स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
तेनापि पितृसेवितं मधुमांसपायसादिकं भक्षयितव्यम् । कृतेऽपि
भक्षणे वैधत्वेन व्रतभङ्गाभावात् । तथाच बृहस्पतिः—
दैवे नियुक्तः श्राद्धे वा नियमं न विसर्जयेत् ।
निषिद्धं कुर्वतां दोषस्तद्वद्वैधमकुर्वताम् ॥
मांसाशनस्य वैधत्वान्न व्रतच्युतिरश्नताम् ।
इति ।
नियमं ‘परिविष्टं भुञ्जीरंस्तेऽपि वाग्यताः’ इति स्मृत्युक्तम् ।
नियुक्तग्रहणं श्राद्धकर्तुरपि प्रदर्शनार्थं, वैधमकुर्वतां दोषहेतो-
रुभयत्र समानत्वात् । यत्तु स्मृत्यन्तरं—
मधुमांसनिवृत्तानां श्राद्धकर्माणि कुर्वताम् ।
पात्रस्थगन्धमाघ्राय पितृणामनृणो भवेत् ॥
इति, तत् महाजनपरिग्रहाभावेन मूलप्रमाणानुमापकत्वादुपेक्ष-
णीयम् । केषांचित्परिग्रहेणापि समूलत्वे वानप्रस्थयतिब्रह्मचा-
रिविषयत्वात् न बार्हस्पत्यवचनविरोधः । यतश्चोभयथा विरोध-
परिहारसमर्थनं देवस्वामिना कृतम् । एवमेव पशुयागादा-
वपि न मांसभक्षणे व्रत
412 स्मृतिचन्द्रिकायां
पीडितः । निगमोप्यनुज्ञापक्ष एव पितृसेवितभोजननियम
इत्याह—'अनुज्ञातो गृह्यान् बालवृद्धांश्च परितोष्य भुञ्जीत'
इति । गृह्यान् गृहे स्वानुज्ञया वर्तमानान् । चशब्दो भगि-
न्यादेः परिग्रहार्थः । अत एवादिपुराणम्—
भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैव हि ।
दारिद्र्योपहता दीनाः भिन्नाङ्गाश्चाधिकाङ्गुळिः ॥
वृद्धाजातविरक्ताश्च व्याधिभारप्रपीडिताः ।
एते भोजनमर्हन्ति भोक्तुस्सर्वत्र सर्वदा ॥
वन्दिमागधसूताश्च तौर्यत्रिकविदस्तथा ।
अलब्धलाभाः श्राद्धेषु नाशयन्ति महद्यशः ॥
तस्मात्तेऽपि विभक्तव्याः स्वकळत्रं विभज्यता ।
इति । भोक्तुः सम्पन्नस्य गृहे इति शेषः । कळत्रग्रहणं पुत्रा-
देरपि प्रदर्शनार्थम् । अत एव बृहस्पतिः—
एवं देवान् पितॄंश्चैव तर्पयित्वा द्विजोत्तमः ।
पुत्रमित्रादिसहितो गृहस्थो भोक्तुमर्हति ॥
इति । दातृभोक्त्रोर्द्वयोरपि नियमान्तरमाह स एव—
तां निशां ब्रह्मचारी स्याच्छाद्धभुक्छाद्धकृत्सह ।
अन्यथा वर्तमानौ तु स्यातां निरयगामिनौ ॥
मत्स्यपुराणेऽपि—
पुनर्भोजनमध्वानं यानमायासमैथुनम् ।
श्राद्धकृच्छाद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥
413
स्वाध्यायं कलहं चैव दिवास्वापं तथेच्छया ।
इति । श्राद्धभोक्तारं प्रत्याह यमः—
पुनर्भाजनमध्वानं भाराध्ययनमैथुनम् ।
सन्ध्यां प्रतिग्रहं होमं श्राद्धभुक्त्वाष्ट वर्जयेत् ॥
होमं स्वयं न कुर्यात्तु अन्यमेव तु कारयेत् ।
यथाऽऽह कात्यायनः—
सूतके च प्रवासे च अशक्तौ श्राद्धभोजने ।
एवमादिनिमित्तेषु याजयेन्न तु हापयेत् ॥
इति । हावयेदिति यद्गोभिलादिभिरप्युक्तं तदेवमादिनिमित्तेषु
याजयेदित्यर्थः । होतुरन्यस्यालाभे भविष्यपुराणेऽभिहितं—
दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुग्द्विजः ।
ततस्सन्ध्यामुपासीत जपेच्च जुहुयादपि ॥
अन्येऽपि भोक्तृनियमाः निमन्त्रणप्रकरणोक्ताः इहाप्यनुसन्धे-
याः । एवं श्राद्धं कुर्वतः फलमाह हारीतः—
कृत्वाऽनेन विधानेन चतुरो लभते वरान् ।
धनमन्नं सुतानायुर्ददते पितरो भुवि ॥
याज्ञवल्क्योपि—
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ इति ॥
इति स्मृतिचन्द्रिकायां पिण्डप्रतिपत्त्यादिविषयाणि
समाप्तं च पार्वणश्राद्धविधानं
अथ यथाशक्ति पार्वणानुष्ठानविधिः.
