येन भूभुजा ।
तमेकं वदतां श्रेष्ठ सम्प्राप्ते हरिवासरे ॥
यदि चालयसे धैर्यात्ततोऽहं तव किङ्करः ॥
इति, तत्रापि हरिवासरग्रहणं रुक्माङ्गदस्य विहितैकादशीप-
रमित्यवगन्तव्यम् । अतो गृहिणः पुत्रवतः शुक्लैकादश्यामुप-
वासः इतरेषां तु उभयोरिति सिद्धम् । एवञ्च यदुक्तं वि-
ष्णुधर्मोत्तरे-
ब्रह्महा स भवेत् स्तेनः सुरापो गुरुतल्पगः ।
विवेचयति यो मोहादेकादश्योस्सितासिते ॥
इति, यदपि पुराणे-
मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।
एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि ॥
इति, तत् पुत्रवद्गृहिंव्यतिरिक्तविषयमित्यनुसन्धेयम् । एवमुक्त-
रीत्या व्यवस्थासम्भवेऽपि केचित् ‘न कुर्यात्पुत्रवान् गृही’
इत्येवमादीनां काम्योपवासविषयत्वं परिकल्प्य गृहिणः पुत्र-
वतोऽपि कृष्णैकादश्यामप्युपवासं वर्णयन्ति । यदत्र युक्तं
तद्ग्राह्यम् । यत्पुनरापस्तम्बेनोक्तं—
आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम् ॥
इति, तत् एकादशीव्यतिरिक्तविषयम् । अत एवाग्निपुराणं—
गृहस्थो ब्रह्मचारी च आहिताग्निस्तथैव च ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥
इति । यदपि पुराणे—
श्राद्धे जन्मदिने चैव सङ्क्रान्त्यां राहुसूतके ।
उपवासं न कुर्वीत यदीच्छेच्छ्रेय आत्मनः ॥
इति श्राद्धे उपवासनिषेधपरं च वचनं, तदप्येकादशीव्यति-
रिक्तविषयम् । अत एव स्मृत्यन्तरं—
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति । उपवासलक्षणं व्यासेनोक्तं—
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैस्सह ।
उपवासस्स विज्ञेयो सर्वभोगविवर्जितः ॥
इति । पापेभ्य उपावृत्तस्य गुणैरेकभक्तादिनियमैस्सह यो
60 स्मृतिचन्द्रिकाया
वासः ताम्बूलादिभोगरहित उपवास इत्यर्थः । ते च गुणा
नारदीयपुराणे दर्शिताः-
तस्यैवं क्रीडमानस्य मोहिन्या सह पार्थिव ।
रुक्माङ्गदस्य श्रोत्राभ्यां पटहध्वनिरागतः ॥
मत्तेभकुम्भसंस्थस्तु धर्माङ्गदमते स्थितः ।
प्रातर्हरिदिनं लोकास्तिष्ठध्वं चैकभोजनाः ॥
अक्षारलवणास्सर्वे हविष्यान्ननिषेविणः ।
अवनीतलशयनाः प्रियासङ्गविवर्जिताः ॥
स्मरध्वं देवमीशानं पुराणं पुरुषोत्तमम् ।
सकृद्भोजनयुक्ताश्च उपवासे भविष्यथ ॥
अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न हि पूर्यते ।
यो भुङ्क्ते मामके राष्ट्रे विष्णोरहनि पापकृत् ॥
स मे वध्यश्च दण्ड्यश्च निर्वास्यो विषयाद्बहिः ।
इति । उपवासे कृते द्वादश्यामित्यर्थः । देवलोपि-
दशम्यामेकभुक्तस्तु मांसमैथुनवर्जितः ।
एकादश्यामुपवसेत्पक्षयोरुभयोरपि ॥
ब्रह्मचर्यं तथा शौचं सत्यमामिषवर्जनम् ।
व्रतेष्वेतानि चत्वारि वरिष्ठानीति निश्चयः ।)
