सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 96, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 96

76 स्मृतिचन्द्रिकायां
इति, तत् पुत्रवद्गृहिविषयं, तस्यैव दिनक्षयोपवासनिषेधात् ।
तथाच मत्स्यपुराणं—
एकादशी द्वादशी च विशेषेण त्रयोदशी ।
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥
नन्वनेनोपवासो निषिध्यते न नक्तविधानम् । मैवं, निषिद्धस्यो-
पवासस्य वायुपुराणे नक्तविधानात् ।
उपवासनिषेधे तु भक्ष्यं किञ्चित्प्रकल्पयेत् ।
न दुष्यत्युपवासेन उपवासफलं लभेत् ॥
इति । भक्ष्यप्रकल्पनमपि तत्रैवानन्तरमुक्तं—
नक्तं हविष्यान्नमनोदनंवा यवास्तिलाः क्षीरमथाम्बुवाज्यम्
यत्पञ्चगव्यं यदि वाऽपि वायुः प्रशस्तमत्रोत्तरमुत्तरं च ॥
इति । एवञ्च यदुक्तं व्यासेन—
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम् ॥
इति, तत् पुत्रवद्गृहिविषयमित्यनुसन्धेयम् । ननु च यानि
त्रयोदशीपारणपराणि तेष्वेव ‘तत्र क्रतुशतं पुण्यम्’ इत्या-
दिफलश्रवणात्, तानि काम्योपवासाभिप्रायाणि, विद्धोपवा-
सविधिपराणि तु नित्योपवासविषयाणीति व्यवस्था किं न
स्यात् । मैवं,
यदि दैवात्तु संसिद्धयेदेकादश्यां तिथित्रयम् ।
तत्र क्रतुशतं पुण्यं द्वादशीपारणे कृते ॥