तत्र शातातपः—
यथाकथञ्चिन्नित्यानि कुर्यादिन्दुक्षयादिषु ।
पात्रद्रव्यादिसम्पत्सु सर्वकामफलं लभेत् ॥
अमावास्यादिकालेषु चोदितानि नित्याधिकाराणि पार्वणश्राद्धा-
दीनि पात्रद्रव्यादिसम्पत्त्यलाभेऽपि यथाकथञ्चित् कुर्यात् यथा-
शक्ति कुर्यादिति पूर्वार्धस्यार्थः । तत्र पात्रासम्पत्तौ देवलेनोक्तं-
एकेनापि च विप्रेण षट्पिण्डं श्राद्धमाचरेत् ।
षडर्घ्यान् दापयेत्तस्मै षड्भ्यो दद्यात्तथाऽऽसनम् ॥
पिता भुङ्क्ते द्विजकरे मुखे भुङ्क्ते पितामहः ।
प्रपितामहस्तु तालौ च कण्ठे मातामहस्स्मृतः ॥
प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ।
इति । वृद्धः प्रमातामहस्य पिता । अत्र वसिष्ठः—
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा ततश्श्राद्धं प्रवर्तयेत् ।
प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ॥
इति । देवतायतनं वैश्वदैविकब्राह्मणोपवेशनस्थानम् । तत्र
ब्राह्मणार्चनात्पूर्वं स्थण्डिले विश्वान् देवानावाह्यासनकल्पना-
दिधूपदीपाच्छादनान्तमाराधनं कृत्वा पश्चात् पित्रर्थमुपविष्टं
ब्राह्मणमभ्यर्च्य अन्नपरिवेषणकाले प्रकृतस्य श्राद्धार्थं सम्पा-
दितस्य सर्वस्य सम्बन्धि किञ्चिदन्नं पात्रे समुद्धृत्याभिघा-
र्याराधितस्थाने पुरतो निधायान्नत्यागकाले पूर्वमेतदन्नं विश्वान्
देवानुद्दिश्य त्यक्त्वाऽनन्तरं श्राद्धं प्रवर्तयेत् । पितॄनुद्दिश्य
ब्राह्मणस्य पुरतः परिविष्टमन्नं त्यजेदित्यर्थः । एकस्यापि ब्राह्म-
णस्यालाभे देवलेनोक्तं—
पात्राभावे परं कृत्वा पितृयज्ञविधिं नरः ।
निर्दिश्याप्यन्नमुद्धृत्य यत्र पात्रं ततो गतिः ॥
निधाय वा दर्भवटूनासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥
पात्राभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वा ।
न तु प्राप्तस्य लोपोस्ति पैतृकस्य विशेषतः ॥
अस्यार्थः—पात्राभावेऽनुकल्पतयोक्तविप्रस्याभावे पितृयज्ञविधिं
पिण्डपितृयज्ञधर्मकमग्नौकरणं परं केलवं कृत्वा अवावास्याया-
मन्नं भाजनादावुद्धृत्य निर्दिश्य चतुर्थ्यन्तशब्देन देवान् पितॄ-
नुद्दिश्य उद्धृतमन्नं त्यक्त्वा यत्रात्यन्तानतिदूरे पात्रलक्षणान्वितो
विप्रोस्ति, तत्र नीत्वा तस्मै तदन्नं समर्पयेत् । यद्वा—पितृ-
यज्ञधर्मकमग्नौकरणं कृत्वा दर्भवटून कुशमयान् विप्रप्रतिनि-
धीन् वटूनसन्तालपपरिमाणानासनेषु संस्थाप्य देवे क्षणः
क्रियतां श्राद्धे क्षणः क्रियतामित्यादिप्रैषसंयुक्तमों तथेत्याद्यनु-
प्रैषसंयुक्तं कृत्स्नं श्राद्धविधानं कृत्वा देवपित्रर्थं त्यक्तमन्नं
पूर्ववत्पात्रलणयुक्ताविप्रेभ्यः प्रतिपादयेत्समर्पयेत् । अतिदूरस्थे
416
तु पात्रे पक्षद्वयेऽपि त्यक्तमन्नमग्नौ क्षिपेत् । अथवा गवे भक्ष-
णार्थं प्रयच्छेत् । नद्याद्युदके वा क्षिपेत् । न तु पात्राभाव-
मात्रेण कर्मणो लोपः कार्य इति । पक्वद्रव्यसम्पादनास-
म्भवे तु सुमन्तुः—