स्त्रीणां तु प्रेक्षणात् स्पर्शात्ताभिस्संकथनादपि ।
निष्यन्दते ब्रह्मचर्यं न दारेष्वृतुसङ्गमात् ॥
असकृज्जलपानाच्च सकृत्ताम्बूलचर्वणात् ।
श्राद्धकाण्डं । यः : 61
उपवासो विनश्येत दिवास्वापाच्च मैथुनात् ॥
व्यासोऽपि-
पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनम् ।
उपवासे न दुष्येत दन्तधावनमञ्जनम् ॥
इति । एतत् पुण्यजनकौपवासे स्त्रीविषयमिति कैश्चिदुक्तम् ।
दन्तधावनमत्र पर्णादिना, न काष्ठेन-
उपवासे तथा श्राद्धे न खादेद्दन्तधावनम् ।
दन्तानां काष्ठसंयोगः हन्ति सप्त कुलान्यपि ॥
इति तेनैवोक्तत्वात् । विष्णुरपि- 'पतितपाषण्डसंभाषणानृत
स्तेयादिकं वर्जयेत्' इति । कूर्मपुराणेऽपि-
कांस्यं मांसं मसूरं च चणकं कोद्रवाषकान् ।
शाकं मधु परान्नं च त्यजेदुपवसन् स्त्रियम् ॥
इति । उपवसन् उपवत्स्यन्नित्यर्थः । अतो दशम्यामेते नि-
यमाः । स्मृत्यन्तरेऽपि-
असत्यभाषणं द्यूतं दिवास्वापं च मैथुनम् ।
एकादश्यां न कुर्वीत उपवासपरो नरः ॥
इति । ब्रह्माण्डपुराणेऽपि-
कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।
व्यवायं च प्रवासं च दिवास्वापमथाञ्जनम् ॥
तिलपिष्टं मसूरं च द्वादशैतानि वैष्णवः ।
62 स्मृतिचां ॥
द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते ॥
बृहस्पतिरपि—
दिवानिद्रां परान्नं च पुनर्भोजनमैथुने ।
क्षौद्रं कांस्यामिषं तैलं द्वादश्यामष्ट वर्जयेत् ॥
अङ्गिरा अपि—
सायमाद्यन्तयोरह्नोस्सायं प्रातश्च मध्यमे ।
उपवासफलप्रेप्सुर्जह्याद्भक्तचतुष्टयम् ॥
इति । न चात्र फलश्रवणात् काम्योपवासविषयमिति शङ्कनी-
यं, नित्येऽप्युपात्तदुरितक्षयादिफलसंबन्धात् । केचित्तु—नित्ये
फलाभावाद्यान्येकभक्तादीनि तानि—
य इच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमेव च ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥
इत्यादिविहितकाम्योपवासविषयाणीति वर्णयन्ति । यदत्र युक्तं
तद्ग्राह्यम् । अत्रोपवासग्रहणविधिमाह देवलः—
गृहीत्वौदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासं तु गृह्णीयात् यद्वा सङ्कल्पयेद्बुधः ॥
इति । औदुम्बरं ताम्रमयं पात्रं जलपूर्णं उदङ्मुखः आ-
दाय उपवासं गृह्णीयात्, यद्वा सङ्कल्पयेत् सङ्कल्पमात्रं कुर्या-
दित्यर्थः । अत्र पात्रग्रहणं प्रथमसङ्कल्पविषयं काम्योपवास-
विषयं चेति कैश्चिदुक्तम् । सङ्कल्पमन्त्रोऽपि तेनैव दर्शितः—
श्राद्धकाण्डे एकादशीनिर्णयः 63
एकादश्यां निराहारो भूत्वाऽहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष गतिर्मम भवाच्युत ॥
इति । विष्णुस्तु मन्त्रान्तरमाह—
एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥
