सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 95, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 95

श्राद्धकाण्डे एकादशीद्वैधनिर्णयः 75
उपोष्य रजनीमेकां ब्रह्महत्यां व्यपोहति ॥
इति । अस्मिन्नेव विषये द्वादश्यामेकादशी नास्ति तदा
द्वादश्यामेवोपवासः । तथाच नारदीयपुराणं—
उपोष्या द्वादशी शुद्धा द्वादश्यामेव पारयेत् ।
निर्गता चेत्त्रयोदश्यां कला वा द्विकलाऽपि वा ॥
इति । द्वादशीदिनक्षये कूर्मपुराणे—
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
त्रिभिर्मिश्रा तिथिः कार्या सर्वपापहरा स्मृता ॥
उपवासः कृतस्तस्यां महापातकनाशनम् ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ।
स्कन्दपुराणेऽपि—
द्वादशीसंगता यत्र भवत्येकादशी तिथिः ।
दिनक्षयेऽपि सा पुण्या निरस्या न कथञ्चन * ॥
इति । यत्तु वृद्धशातातपेनोक्तं—
दशम्येकादशी विद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥
यदपि विष्णुधर्मोत्तरे—
एकादशी यदा विद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥

  • न दशम्या कथञ्चन ॥ इति पाठान्तरम् ।