पाकाभावेऽधिकारस्स्याद्विप्रादीनां नराधिप ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ।
आत्मनो देशकालाभ्यां विषमे समुपगते ॥
आपद्यनग्नौ तीर्थे च प्रवासे पत्न्यसम्भवे ।
चन्द्रसूर्यग्रहे चैव दद्यादामं विशेषतः ॥
इति । विप्रादीनां त्रैवर्णिकादीनां पत्नीरहितानां विदेशगमना-
दिभिश्च कारणैः पाकसम्पादनासम्भवे आमश्राद्धे अधिकारः
स्यात् । चन्द्रसूर्यग्रहेऽपि यस्य पाकासम्भवः स आमं दद्यात् ।
यस्य वा भोक्तुर्ब्राह्मणस्यालाभः सोप्यामं दद्यात् । शूद्रस्तु
सर्वश्राद्धेषु पार्वणविधानेनाममेव दद्यात् । तथाच मार्कण्डेयः—
सर्वं श्राद्धं तथा कार्यं शूद्रेणाप्येवमेव तु ।
मन्त्रवर्जं तु शूद्रस्य सर्वमेवं विधीयते ।
एवमेव पार्वणविधिनैव । तथाच प्रचेताः—
स्त्री शूद्रस्स्वपचश्चैव जातकर्मणि चाप्यथ ।
आमश्राद्धं तदा कुर्याद्विधिना पार्वणेन तु ॥
स्वयं पचतीति स्वपचः । वायुपुराणे—
न पक्वं भोजयेद्विप्रान् सच्छूद्रोपि कदाचन ।
भोजयेच्चश्नतां पापं तस्यापि प्रभवेत्सताम् ॥
सतां शूद्रान्नभोजने भोक्तॄणां शूद्रस्य च पापं भवेत् । कः
पुनस्सच्छूद्र इत्यपेक्षिते व्याघ्रः—
संस्कृतायां तु शूद्रायां ब्रह्मवीर्यसमुद्भवः ।
स्वकर्मनिरतश्चैव सच्छूद्रः संप्रकीर्तितः ॥
उशनसा तु लब्धक्रीतादिपक्वान्नसद्भावेऽप्यामश्राद्धमेव द्विजैः
कार्यमित्युक्तं—
अपत्नीकः प्रवासी च यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते ॥
सिद्धान्नेन कार्यान्तरार्थं यथाकथाञ्चित्सिद्धान्नेन । अपत्नीका-
दिग्रहणं पाकसामग्र्यादिरहितपुरुषोपलक्षणार्थम् । अत एव
जमदग्निः—
न भवेद्यस्य सामग्री दारा वा गृहमेव वा ।
आमश्राद्धं प्रकुर्वीत वृद्धो बालश्च यो भवेत् ॥
पाकसामग्रीसद्भावे कस्यचिदामश्राद्धं कर्तव्यमित्याह स एव—
यावत्स्यान्नाग्निसंयुक्तः उत्सन्नाग्निरथापि वा ।
आमश्राद्धं तदा कुर्यादृतेऽग्नौकरणं भवेत् ॥
पक्वेन श्राद्धं क्वचिदावश्यकमित्याह हारीतः—
श्राद्धविघ्ने द्विजातीनामा मश्राद्धं प्रकीर्तितम् ।
अमावास्याद्यनियतं माससंवत्सराहते ॥
SMRITI CHA.—Vol. V. 53
अनेन मासिकमाब्दिकं च श्राद्धमवश्यं पक्वान्नेन कार्यमिति
वचोभङ्ग्योक्तमिति मन्तव्यम् । यत्पुनर्जमदग्निनोक्तं—
श्राद्धज्ञः श्रद्धया श्राद्धं श्राद्धकाले यथाविधि ।
पक्वेन वाऽश्रितेनापि नूनं कुर्यात्पितुस्सुतः ॥
इति, तत् मासिके सांवत्सरिकेऽपि सर्वथा पक्वान्नासिद्धौ आ-
मद्रव्यविधानार्थमिति न पूर्वोक्तजमदग्निवचनेन गतार्थम् ।
आमश्राद्धे विशेषमाह व्यासः—
आमं तदनु कौन्तेय दद्यादन्नं चतुर्गुणम् ।
सिद्धान्ने तु विधिर्यस्स्यादामश्राद्धेऽप्यसौ विधिः ॥
आवाहनादि सर्वं स्यात्पिण्डदानं च भारत ।
दद्याच्च द्विजातिभ्यः शृतं वाऽशृतमेव वा ॥
तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ।
अन्नमामरूपं पुरुषापेक्षया चतुर्गुणं दद्यादित्यर्थः । अग्नौकर-
णमत्र पाणावेव,
आमश्राद्धं यदा कुर्याद्द्विजः श्राद्धदस्तदा ।