इति । मन्त्रोच्चारणानन्तरं कात्यायनः—
इत्युच्चार्य ततो विद्वान् पुष्पाञ्जलिमथार्पयेत् ।
इति । एवमुपवाससमर्पणमपि द्रष्टव्यम् । तदाह नारदः—
मन्त्रमुच्चार्य यत्नेन पुष्पाञ्जलिमथार्पयेत् ।
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ।
एवं समर्पयेद्विद्वान्पारणं समनन्तरम् ॥
इति । एतच्च सूतकादावपि कार्यम् । तदुक्तं विष्णुरहस्ये—
परमापदमापन्नो हर्षे वा समुपस्थिते ।
सूतके मृतके वाऽपि न त्याज्यं द्वादशीव्रतम् ॥
इति । अत्र वराहपुराणोक्तो विशेषः—
सूतके तु नरस्स्त्रात्वा प्रणम्य मनसा हरिम् ।
एकादश्यां न भुञ्जीत व्रतमेतन्न लुप्यते ॥
द्वादश्यां तु ततो भुक्त्वा सूतकान्ते जनार्दनम् ।
पूजयित्वा विधानेन पूजयेच्च द्विजोत्तमान् ॥
64 स्मृतिचन्द्रिकायां
मृतकेऽपि न भुञ्जीत एकादश्यां सदा नरः ।
द्वादश्यां तु समश्नीयात्स्नात्वा विष्णुं प्रणम्य च ॥
इति । उपवासाशक्तौ तु विष्णुरहस्योक्तं —
असामर्थ्ये शरीरस्य व्रते च समुपस्थिते ।
कारयेद्धर्मपत्नीं तु पुत्रं वा विनयान्वितम् ॥
कात्यायनोऽपि—
पितुर्मातुर्भ्रातुरर्थे आचार्यार्थे विशेषतः ।
उपवासं तु कुर्वाणः पुण्यं शतगुणं लभेत् ॥
यमुद्दिश्य कृतो विद्वान् सोपि संपूर्णमाप्नुयात् ।
नारी स्वपतिमुद्दिश्य एकादश्यामुपोषिता ।
पुण्यं शतगुणं प्राहुः मुनयः पारदर्शिनः ॥
उपवासफलं तस्याः पतिः प्राप्नोत्यसंशयः ॥
इति । अथवा स्मृत्यन्तरोक्तं—
उपवासे त्वशक्तानामशीतेरूर्ध्वजीविनाम् ।
एकभुक्तादिका कार्येत्याह बोधायनो मुनिः ॥
अनेनैवाभिप्रायेण मार्कण्डेयोऽपि—
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन दानेन न निर्द्वादशिको भवेत् ॥
नक्ते तु विशेषमाह व्यासः—
हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ।
श्राद्धकाण्डे एकादशीद्वैधनिर्णयः 65
अग्निकार्यमधश्शय्यां नक्तभोजी समाचरेत् ॥
इति । एवं कुर्वतः फलमाह नारदीयपुराणे वसिष्ठः—
हरिदिनमुपवासैर्यः क्षपेत् प्राप्य * जन्तुः
न विशति जठरं विण्मूत्रपूर्णं जनन्याः ।
बहुवृजिनसमेतः कामरागाभिभूतो
व्रजति पदमनन्तं लोकनाथस्य विष्णोः ॥
इति स्मृतिचन्द्रिकायामेकादशीनिर्णयः.
अथैकादशीद्वैधनिर्णयः.
तत्र स्कन्दपुराणं—
प्रतिपत्प्रभृतयस्सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याता हरिवासरवर्जिताः ॥
इति । कीदृशस्तर्हि संपूर्णो हरिवासर इत्यपेक्षिते गारुड-
पुराणं—
उदयात्प्राग्यदा विप्र मुहूर्तद्वयसंयुता ।
सम्पूर्णैकादशी नाम तत्रैवोपेवसेद्गृही ॥
पुनः प्रभातसमये घटिकैका यदा भवेत् ।
अत्रोपवासो विहितश्चतुर्थाश्रमवासिनाम् ॥
विधवायाश्च तत्रैव परतो द्वादशी न चेत् ।
- पुण्यमासाद्य.
