सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 93, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 93

73
तस्य पुत्रा विनश्यन्ति मघायां पिण्डदो यथा ॥
इति । एवञ्च यानि विद्धोपवासनिषेधपराणि तानि सर्वा-
ण्यैकादशीदिनक्षयव्यतिरिक्तविषयाणीति मन्तव्यम् । उक्तं च
पुराणे—
दिनक्षयमृते देवि नोपोष्या दशमीयुता ।
इति । अनेनैवाभिप्रायेण कूर्मपुराणेऽपि—
कलार्धेनापि विद्धा स्याद्दशम्यैकादशी यदा ।
तदा ह्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ॥
द्वादश्यामुपवासोऽत्र त्रयोदश्यां तु पारणम् ।
व्यासोऽपि—
दशमीमिश्रिता पूर्वा द्वादशी यदि लुप्यते ।
एकादश्यां महाप्राज्ञ उपवासः कथं भवेत् ॥
शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिः ।
पारणं तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥
स्कन्दपुराणेऽपि—
शुद्धं हरिदिनं न स्यात् द्वादशीं ग्राहयेत्ततः ।
द्वादश्यामुपवासोऽत्र त्रयोदश्यां तु पारणम् ॥
एवं कुर्वन्नरो भक्त्या विष्णुसायुज्यमाप्नुयात् ।
अन्यथा कुरुते यस्तु स याति नरकं ध्रुवम् ॥
इति । एवं वेधसन्देहेऽपि द्रष्टव्यम् । अत एव कूर्मपुराणं—
बहुवाक्यविरोधेन सन्देहो जायते यदा ।
SMRITI CHA.—Vol. V. 10