हस्तेऽग्नौकरणं कुर्याद्ब्राह्मणस्स्वविधानतः ॥
इति तेनैवोक्तत्वात् । षट्त्रिंशन्मतेऽपि—
आमश्राद्धं यदा कुर्यात्पिण्डदानं कथं भवेत् ।
गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा ॥
इति । पिण्डदानं भवेदिति शेषः । आमद्रव्यगृहपाकस्क्तु-
पायसेषु यथालाभं व्यवस्था । एतच्चामश्राद्धं पूर्वाह्ने कार्यं,
श्राद्धकाण्ड यथाशक्तिपार्वणानुष्ठानाविधिः 419
'आमश्राद्धं तु पूर्वाह्ने' इति शातातपस्मरणात् । यत्तु तेनै-
वोक्तं—
मध्याह्नात्परतो यत्तु कुतपस्समुदाहृतः ।
आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् ॥
इति, तत् श्राद्धकर्तुः आमश्राद्धविषयमित्यपरार्केण साधितम् ।
आमद्रव्यासंभवे तु व्यासेनोक्तं—
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥
अत्राप्यामश्राद्धविशेषो यथासम्भवमनुसन्धेयः । आमश्राद्धे
हेमश्राद्धे च भोजनप्रयुक्तापोशनकर्मादीनां 'यथासुखं जुष-
ध्वं तृप्तास्स्थ' इत्यादीनां च द्वारकार्यलोपान्निवृत्तिरवगन्त-
व्या । केषु चिन्मन्त्रेषूहोप्येवमवगन्तव्यः । तथाच मरीचिः—
आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने ।
अन्नकर्मण्यनूह्यास्स्युरामश्राद्धविधिः स्मृतः ॥
आवाहने आवाहनमन्त्रे । 'पितॄन् हविषे अत्तवे' इत्यत्र
अत्तव इति पदस्थाने स्वीकर्तव्य इत्यूहः कार्यः । स्वधाकारे
'नमो वः पितर इषे' इत्यादिमन्त्रे इष इति पदस्थाने आम
द्रव्यायेत्यूहः कर्तव्यः । विसर्जने विप्रविसर्जनमन्त्रे 'वाजे-
वाजे' इत्यादिके तृप्ता इति पदस्थाने उहृत्य आमेन
तर्पयन्त इत्यूहः कार्यः । अन्नकर्मणि ब्राह्मणाङ्गुष्ठनिवेशनादौ
'विष्णो हव्यं रक्षस्व' इत्यादयो मन्त्रा अनूह्यास्स्युः ।
420
आमश्राद्धविधिस्स्मृतः इत्यामश्राद्धग्रहणं हेमश्राद्धोपलक्षणार्थम् ।
हेमद्रव्यालाभेऽपि स्मृत्यन्तरोक्तं—
तृणानि वा गवे दद्यात्पिण्डान्वाऽथापि निर्वपेत् ।
तिलोदकैः पितॄन्वाऽथ तर्पयेत्स्नानपूर्वकम् ॥
अग्निना वादहेत्कक्षं श्राद्धकाले समागते ।
तस्मिंश्चोपवसेदह्नि जपेद्वा श्राद्धसंहिताम् ॥
इति । अत्रापि यथासम्भवं व्यवस्था । अङ्गसम्पादनास-
म्भवेऽपि स्मृत्यन्तरोक्तं—
अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचयेद्विप्रान् सकला सिद्धिरस्त्विति ॥
पितृयज्ञस्य श्राद्धस्य सकला सिद्धिः सकलाङ्गसिद्धिरस्त्विति
भवन्तो ब्रुवन्तु इति प्रार्थनेति । निमन्त्रितान् विप्रान् स-
कलाङ्गसिद्धिरस्य श्राद्धस्यास्त्विति वाचयेदित्यर्थः—विस्मृत *
पार्वणानुष्ठानासम्भवे तु व्यासेनोक्तं—
सक्ताग्नेः पार्वणं नैव नैकोद्दिष्टं सपिण्डनम् ।
अत्यक्ताग्नेस्तु पिण्डोक्तिस्तस्मात्सङ्कल्प्य भोजयेत् ॥
अयमर्थः—त्यक्ताग्नेरविधिनोत्सृष्टाग्नेः पार्वणैकोद्दिष्टसपिण्डीक-
रणात्मकश्राद्धकर्मणि नैवाधिकारः । पिण्डोक्तिः श्राद्धं क-
र्त्तव्यमित्युक्तिः असक्ताग्नेः त्यक्ताग्निव्यतिरिक्तस्यैव अस-
- विस्तृत.
