सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५
नैवं घटस्य चैतन्यमस्ति ज्ञानात् स्वकर्मणि ।
नाज्ञात्वा कर्तुमिष्येत तथाचिदवबोधनात् ॥ १२ ॥
प्रकाशज्ञानजननाज्जनः कर्ता जडे कथम् ।
जडेन व्यज्यते नापि चैतन्यमजडात्मकम् ॥ १३ ॥
चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् ।
तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडे भवेत् ॥ १४ ॥
कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता ।
प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥ १५ ॥
जानन् कर्तारमात्मानं घटः कुर्यात् स्वकां क्रियाम् ।
अज्ञाते स्वात्मकर्तृत्वे न घटः सम्प्रवर्तते ॥ १६ ॥
स्वकर्मणि ममैतत्तदित्यज्ञानान्न चेष्टनम् ।
कूलं पिपतिषति गोर्व्यवहारः प्रसिद्धयति ॥ १७ ॥
घटादेर्भवता ज्ञातमाचैतन्यं कथं यदि ।
चेष्टोन्मेषाद्यभावात्तन्मूर्छिते किं करिष्यसि ॥ १८ ॥
प्राणाद्युन्मेषविरहादभिव्यक्तं नु कस्य तत् ।
सर्वचैतन्यवादे तु चार्वाकोऽत्र न सिद्ध्यति ॥ १९ ॥
प्रत्येकं परमाणौ चेच्चैतन्येऽनेकचेतनाः ।
घटादयः प्रसज्यन्ते परमाणुकथा न हि ॥ २० ॥
तथा वा शिवतत्त्वस्य सम्भूतेरथवा तथा ।
एकैकशोऽस्ति चैतन्यमनभिव्यक्तरूपकम् ॥ २१ ॥
इतश्च तेऽपि चिद्वन्तः स्वात्मनि ज्ञानयोगतः ।
स्वयमेव न चेज्ज्ञानमात्मन्येषां प्रजायते ॥ २२ ॥
नान्यथा ग्रहणं तेषां देवदत्तेन चेद्द्भवेत् ।
देवदत्तोऽत्र किं कुर्याच्चक्षुश्चेत् प्रेरयेद्घटे ॥ २३ ॥
गोलकं न प्रयातीह शक्तेरव्यतिरेकतः ।
शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥ २४ ॥

आत्मनो व्यापकत्वेन शरीरे व्यर्थता भवेत् ।
जडत्वादथवा शक्तस्तच्छक्त्या तद्घटो भवेत् ॥ २५ ॥
पुरा शक्तेरानयते चक्षुः शक्तं न वेति वा ।
तस्यापि शक्तेः कल्प्यत्वे भवत्यानन्त्यसंगमः ॥ २६ ॥
प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् ।
मनसो न च बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥ २७ ॥
शक्तिर्घटेऽत्र किं कुर्याद् गृहीत्वान्तरथाविशेत् ।
बुध्नोदरादिकं तत्तु गृहीत्वा न च युज्यते ॥ २८ ॥
तथाकारणगुणत्वान्न द्रव्याच्च चलनं पृथक् ।
शक्तेर्न चापि तज्ज्ञानं येन सा तन्निवेदयेत् ॥ २९ ॥
अन्तर्विशति चेच्छक्तिरन्तरप्युपलम्भनम् ।
अप्रवेशान्न मनसः सम्बन्धः उपपद्यते ॥ ३० ॥
विभुत्वेनेन्द्रियाणां ते किं वृथैव शरीरता ।
चक्षुषा चेदर्पितं मे मनसात्मन्यथार्यते ॥ ३१ ॥
तदात्मन्यपरोक्षत्वे भवेदाप्तवचः स्फुटम् ।
ये विकल्पाः शक्तिगतास्तेऽप्यायान्ति मनः प्रति ॥ ३२ ॥
चक्षूरश्मिगमत्वं चेत् स प्रत्यक्षोऽर्करश्मिवत् ।
भावान् प्रतिबिम्बत्व आत्मनोऽपि न युक्तता ॥ ३३ ॥
प्रतिबिम्बेऽवसत्यत्वादमूर्तेष्वेगोचरात् ।
तस्माद्घटः स्वमात्मानमवगच्छन्नवस्थितः ॥ ३४ ॥
तदैव्यातच्चचक्षुषैव प्रक्रिया चेत् कथं स्थिता ।