SMRITI CHA.—Vol. V. 9
66 स्मृतिचन्द्रिकायां
इति । अनेन यत्र त्रयोदश्यां द्वादशी नास्ति किन्त्वेका-
दश्येव दिनद्वययुता तत्र या संपूर्णैकादशी तस्यामुपवासं गृही
कुर्यादपरस्यां यत्यादय इत्युक्तं भवति । उक्तं च स्मृत्य-
न्तरे—
संपूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
लुप्यते द्वादशी तस्मिन्नुपवासः कथं भवेत् ॥
उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैः ।
इति । तस्मिन् त्रयोदशेऽहनि यदा द्वादशी नास्ति तदा
पूर्वोक्ताधिकारिभेदेन द्वे तिथी उपोष्ये न त्वेकैवेत्यर्थः । अत
एव कूर्मपुराणं—
संपूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद्गृही ॥
इति । अस्मिन्नेव विषये यदा त्रयोदश्यामपि द्वादशी तदा
द्वितीयैकादश्यामेवोपवासः । तथा च भृगुः—
संपूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
तत्रोपोष्या द्वितीया तु परतो द्वादशी यदि ॥
इति । उपोष्या सर्वैरिति शेषः । अत एव नारदः—
संपूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि ॥
इति । अस्मिन्नेव विषये यदा द्वादश्यामेकादशी नास्ति
तदा द्वादश्यामेवोपवासः । तथाच स्मृत्यन्तरं—
श्राद्धकाण्डे एकादशीनिर्णयः 67
[ए]कादशी भवेत्पूर्णा परतो द्वादशी यदि ।
[ए]कादशीं परित्यज्य द्वादशीं समुपोषयेत् ॥
एवञ्च यत्र दशमीशेषस्योदयात्प्राचीनमुहूर्तद्वयाननुप्र-
[उ]पवासः कार्य इत्युक्तं भवति । अनुप्रवेशे तु गा-
[र्ग्यो]क्तं—
[उद]यात्प्राक्त्रिघटिकाव्यापिन्येकादशी यदा ।
वेद्धैकादशी नाम वर्ज्या धर्मार्थकाङ्क्षिभिः ॥
[स्व]राज्यसमृद्ध्यर्थं द्वादश्यां समुपोषयेत् ।
[अत्र] क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
[आ]दित्योदयवेलायामारब्धा षष्टिनाडिका ।
[स]ङ्कीर्णैकादशी नाम त्याज्या धर्मफलेप्सुभिः ॥
[पु]त्रपौत्रप्रवृद्ध्यर्थं द्वादश्यामुपवासयेत् ।
[अ]त्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ॥
[एव]ञ्च यत्रैकादशी द्वादश्यां नास्ति, द्वादशी न च त्रयोद-
[श्यां, द]शमीशेषस्योदयात्प्राचीनमुहूर्तद्वयानुप्रवेशः तत्रैकादशीं
द्वादश्यामुपोष्य त्रयोदश्यां पारणमित्युक्तं भवति ।
[तद]भिप्रायेण कण्वोऽपि—
[अ]रुणोदयवेलायां दशमी यदि सङ्गता ।
[त]त्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् ॥
[अ]रुणोदयवेलायां दशमी यदि संयुता ।
[र]विचक्रार्धमात्राऽपि द्वादशीमुपवासयेत् ॥
68 स्मृतिचन्द्रिकायां
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
अरुणोदयवेळायां विद्धा काचिदुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥
भविष्यत्पुराणेऽपि—