श्राद्धकाण्ड 421
क्ताग्नेरेव श्राद्धाधिकार इति यावत् । तस्मात्त्यक्ताग्निरेव सङ्क-
ल्प्य भोजयेत् । सङ्कल्पविधानेन श्राद्धं कुर्यादिति ॥
सङ्कल्पविधानस्य पार्वणविधानात्को भेद इत्यपेक्षिते स
एवाह—
सङ्कल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
नावाहिनाग्नौकरणं पिण्डांश्चैव न दापयेत् ॥
पात्रपूरणमर्घ्यदानम् । आवाहनस्य समन्त्रकस्य निषेधः, न-
त्वावाहनमात्रस्य * तदभावे देवपितृसान्निध्याभावात् । ततश्चा-
वाहनमन्त्रमनुक्त्वैव पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान्
आवाहयामीत्येतावन्मात्रमुक्त्वा देवावाहनं कार्यम् । पित्रा-
द्यावाहनेऽप्येवमेव । पिण्डांश्चैवेत्यत्र चैवशब्देन उच्छिष्टपिण्ड-
स्यापि निषेधः । अत एव स्मृत्यन्तरे—
सङ्कल्पं तु यदा श्राद्धं न कुर्यात्पात्रपूरणम् ।
विकिरं च न दातव्यम्
इति स्पष्टमुक्तम् ।
एवमनुकल्पानुष्ठानेऽपि शाठ्याभावे सति मुख्यकल्पानुष्ठान-
फलं भवति । तथा च स्मृत्यन्तरं—
श्राद्धानुकल्पं यः कुर्याज्जात्यवस्थाद्यपेक्षया ।
श्राद्धांशे सर्वमाप्नोति मुख्यकल्पफलं नरः ॥
इति । श्राद्धांशे श्राद्धप्रधानांशे ब्राह्मणभोजनमात्रे पिण्डप्रदा-
- स्वरूपस्य.
'नमात्रेऽपि वा कृते, अङ्गांशे यथाशक्ति कतिपयानुष्ठानेऽपि कृत
इत्यर्थः ॥
इति स्मृतिचन्द्रिकायां यथाशक्तिपार्वणानुष्ठानविधिः.
एवं प्रतिमासं कर्तव्यं पार्वणश्राद्धमुक्तम्.
अथ प्रतिसंवत्सरं कर्तव्यं सांवत्सरिकश्राद्धमुच्यते । अत्र
लोकाक्षिः—
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृकस्स्वयम् ।
इन्दुक्षये मासिमासि वृद्धौ प्रत्यब्दमेव च ॥
स्वयंग्रहणमादरार्थं न पुनः पुत्रशिष्यर्त्विगादिनिवृत्त्यर्थम् ।
यजमानस्य पितः असावेतत्ते तत इत्यन्यकर्तृकपिण्डनिर्व-
पणदर्शनात् । असावेतत्ते तत इति मन्त्रेण यजमानस्य पित्रे
ऋत्विगादिः पिण्डान् दद्यादिति । तत्रामुकगोत्रामुकशर्मन्ने-
तत्ते तत इति मन्त्रमुक्त्वाऽमुकगोत्रायामुकशर्मणे यजमानस्य
पित्रे असावेतत्ते, इत्ययं पिण्डो न यजमानयजमानस्य ।
स्मृत्यन्तरे यजमानस्येत्युक्त्वा बर्हिषि पिण्डस्थापनमिति वि-
शेषोऽवगन्तव्यः । एतच्चान्यकर्तृकत्वं यजमानस्यासामर्थ्ये
गुरुतरकार्यान्तरव्यग्रत्वेन कालातिपत्तिविषये वा द्रष्टव्यम् । प्र-
त्यब्दं श्राद्धं कथं कर्तव्यमित्यपेक्षिते जातूकर्णः—
पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः ।
प्रत्यब्दं प्रतिमासं च विधिर्ज्ञेयस्सनातनः ॥
वत्सारकश्राद्ध
पितृगणस्थः सपिण्डितः तस्य प्रत्यब्दं प्रतिमासं च पार्वण-
वदाब्दिकं मासिकं च श्राद्धं सुतो मृताहे कुर्यादित्यर्थः ।
एतदुक्तं भवति—यथा अमावास्याश्राद्धे अर्घ्यदानादौ पितृ-
पितामहप्रपितामहानां त्रयाणामुद्देशः तथा पितुराब्दिकश्रा-
द्धेऽपि त्रयाणामुद्देशः कार्यः । इति ।
दर्शवत्स्यात् त्रयोद्देशः सपिण्डीकरणे कृते । इति । प्रति-
मासं चेति तावत्—
'तान्येवतु पुनः कुर्यात्' इति वचनात् सपिण्डीकरणा-
दूर्ध्वमपि प्रथमसंवत्सरे क्रियमाणानुमासिकेषु पार्वणवत्त्रिदे-
वताकं कुर्यादिति विधानार्थमुक्तमिति मन्तव्यम् । न च वाच्यं-
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
इति वचनात्पितृमृतामहे मातामहादीनामपि श्राद्धं कार्यमिति ।
यदाह पारस्करः—
पितुर्गतस्य देवत्वमौरसस्य त्रिपूरुषम् ।
इति । देवत्वं गतस्य सपिण्डीकरणेन पितृत्वं प्राप्तस्य ।
त्रिपूरुषग्रहणं षट्पुरुषनिवृत्त्यर्थं । तेन मृताहे मातामहश्राद्धं
न कार्यम् । कात्यायनोपि—
कर्षूसमन्वितं मुक्त्वा . तदाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकमशेषेषु* पिण्डास्स्युषदिति स्थितिः ॥
इति । कर्षूसमन्वितं सपिण्डीकरणम् । अनेनार्थात्कर्षूसमन्वि-
- प्रत्याब्दिकं च शेषेषु.