तथा शिवस्य सर्गाद्रा प्रक्रियायास्तथात्मनः ॥ ३५ ॥
अन्धादेरप्यदृष्टचात्र घटः किं प्रथते न चेत् ।
शिवत्वस्य तथा व्यक्तेर्घटस्येच्छा तथास्ति वा ॥ ३६ ॥
इच्छावत्त्वमनेनैव न्यायेनास्य निजां क्रियाम् ।
अनिच्छुर्न करोत्येवमत एवास्ति निर्वृतिः ॥ ३७ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४३
नानिवृत्तौ प्रवर्तेत स्फुटे ज्ञानक्रिये स्थिते ।
कर्मप्रभवणत्वात्तत्प्रभुत्वमवधार्यते ॥ ३८ ॥
स्वेच्छाकर्मविमर्शेन स्वेच्छाकर्मत्वमादृतम् ।
सर्वे पदार्थरूपेण सामान्येनार्थवत्तया ॥ ३६ ॥
व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ ।
यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥ ४० ॥
बाह्यावयवतद्योगात्तदन्तरवियोगतः ।
पटो गृहीतः सकल इति न स्यात् प्रमा क्वचित् ॥ ४१ ॥
सर्वज्ञत्वमप्रवेशाद्व्यवधानादियोगतः ।
न चान्यावयवत्वेन तदन्येष्वनुमानता ॥ ४२ ॥
न चान्यावयवैः सार्द्धं सम्बन्धग्रहणं पुरा ।
तस्मान्नान्येन गृह्यन्ते प्रत्यक्षेण कदाचन ॥ ४३ ॥
तत्तत्स्थान एव तज्ज्ञाना संविदेषा विमृश्यताम् ।
न चाप्यस्त्यनुमानेन परेषां ग्रहणं क्वचित् ॥ ४४ ॥
धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते ।
अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥ ४५ ॥
देशोऽपि न गृहीतोऽत्र धूमलेखानुरूपतः ।
न चापि निम्ने ह्रस्वे वा निश्चयोऽत्रावगम्यते ॥ ४६ ॥
अत्रापि क्वापि वास्तीति कल्पना कल्पनैव हि ।
यत्र यत्र भवेद्धूमस्तत्राग्निरित्यनिश्चयात् ॥ ४७ ॥
तत्राकाशे स्थितो धूमो न वह्नेः कणमात्रकम् ।
धूमेन व्यापितो देशो भवेदग्निमयोऽखिलः ॥ ४८ ॥
तद्बुध्नावयवैर्वाथ तेऽपि यान्त्यूर्ध्वतां क्षणात् ।
बुध्नस्तैर्न च सम्बद्धः कदाचिच्चक्षुषो भवेत् ॥ ४६ ॥
सम्बन्धो ग्रहकाले तु न चोर्ध्वावयवैर्भवेत् ।
वह्नेर्दूरतरस्थित्या वह्निश्लिष्टेष्वलक्ष्मता ॥ ५० ॥

१४४ शिवदृष्टिः [ आ०-५
न चापि वह्निर्जनकः काष्ठेष्वेव हि दर्शनात् ।
अत एव यत्र वह्निर्भास्वान्नो धूमिताऽत्र तु ॥ ५१ ॥
सन्निधानादथाग्नेश्च चुल्लयादेः सन्निधिर्न किम् ।
धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥ ५२ ॥
कुत्र तेऽन्यत्र दृष्टत्वात्तद्दृष्टेरग्निदृष्टता ।
अत्रेति धर्मिता कस्य पर्वतादौ समस्तके ॥ ५३ ॥
तत्सामस्त्यस्याग्रहणाददृष्टे धर्मिता कुतः ।
दृष्टश्चेत् सर्वघटवत्तदङ्गस्याग्निदर्शनम् ॥ ५४ ॥
स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् ।
अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥ ५५ ॥
एष इत्यपदिश्येत तज्ज्ञानं जनयेत् कथम् ।
करणत्वे कर्त्रपेक्षा कर्तृत्वे तदपेक्षता ॥ ५६ ॥
वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् ।
यच्च यद्विषयं ज्ञानं तज्जन्यं तस्य दृष्टवत् ॥ ५७ ॥
धूमादग्निप्रतीतिश्च न चायं नियमः स्थितः ।