अरुणोदयवेळायां दशमी यदि विद्यते ।
पापमूलं सदा ज्ञेयमेकादश्युपवासिनाम् ॥
नारदोपि—
अरुणोदयवेळायां दशमी यदि दृश्यते ।
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ॥
गोभिलोपि—
अरुणोदयवेळायां दशमी यदि सङ्गता ।
संयुक्तैकादशीपुण्यं मोहिन्यै दत्तवान्विभुः ॥
उदयादुपरिविद्धा दशम्यैकादशी यदा ।
दानवेभ्यः प्रीणनार्थं दत्तवान् पाकशासनः ॥
तस्मात्सर्वप्रयत्नेन सङ्कीर्णैकादशीं त्यजेत् ।
द्वादश्यामुपवासोत्र त्रयोदश्यां तु पारणम् ॥
अरुणोदयाभिप्रायेण नारदीयपुराणे मोहिनीवाक्यं—
अग्नेर्विहारकाले तु वध्वा उत्थापने तथा ।
गवां दोहनकालेऽपि पक्षिसंनादने तथा ॥
निर्गमे सर्ववेदानां मार्जनीग्रहणे तथा ।
द्वारोद्घाटनवेळायां स्नानकाल उपस्थिते ॥
श्राद्धकाण्डे एकादशीद्वैधनिर्णयः 69
व्रतिनां दीक्षितानां च वादित्रनिनदे तथा ।
तथा प्रान्तो दशम्या यस्त्वेकादश्या समन्वितः ॥
प्रदीयतां निवासार्थं कालो विबुधसत्तमाः ।
तन्मोहिन्या वचः श्रुत्वा सुरास्सर्वे महीपते ॥
संमन्त्र्य सुचिरं कालं दिगम्बरपुरोगमाः ।
यमस्य दर्शनार्थाय वैकुण्ठध्वंसनाय च ॥
पाषण्डिनां विवृद्ध्यर्थं पापसञ्जननाय च ।
ऊचुस्ते मोहिनीं देवाः लोकसंमोहनाय वै ॥
दत्तं मोहिनि ते स्थानं प्रत्यूषसमये हि तत् ।
दुष्टं हरिदिनोपेतं दशम्याः प्रान्तमेव हि ॥
इति । अरुणोदयविद्धां परित्यजेदिति भावः । अरुणोद-
योपि पुराणे दर्शितः—
चतस्रो घटिकाः प्रातररुणोदय उच्यते ।
यतीनां स्नानकालस्तु गङ्गाम्बुसदृशः स्मृतः ॥
इति । यतयोऽत्र नियताः । तेषां स्नानकाल इति । अनेन
उदयात्प्राचीनं घटिकाचतुष्टयमरुणोदय इत्युक्तं भवति । अ-
रुणोदयाभिप्रायेण नारदोपि—
दशम्याऽनुगता यत्र तिथिरेकादशी भवेत् ।
तत्रापत्यविनाशश्च परेत्य नरकं व्रजेत् ॥
विष्णुरहस्येऽपि—
दशमीशेषसंयुक्तामुपोष्यैकादशीं किल ।
[Header] 70 स्मृतिचन्द्रिकायां
संवत्सरकृतेनेह नरो धर्मेण मुच्यते ॥
दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥
ब्रह्मकैवर्ते -
दशमीशेषसंयुक्तां यः करोति विमूढधीः ।
एकादशीफलं तस्य न स्याद्द्वादशवार्षिकम् ॥
इति । एवञ्च यानि विद्धोपवासनिषेधपराणि तानि सर्वा-
ण्यरुणोदयवेधाभिप्रायाणीति मन्तव्यम् । अत एव भविष्य-
पुराणं -
अरुणोदयं यदा शुद्धं दशमीवेधवर्जितम् ।
सर्वदोषविनिर्मुक्तमुपोष्यं तद्दिनं स्मृतम् ॥
इति । यदा तु शुद्धमरुणोदयं वेधराहित्येन जानाति तदा
सर्वदोषरहितं तद्दिनमुपोष्यमित्यर्थः । एवञ्च यत्कैश्चिदुक्तं
‘यानि विद्धोपवासनिषेधपराणि तान्युदयादूर्ध्वविषयाणि’
इति, तदपास्तम् । अतो यत्र दशमीविद्धैकादशी द्वादश्यां
नास्ति तत्र द्वादश्यामुपोष्य त्रयोदश्यां पारणं कार्यमिति