तादिषु मातामहश्राद्धं न विद्यत इत्युक्तम् । सङ्ग्रहकारस्तु—
पितृमृताहे मातामहादिश्राद्धं न कार्यमिति न्यायेनैवोपपा-
दयति—
याज्ञवल्क्येन कालस्तु अमावास्यादिनोदितः ।
अविशेषेण पित्र्यस्य तथा मातामहस्य च ॥
युगपच्च स विज्ञेयो वचनाद्वक्ष्यमाणकात् ।
कालभेदेन तन्त्रं स्याद्देशभेदेन चैव हि ॥
तस्मात्तन्त्रविधानात्तु यौगपद्यं प्रतीयते ।
अमावास्यादिकालेषु तद्ज्ञेयं न मृतेऽहनि ॥
अमावास्यादिकालेषु कालैकत्वात्सहक्रिया ।
मृताहनि तु तद्भेदान्न युज्येत सहक्रिया ॥ इति ॥
प्रथमश्लोकस्यायमर्थः—अमावास्यादिना
‘अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम्’
इत्यादिवचनेन श्राद्धकालः अविशेषेण सामान्येन पित्र्यस्य
पितृश्राद्धस्य मातामहसम्बन्धिश्राद्धस्य च याज्ञवल्क्येनोदित
इति ।
युगपच्च स विज्ञेय इति पादस्यायमर्थः—स याज्ञवल्क्येनो-
दितः कालः पिण्डपितृयज्ञदर्शश्राद्धयोरिव न भागक्रमेण ।
किन्तु पितृश्राद्धमातामहश्राद्धयोर्युपदेकदा भागक्रममन्तरेणैव
ज्ञेय इति । ननु—कालविधायके पूर्वोक्तवचने युगपदादि-
पदाभावात्कथमेवमवगतिरित्याशङ्क्योक्तम्—वचनाद्वक्ष्यमाणका
425
दिति । तस्यायमर्थः—यद्यपि न कालविधायकात्पूर्वोक्तवचना-
देवमवगतिः तथाऽपि—
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ।
इत्यस्मिन्नेव श्राद्धप्रकरणे वक्ष्यमाणाद्वचनादेवमवगतिर्भविष्यती-
ति । नन्वस्मादपि वचनात्कथं यौगपद्यावगतिरित्याशङ्क्य काल-
भेदेनेत्यादिना समर्थयते स्पष्टार्थोऽयं श्लोक इति । एवञ्च—यत्र
पैतृकस्य मातामहश्राद्धस्य चामावास्यादिकाले यौगपद्यं प्रतीत॑
तत्रैवानयोः समानतन्त्रत्वं न पुनर्मृताह इत्याह—
अमावास्यादिकालेषु तत् ज्ञेयं न मृतेऽहनि ।
इति । मृतेऽहनि यौगपद्यस्याप्रतीतेरित्यभिप्रायः । कथं पुन-
र्यौगपद्यस्याप्रतीतिर्मृताह इत्याशङ्क्याह—अमावास्यादिकाले-
ष्वित्यादि । तस्यायमर्थः—अमावास्यादिकालेषु पैतृकमातामह-
श्राद्धयोरविशेषेण प्राप्तयोः कालैकत्वादेकस्मिन्नेव कालभागे
कर्तव्यत्वावगमात्समानतन्त्रता युज्यते । मृताहे तु प्रतिपुरु-
षमायुःप्रमाणभेदात्पितृमातामहयोर्भिन्नकालत्वान्मातामहश्राद्धस्य
पितृमृताहो न काल इति, तदङ्गरूपकालैक्यस्य दूरोत्सारितत्वा-
त्तन्निबन्धनानयोस्समानतन्त्रताऽत्यन्तं न युज्यत इति । अनेनैव
न्यायेन मात्रादिश्राद्धस्यापि पितृमृताहो न काल इति, तत्र
तस्य प्राप्त्यभावात् । पितृमृताहे केवलपितृपितामहप्रपितामहा-
नामेव देवतात्वं, न पुनस्सपत्नीकानामिति मन्तव्यम्। यद्यप्यनेनैव
न्यायेन पितृमृताहः पितामहश्राद्धस्यापि न कालः, मातृमृताहश्च
SMRITI CHA.—Vol V. 54
पितामह्यादिश्राद्धस्य न कालः, तथाऽपि पार्वणवदिति वचनात्
पितामहप्रपितामहयोरपि पितृमृताहे, पितामहीप्रपितामह्योरपि