कक्षभूर्जादिजो वह्निर्गुहाकारे ज्वलन् गृहे ॥ ५८ ॥
महान्तं धूममुत्पाद्य तत्कालं वारिणा हतः ।
तत्र केवलधूमास्था न वह्निप्राप्तिरस्ति ते ॥ ५६ ॥
तस्मात्तद्व्यपदेशो न वह्निः स्वं विनिवेदयेत् ।
वीक्ष्यात्मना तथात्मानं विनीतवदवस्थितम् ॥ ६० ।,
एतयैव दिशा दूष्यं स्वभावाद्यमसंशयम् ।
परानुमाने पक्षादौ धर्मादेर्भेद्यभेदिता ॥ ६१ ॥
अनुमानस्यान्यथान्यैर्दूषणा प्रविधीयते ।
अवस्थादेशकालानामियादिभिरुदाहृतैः ॥ ६२ ॥
यत्र देशे च काले च प्रवृत्तिस्तत्र संगमः ।
तत्रैव व्यवहारित्वसम्बन्धान्तरतायतः ॥ ६३ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५
न चापि स्थिरभावानां क्वाप्यस्ति व्यभिचारिता ।
सूर्यः प्रकाशकः क्वापि काले देशेऽन्यथा भवेत् ॥ ६४ ॥
शब्दैरर्थाः प्रतीयन्ते सर्वत्रैवं क्व निश्चयतः ।
स्फोटादर्थप्रतीतिश्चेद् व्यज्यते तैः क्व निर्णयः ॥ ६५ ॥
तस्यापि सर्वदेश्यत्वान्निश्चयः केन लभ्यते ।
भोजनादेरचेष्टत्वे व्यवहारविलोपिता ॥ ६६ ॥
अनुमानं न चास्तीति पक्षादिर्नोपयुज्यते ।
गोपालघटिकान्यैश्च घटिता न ह्यसम्भवात् ॥ ६७ ॥
न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते ।
तस्माद्वर्णनिकैवेयं परस्यान्धाय कल्पिता ॥ ६८ ॥
यैरुक्तं सिद्धसाध्यत्वं सामान्ये तन्न दूषणम् ।
अत्रेति तत्प्रयोगत्वाद्विग्देशाद्यैर्विशेषिता ॥ ६६ ॥
न सर्वेषां विशेषाणां प्रत्यक्षेऽपि भवेद् ग्रहः ।
विशेषपूर्वताध्यक्षेऽविशेषोऽस्त्यनुमानतः ॥ ७० ॥
अतो नास्त्यनुमानस्य दूषणाद्यैः प्रतिभाषितैः ।
तेन पूर्वोक्तया नीत्या भावानां स्वग्रहः स्थितः ॥ ७१ ॥
नाप्याप्तवचनग्राह्यः सामान्याद्वा विशेषतः ।
सामान्यादनुमानोक्तदूषणं तद्विशेषतः ॥ ७२ ॥
प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् ।
स्वातन्त्र्यं न च शब्दस्य रचनात्वेन युज्यते ॥ ७३ ॥
तत्रापि व्यञ्जकापेक्षा स्यात् परायत्ततैव हि ।
अर्थापत्त्यादिना नापि तदनर्होपयोगतः ॥ ७४ ॥
प्रतिभा च प्रमाणत्वे वर्ण्यमाना न शोभते ।
काकतालीयरूपत्वादश्वादेस्तरणादथ ॥ ७५ ॥
तदहर्जातकस्यापि वासना सान्यजन्मजा ।
तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥ ७६ ॥
व्यापकत्वाच्छिवत्वस्य [सर्वज्ञत्वाद्भेदथ ।
तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥ ७७ ॥
१०

१४६ शिवदृष्टिः [ आ०-५
जानन्नवस्थितो दूरे स्वर्गादौ निरयेऽथवा ।
प्रत्यक्षादिप्रक्रियायास्तथा शिवकृतस्थितेः ॥ ७८ ॥
नौतरभ्रान्तिनाशादौ सम्यग्दृष्टिसमुद्गमात् ।
यमर्सनिकसद्दृष्टिधरादेश्चलनोद्गमात् ॥ ७६ ॥
भूकम्पनाच्च शेषादिचलनाच्चेन्न सर्वतः ।
गमागमेन वाय्वादेः कान्त्या भवति चेतना ॥ ८० ॥
सर्वत्र देवतात्मत्वाज्जडेष्वप्युपवर्णिता ।
पोतादेश्चेदुपायेन दृष्टे दीपाद्युपायता ॥ ८१ ॥
तत्र चेत् सुप्रसिद्धत्वे तथा तत्र प्रसिद्धितः ।