सिद्धम् । यत्तु हारीतेनोक्तं-
त्रयोदश्यां यदा न स्याद्द्वादशी घटिकाद्वयम् ।
दशम्येकादशी विद्धा सैवोपोष्या सदा तिथिः ॥
यदपि ऋष्यशृङ्गेण-
पारणे न हि लभ्येत द्वादशी कलयाऽपि चेत् ।
[Header] श्राद्धकाण्ड एकादश ीयः 71
तदानीं दशमीविद्धा उपोष्यैकादशी तिथिः ॥
इति, यदपि विष्णुरहस्ये—
दशमीशेषसंयुक्ता उपोष्यैकादशी तथा ।
यदा न स्यात्त्रयोदश्यां मुहूर्तं द्वादशी तिथिः ॥
इति, एतत्सर्वमेकादशीदिनक्षयविषयम् । अत एव नारदः—
दशमीशेषसंयुक्ता नोपोष्यैकादशी तिथिः ।
एकादश्यां रात्रिशेषे द्वादशी चेन्न दृश्यते ॥
इति । यदैकादशीदिवसे क्षयो न भवति तदा दशमीविद्धा
नोपोष्येत्यर्थः । अनेनैकादशीदिनक्षये दशमीविद्धोपोष्येतेद-
र्थादुक्तं भवति । उक्तं च तेनैव—
यदि दैवात्तु संसिद्ध्येदेकादश्यां तिथित्रयम् ।
तत्र क्रतुशतं पुण्यं द्वादश्यां पारणं भवेत् ॥
कूर्मपुराणे—
द्विस्पृगेकादशी यत्र तत्र सन्निहितो हरिः ।
तामेवोपवसेत्काममकामो विष्णुतत्परः ॥
दशमीं द्वादशीं च या स्पृशति सा द्विस्पृक् । पुराणेऽपि—
दिनक्षयमृते देवि नोपोष्या दशमीयुता ।
सैवोपोष्या सदा पुण्या परतश्चेत्रयोदशी ॥
इति । यदैकादशीदिनक्षयः त्रयोदश्यां च न द्वादशी तदैव
दशमीविद्धोपोष्या नान्यथेत्यर्थः । अनेन यस्मिन् दिनक्षये
72 स्मृतिचन्द्रिकायां
त्रयोदश्यामपि द्वादशी तस्मिन्नैवोपवसेदित्यर्थादुक्तं भवति ।
अत एव व्यासः—
एकादशी यदा लुप्ता परतो द्वादशी भवेत् ।
उपोष्या द्वादशी तत्र यदीच्छेत्परमां गतिम् ॥
लुप्ता क्षयं गता । परतः त्रयोदश्यामित्यर्थः । यत्तु गोभि-
लेनोक्तं—
एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत् ।
तदा ह्येकादशीं त्यक्त्वा द्वादश्यामुपवासयेत् ॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ।
इति, यदपि पितामहेन—
एकादश्यां यदा वत्स दिनक्षयतिथिर्भवेत् ।
अत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् ॥
इति, तत् पुत्रवद्गृहिविषयं, तस्यैव दिनक्षयोपवासनिषेधात् ।
तथाच मत्स्यपुराणं—
दिनक्षयेऽर्कसङ्क्रान्त्यां ग्रहणे चन्द्रसूर्ययोः ।
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥
व्यासोपि—
एकादशीषु नष्टासु रविसङ्क्रमणेषु च ।
पारणं चोपवासं च न कुर्यात्पुत्रवान् गृही ॥
इति । पितामहोपि—
एकादशीदिनक्षय उपवासं करोति यः ।
73
तस्य पुत्रा विनश्यन्ति मघायां पिण्डदो यथा ॥
इति । एवञ्च यानि विद्धोपवासनिषेधपराणि तानि सर्वा-
ण्यैकादशीदिनक्षयव्यतिरिक्तविषयाणीति मन्तव्यम् । उक्तं च
पुराणे—
दिनक्षयमृते देवि नोपोष्या दशमीयुता ।
इति । अनेनैवाभिप्रायेण कूर्मपुराणेऽपि—