मातृमृताहे देवतात्वं न तु न्यायत इति सर्वमनवद्यम् । यदा पितु-
स्सांवत्सरिकश्राद्धकालः, मातुस्सांवत्सरिकश्राद्धकालश्च दैवा-
देको जातः तदाऽपि न सपत्नीकं पितृसांवत्सरिकश्राद्धम् ।
किन्तु, मातापित्रोर्मरणपौर्वापर्यानुसारिक्रमेण तयोः सांवत्सरिक-
श्राद्धद्वयं विप्रनिमन्त्रणादितद्विसर्जनान्तं पृथगेव कार्यम् । यदा
तु मातापित्रोर्युगपन्मरणे पौर्वापर्यमज्ञातं, तदा पूर्वं पितुस्सां-
वत्सरिकं कृत्वा पश्चान्मातुस्सांवत्सरिकश्राद्धं कार्यं पितुर्मुख्य-
त्वात् । एवम्भूतविषये भ्रात्रादिसांवत्सरिकश्राद्धदिनैक्ये श्रा-
द्धमनेकं ज्येष्ठादिक्रमेण पृथगेव कार्यम् । यत्तु प्रचेतसोक्तं—
नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित् ।
इति, तदेकस्मिन्नेव श्राद्धे पुनःपुनः श्राद्धं न कुर्यादित्येवंपरम् ।
तेन नानानिमित्तकानेकश्राद्धमेकस्मिन्नहनि कुर्वतो न प्रचेतसो
वचनविरोधः । यत्तु लौकाक्षिणोक्तं—
मृतेऽहनि समासेन पिण्डनिर्वपणं पृथक् ।
नवश्राद्धं च दम्पत्योरन्वारोहण एव तु ॥
इति, अनेनापि न मृताहे सपत्नीकं श्राद्धमुक्तं* येन पूर्वोक्तविरोध
स्यात् । किं तर्ह्यनेनोक्तं ? उच्यते-दम्पत्योर्मृताहैक्ये समासेन सं-
क्षेपेण पिण्डनिर्वपणं यथा द्वैपितृकश्राद्धे एकस्मिन्पिण्डे द्वयोः पि-
- पिण्डमुक्तं.
त्रोरमुकनाम्ने अमुकनाम्ने च इत्युद्दिश्यैक एव पिण्डो दीयते
तथेहाप्येकस्मिन् पिण्डे द्वयोर्मातापित्रोरमुकायामुकायै चेत्युद्देशं
कृत्वा एक एव पिण्डो देयः । ब्राह्मणाश्चायुग्माः पिण्डदा-
नवदेव द्वावेवोद्दिश्य भोजयितव्याः । पिण्डनिर्वपणग्रहणस्य
श्राद्धोपलक्षणपरत्वात् । एवं चैतच्छ्राद्धमनेकोद्देश्यसाहित्यरूप*
चोदनालिङ्गात्पार्वणधर्मकं तन्त्रेण कार्यम् । नवश्राद्धं तु
दम्पत्योः पृथक्कार्यम् । ततश्चैकोद्दिष्टरूपं श्राद्धद्वयं प्राग्द्वादशा-
हान्नवश्राद्धदिनेषु पितुर्मातुश्च कार्यम् । एवमुक्तविधं सांवत्स-
रिकश्राद्धं नवश्राद्धं चैकचित्यामन्वारोहणे मात्रा कृते कर्तव्यम् ।
नान्यत्रेत्यवधारयितुमन्वारोहण एवेत्युक्तम् । यत्तु स्मृत्यन्तरं—
एकचित्यां समारूढौ दम्पती निधनं गतौ ।
पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक् ॥
इति, ओदनं ओदनपिण्डः तदेतन्नवश्राद्धमात्रविषये योजयेत् ।
प्रत्यब्दं तद्येषामेकोद्दिष्टविधानेनैव मासिकमाब्दिकं च श्राद्धं
मातापित्रोर्मृताहे भेदेनोदितं तद्विषयमिति न पूर्वोक्तसांवत्सारिक-
श्राद्धविशेषेण सहास्यापि विरोधः । यत्पुनर्भृगुणैव—
प्रत्यब्दं च इत्युक्त्वाऽनन्तरमुक्तं नवश्राद्धं युगपत्तु समा
पयेत् । इति, तस्यायमर्थः—
मातापित्रोर्मृताहैक्ये मात्रा चैकचित्यन्वाहरोहणे कृते
सति पितुर्नवश्राद्धं चैककालमेकपाकेन (पाकाभावस्यैव ?) तन्त्रेण
- श्राद्धपर इत्याधिकं.