कलार्धेनापि विद्धा स्याद्दशम्यैकादशी यदा ।
तदा ह्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ॥
द्वादश्यामुपवासोऽत्र त्रयोदश्यां तु पारणम् ।
व्यासोऽपि—
दशमीमिश्रिता पूर्वा द्वादशी यदि लुप्यते ।
एकादश्यां महाप्राज्ञ उपवासः कथं भवेत् ॥
शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिः ।
पारणं तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥
स्कन्दपुराणेऽपि—
शुद्धं हरिदिनं न स्यात् द्वादशीं ग्राहयेत्ततः ।
द्वादश्यामुपवासोऽत्र त्रयोदश्यां तु पारणम् ॥
एवं कुर्वन्नरो भक्त्या विष्णुसायुज्यमाप्नुयात् ।
अन्यथा कुरुते यस्तु स याति नरकं ध्रुवम् ॥
इति । एवं वेधसन्देहेऽपि द्रष्टव्यम् । अत एव कूर्मपुराणं—
बहुवाक्यविरोधेन सन्देहो जायते यदा ।
SMRITI CHA.—Vol. V. 10
74 स्मृतिचन्द्रिकायां
द्वादशी तु तदा ग्राह्या त्रयोदश्यां तु पारणम् ॥
इति । एवञ्च यत्र दशमीविद्धैकादशी द्वादश्यां नास्ति द्वा-
दशी च त्रयोदश्यां, तत्र द्वादश्यामुपोष्य त्रयोदश्यां पारणं
कार्यमित्युक्तं भवति । अस्मिन्नेव विषये यदा द्वादश्याम-
प्येकादशी तदा द्वितीयैकादश्यामेवोपवासः । तथाच नारदः-
द्वादश्यैकादशी यत्र संगता त्रिदशाधिप ।
तामुपोष्य ततः कुर्यात्त्रयोदश्यां तु पारणम् ॥
इति । बोधायनोपि-
कलाऽप्येकादशी यत्र परतो द्वादशी न चेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
पुराणेऽपि-
द्वादशीमिश्रिता ग्राह्या सर्वत्रैकादशी तिथिः ।
द्वादशी च त्रयोदश्यां विद्यते यदि वा न वा ॥
इति । अस्मिन्विषये यदा त्रयोदश्यामपि द्वादशी तदा द्वि-
तीयैकादश्यामेवोपवासः । तथाच नारदीयपुराणं-
द्वादश्येकादशी यत्र द्वादशी परतोपि वा ।
द्वादशीपारणं कुर्यात्क्रतुकोटिफलं भवेत् ॥
पुराणेऽपि-
एकादशीकलायुक्ता येन द्वादश्युपोषिता ।
किं तस्य बहुभिर्यज्ञैरश्वमेधादिभिर्नृप ॥
एकादशी द्वादशी च तत्र संनिहितो हरिः ।
श्राद्धकाण्डे एकादशीद्वैधनिर्णयः 75
उपोष्य रजनीमेकां ब्रह्महत्यां व्यपोहति ॥
इति । अस्मिन्नेव विषये द्वादश्यामेकादशी नास्ति तदा
द्वादश्यामेवोपवासः । तथाच नारदीयपुराणं—
उपोष्या द्वादशी शुद्धा द्वादश्यामेव पारयेत् ।
निर्गता चेत्त्रयोदश्यां कला वा द्विकलाऽपि वा ॥
इति । द्वादशीदिनक्षये कूर्मपुराणे—
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
त्रिभिर्मिश्रा तिथिः कार्या सर्वपापहरा स्मृता ॥
उपवासः कृतस्तस्यां महापातकनाशनम् ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ।
स्कन्दपुराणेऽपि—
द्वादशीसंगता यत्र भवत्येकादशी तिथिः ।
दिनक्षयेऽपि सा पुण्या निरस्या न कथञ्चन * ॥
इति । यत्तु वृद्धशातातपेनोक्तं—
दशम्येकादशी विद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥
यदपि विष्णुधर्मोत्तरे—
एकादशी यदा विद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥
- न दशम्या कथञ्चन ॥ इति पाठान्तरम् ।
76 स्मृतिचन्द्रिकायां
इति, तत् पुत्रवद्गृहिविषयं, तस्यैव दिनक्षयोपवासनिषेधात् ।
तथाच मत्स्यपुराणं—
एकादशी द्वादशी च विशेषेण त्रयोदशी ।
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥
नन्वनेनोपवासो निषिध्यते न नक्तविधानम् । मैवं, निषिद्धस्यो-
पवासस्य वायुपुराणे नक्तविधानात् ।
उपवासनिषेधे तु भक्ष्यं किञ्चित्प्रकल्पयेत् ।
न दुष्यत्युपवासेन उपवासफलं लभेत् ॥
इति । भक्ष्यप्रकल्पनमपि तत्रैवानन्तरमुक्तं—
नक्तं हविष्यान्नमनोदनंवा यवास्तिलाः क्षीरमथाम्बुवाज्यम्
यत्पञ्चगव्यं यदि वाऽपि वायुः प्रशस्तमत्रोत्तरमुत्तरं च ॥
इति । एवञ्च यदुक्तं व्यासेन—
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम् ॥
इति, तत् पुत्रवद्गृहिविषयमित्यनुसन्धेयम् । ननु च यानि
त्रयोदशीपारणपराणि तेष्वेव ‘तत्र क्रतुशतं पुण्यम्’ इत्या-
दिफलश्रवणात्, तानि काम्योपवासाभिप्रायाणि, विद्धोपवा-
सविधिपराणि तु नित्योपवासविषयाणीति व्यवस्था किं न
स्यात् । मैवं,
यदि दैवात्तु संसिद्धयेदेकादश्यां तिथित्रयम् ।
तत्र क्रतुशतं पुण्यं द्वादशीपारणे कृते ॥
श्राद्धकाण्डे एकादशीद्वैधनिर्णयः 77
द्वादश्येकादशी यत्र द्वादशी परतोपि च ।
द्वादशीपारणं कुर्यात्क्रतुकोटिफलं भवेत् ॥
इति द्वादशीपारणेऽपि फलश्रवणाविशेषात् । किंच—
सर्वत्रैकादशी कार्या द्वादशीमिश्रिता नरैः ।
प्रातर्भवतु वा मा वा यतो नित्यं हि पारणम् ॥
पारणं तु त्रयोदश्यां निष्कामाणां विमुक्तिदम् ।
इत्यादिषु त्रयोदशीपारणस्यापि नित्यत्वश्रवणाच्च । अतो नेयं
फलश्रुतिः, अपित्वर्थवाद इति मन्तव्यम् । केचित्तु—
शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिः ।
पारणं तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥
इति वचनाद्यतीनामेव मोक्षकाङ्क्षित्वात्तद्विषयाण्येव शुद्धद्वाद-
श्युपवासविधिपराणि । विद्धोपवासविधिपराणि तु गृहस्थवि-
षयाण्येवेति व्यवस्थापयन्ति । तन्मन्दं, स्वर्गादिफलस्य भङ्गि-
त्वेन सर्वेषामपि मोक्षकाङ्क्षित्वाविशेषात् । किञ्च—
उपोष्या सर्वदा शुद्धा द्वादशी तु द्विजोत्तमैः ।
क्षत्रैर्वैश्यैस्तथा शूद्रैः किमन्यच्छ्रोतुमिच्छसि ॥
इति शुद्धद्वादश्युपवासे यतिव्यतिरिक्तानामप्यधिकारदर्शनात् ।
तथा—
एकादशी दिशा विद्धा परतो न निवर्तते ।
गृहिभिर्यतिभिश्चैव सैवोपोष्या सदा तिथिः ॥