प्रधानात्पूर्वाङ्गकलापं कृत्वा प्रथमं पित्रे पश्चान्मात्रे च श्राद्धं
कृत्वा पाश्चात्याङ्गकलापं च कृत्वा तन्त्रेण कुर्यादिति । अने-
कमातृभिरेकचितामन्वारोहणे कृतेऽप्येवमेव । पितुरनन्तरं सा-
क्षान्मातुस्तदनन्तरमुपमातृषु ज्येष्ठादिक्रमेण नवश्राद्धं कुर्यात्
तथाच स एव—
एककाले गतासूनां बहूनामथवा द्वयोः ।
तन्त्रेण श्रपणं कृत्वा कुर्याच्छ्राद्धं पृथक्पृथक् ॥
पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः ॥
इति । श्रपणं प्रदेयान्नपाकः पूर्वकस्य मुख्यस्य द्वितीयस्य
मुख्यापेक्षा जघन्यस्य तृतीयस्य जघन्यतरस्येत्यर्थः । भिन्नचि-
तामन्वारोहणे तु सर्वं पृथगेव कार्यम् । एवमुक्तविधिष्वन्यतम-
विधिना यथोक्तव्यवस्थानुसारिणा मृताहश्राद्धमवश्यं कर्तव्यम् ।
तथाच कार्ष्णाजिनिः—
ऊषरेषु यथा क्षिप्तं बीजं न प्रतिरोहति ।
तथाच तद्भवत्तेषां यन्न दत्तं मृतेऽहनि ॥
एतेन मृताहे अन्नमवश्यं दातव्यमित्यभिप्रायः । 'तच्च पार्वणवत्
स्मृतम्' इति जातूकर्णादीनां बहुतराणां पक्षः । 'एकोद्दिष्ट
विधानेन' इति याज्ञवल्क्यादीनां बहूनाम् । अतएव सुमन्तुः—
कर्तव्यं पार्वणं राजन् नैकोद्दिष्टं कथञ्चन ।
सुबहून्यत्र वाक्यानि मुनिगीतानि चक्षते ॥
अल्पेतराणि राजेन्द्र एकोद्दिष्टं प्रचक्षते ।
इति । अत्र पार्वणपक्षे चक्षते प्रचक्षते धर्मशास्त्रज्ञाः । अल्पेत-
राणि बहूनि कतिपयानि वाक्यान्येकोद्दिष्टपक्षं प्रचक्षत इत्यर्थः ।
तेन एकोद्दिष्टपक्षं परित्यज्य पार्वणपक्ष एव परिग्राह्य इत्याह
स एव—
तस्माद्वचनसामर्थ्यात्पार्वणं स्यान्मृतेऽहनि ॥
इति । वचनसामर्थ्याद्बहुतराणां वचनानां सामर्थ्यादित्यर्थः ।
अयमेवार्थो जैमिनिनाऽप्युक्तः—
'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वम्' इति ।
प्रत्यक्षश्रुतिमूलत्वात् जातूकर्ण्यादिवचनान्येव बलवन्ति । प्रत्यक्ष
श्रुतिश्चेयं—'मासिमासि ऋतावृत्तौ हेमन्तग्रीष्मवर्षासु प्रतिसंव-
त्सरे च देवाश्च पितरश्च सहासताम्' इति । प्रतिसंवत्सरे
मृताहे देवाश्च पितरश्च सहासतां विश्वेदेवाः पितृपितामहप्रपि-
तामहाश्च श्राद्धं भोक्तुं सह तिष्ठन्त्वित्यर्थः । अनया श्रुत्या
सदैवं श्राद्धं कार्यं मृताह इत्युक्तम् । तस्मात्सर्वैरेव पार्वणपक्षो
ग्राह्यः । पार्वणविधायकवचनैः एकोद्दिष्टविधायकवचनानां बा-
धितत्वात् । अथवा कतिपयैरेव पार्वणपक्षः परिग्राह्यः ।
तथाच स्मृत्यन्तरम्—
पितुः पितृगणस्थस्य कुर्यातां दर्शवत्सुतौ ।
प्रत्यब्दं प्रतिमासं च विधिज्ञौ क्षेत्रजौरसौ ॥
एकोद्दिष्टवदितरे सुताः कुर्युरिति शेषः । अत एव सुमन्तुः—
430 स्मृतिचन्द्रिकायां
प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥
उक्ता चैवं परस्परविरुद्धानां स्मृतीनां विषयभेदेन व्यवस्था—
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।
स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक्पृथक् ॥
इति जाबालस्मरणात् । एवमेव विषयव्यवस्था मातृमृताहेऽपी-
त्याह कात्यायनः—
प्रत्यब्दं यो यथा कुर्यात्पुत्रः पित्रे सदा द्विजः ।
तथैव मातुः कर्तव्यं पार्वणं वाऽन्यदेव वा ॥
यत्तु तेनैवोक्तम्—
पितृव्यभ्रातृमातृणां एकोद्दिष्टं सदैव तु ।
इति, तत्र मातृशब्दो गौणमुख्यमातृसपत्नीपर इति पितृव्यादि
समाभिव्याहारादवगम्यते । अतो न पूर्वोक्तवचनेन सह विरोधः ।
एतच्च मातृग्रहणं मुख्यमातृव्यतिरिक्तस्त्रीणामुपलक्षणार्थम् । अत
एव विष्णुधर्मोत्तरम्—
प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैःस्त्रियाः ।
मृतेऽहनि यथान्यायं नृणां यद्वदिहोदितम् ॥
यद्भूतपुरुषाणां समन्त्रकं श्राद्धं तद्वत् द्विजातिस्त्रीणां कृतवि-
वाहानां समन्त्रकमेव श्राद्धं कार्यम् । इत्यन्त्यपादस्यार्थः । अप-
रिणीतानां तु स्त्रीणां संस्कारहीनत्वादमन्त्रकमेव । स्त्रिया इत्ये
तदपुत्रायाः स्त्रिया इत्यभिप्रायकम् । अत एव गर्गः—