तुल्यकालं द्वयोर्द्वैधं नैवं यत्तदलक्ष्यता ॥ ८२ ॥
तद्देशत्वं पुनः कस्मादिति चेत्तत्तथाग्रतः ।
भावा मूर्ताः सर्व एव सूक्ष्मसूक्ष्मतरादिता ॥ ८३ ॥
ज्ञेया अवयवेनैते यावद्यावददर्शनाः ।
अणूनामथ मूर्तत्वादेवं चेत् किं न दर्शनम् ॥ ८४ ॥
सूक्ष्मत्वात्तर्ह्यदृश्यत्वमस्पृश्यत्वममूर्तता ।
तैरदृश्यैर्यदारब्धं तत्तथैवाथ संहतेः ॥ ८५ ॥
दृश्यत्वं तेषु संघातात् किं तेषां रूपताक्षतिः ।
स्वरूपमिश्रीभावो वा नैवं चेत्तर्ह्यमूर्तता ॥ ८६ ॥
ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः ।
अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥ ८७ ॥
ज्ञानस्वरूपग्रहाणां तद्ग्रहात्तद्ग्रहः किल ।
अतत्स्वरूपरूपत्वे नान्यस्यान्यग्रहाद्ग्रहः ॥ ८८ ॥
एवमिन्द्रियशक्तीनां ज्ञानमन्तःप्रवेशनात् ।
सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥ ८६ ॥
कथमाकारघटना व्योम्नि नित्येव नीलता ।
आत्मेच्छात्ः स्थिता भावाः स्थितैवासावमूर्तता ॥ ६० ॥
माययित्वे जगति वा प्राकृते वान्यथापि वा ।
अमूर्तकारणैर्योगात्तन्मूर्तत्वं निवार्यते ॥ ६१ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४७
अविद्यायोगतो वापि शाक्तरूपत्वतोऽपि वा ।
ज्ञानस्यापि बहिरूपे शब्दरूपेऽपि वा तथा ॥ ६२ ॥
एतदेव हि युक्तं तु घटादेर्बाह्यमेकतः ।
कुड्यादिनिर्गताच्चैव योगिनां क्वापि दर्शनात् ॥ ६३ ॥
अग्रकव्यवधानादेरथ चेत्कार्यनाशिता ।
पदार्थवित्प्रक्रियया प्रक्रिया प्रक्रियैव सा ॥ ६४ ॥
कार्यस्य नाशे तत्कार्यकार्ये तत्कार्यनाशिता ।
क्षणलक्षाणि जायन्ते क्रमात्तद्विनाशतः ॥ ६५ ॥
तथोत्पत्तौ क्षणानन्त्यमीश्वरेच्छावशादथ ।
क्षण एको न चैवं तच्चेश्वरेच्छाविरोधकृत् ॥ ६६ ॥
एकक्षणत्वं लक्ष्यस्य बहुकालस्य नार्हता ।
क्षणभङ्गान्तरं चैवं हि स निवार्य इहाग्रतः ॥ ६७ ॥
स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा ।
स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥ ६८ ॥
सर्वज्ञत्वादशेषस्य तदहर्जातदारके ।
क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥ ६६ ॥
उदरस्थस्य च ग्रासग्रहणान्मातुरन्तरे ।
अशिक्षितानां तरणात् प्राणिनां निम्नगाजलात् ॥ १०० ॥
सर्वज्ञत्वे न किं सर्वे सर्वज्ञाः स्युः शरीरिणः ।
सर्व एव हि सर्वज्ञा मनःसंकल्पनावशात् ॥ १०१ ॥
संकल्पकेन चित्तेन तत्तज्ज्ञानमसंशयम् ।
संकल्पानां च सत्यत्वं पुरस्तात्प्रतिपादितम् ॥ १०२ ॥
सर्वभावग्रहणतायोग्यत्वाद्वा क्रमस्थितेः ।
प्रत्यक्षाद्यैरुपायैर्वा निरुपायतयापि वा ॥ १०३ ॥
तत्तद्रूढिवशाद्वापि सर्वज्ञत्वप्रवर्तनात् ।
सर्वे सर्वात्मभावेन सर्वज्ञा वा व्यवस्थिताः ॥ १०४ ॥
सर्वे भावाः स्वमात्मानं जानन्तः सर्वतः स्थिताः ।
मदात्मना घटो वेत्ति वेद्म्यहं वा घटात्मना ॥ १०५ ॥

१४८ शिवदृष्टिः [ आ०-५
सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना।
शिवात्मना यज्ञदत्तो यज्ञदत्तात्मना शिवः॥ १०६॥
सदाशिवात्मना वेत्ति घटः स च घटात्मना।
सर्वे सर्वात्मका भावाः सर्वसर्वस्वरूपतः॥ १०७॥
सर्वस्य सर्वमस्तीह नानाभावात्मरूपकैः।
मद्रूपत्वं घटस्यास्ति ममास्ति घटरूपता॥ १०८॥
नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः।
चिद्व्यक्तिरूपकं नानाभेदभिन्नमनन्तकम्॥ १०६॥
एवं सर्वेषु भावेषु सर्वसाम्ये व्यवस्थिते।
तेन सर्वगतं सर्वं शिवरूपं निरूपितम्॥ ११०॥
इति श्रीशिवदृष्टौ श्रीमत्सोमानन्दप्रभुपादविरचितायां
समताप्रतिपादकं नाम पञ्चममाह्निकम्।

अथ
षष्ठमाह्निकम्
अथ शक्तेः शक्तिमतो न भेदो द्रव्यकर्मवत् ।
स्थापितो द्रव्यतो भिन्ना क्रिया नो न च नास्ति सा ॥ १ ॥
एवं तथा शक्तिमतः शक्तस्य समवस्थिता ।
जगद्विचित्रता शैवे न पुनर्दर्शनान्तरे ॥ २ ॥
यथा प्रकल्पिता चित्रा चित्रब्रह्मादिवादिता ।
नानात्मवादितां यावत्तत्सर्वं प्रविचार्यंतम् ॥ ३ ॥
यत्र ब्रह्मोच्यते चित्रं कैश्चिद्वेदान्तवादिभिः ।
एकस्य चित्रता केन हेतुना ब्रह्मणो भवेत् ॥ ४ ॥
तथाविधा विभिन्नास्ते सर्वदा निजभावतः ।
विभिन्ना एव ते नैक्यं मृत्पिण्डात् प्रागवस्थितेः ॥ ५ ॥
घटादीनां द्विरूपत्वं न घटादेः सदास्थितेः ।
निमित्तकल्पना कल्प्या तर्ह्यविद्या तदुद्गमात् ॥ ६ ॥
भावा भवेयुस्तत्प्राप्ता ह्यस्माकं सर्वसत्यता ।
अविद्यादेरयोगश्चेत्तेनैतदतिरिक्कता ॥ ७ ॥
येऽन्ये वेदान्तविद्वांस आत्मब्रह्मैव विश्वताम् ।
यात्युपादानरूपत्वात्तथान्ये भ्रान्तिरूपताम् ॥ ८ ॥
विश्वं न सत्यरूपत्वं तथान्ये त्वात्मवादिनः ।
भूतजीवपरात्मत्वं ये चान्ये नेतिवादिनः ॥ ९ ॥
यस्यां प्रतीतौ नेत्यस्य प्रसरो न प्रवर्तते ।
तद्ब्रह्मेति वदन्त्येके ये स्फुलिङ्गात्मवादिनः ॥ १० ॥
प्रतिबिम्बतया चान्ये ये वा सर्गमुखे स्वयं ।
ब्रह्मैव गृह्णात्यात्मानं ततो भेदोपपादनम् ॥ ११ ॥
इत्याहुर्येऽपि क्रीडार्थमेवमात्मा व्यवस्थितः ।
इत्यूचुर्येऽप्रबुद्धत्वं पश्चाद्ब्रह्म प्रबुध्यते ॥ १२ ॥

१५० शिवदृष्टिः [ आ०-६
देहे देहे पृथक्त्वे तु तथा भेदो भवात्मकः।
जलधारांशुमन्न्यायो येषां वा समवस्थितः ॥ १३ ॥
अविद्यां वेत्त्यविद्यैव बन्धात्यात्मानमेव वा।
संवेति वादो येषां वा तेषां वेदान्तवादिनाम् ॥ १४ ॥
सर्वेषामप्यविद्यैव कल्प्या ब्रह्मणि संगता।
तथा भावेष्वसत्यत्वमित्यवश्यमवस्थितम् ॥ १५ ॥
पाञ्चरात्रविदश्चान्ये वदन्ति परिनिष्ठितम्।
ब्रह्मास्ति वासुदेवाख्यं स एव जगदीश्वरः ॥ १६ ॥
विद्याविद्ये द्वयं चास्य साधनं समवस्थितम्।
अविद्यया जगत्कुर्याद्विद्यया मोक्षयेत्पशून् ॥ १७ ॥
ताभ्यां न चास्योपरागः प्रबुद्धत्वात्प्रभूतवतः।
तथान्येषां स्वात्मनैव विद्यया जगदात्मता ॥ १८ ॥
न चाविद्या बाधिकास्य यतः साधनमस्य सा।
प्रोक्तं भगवतो वीर्येणेत्याद्यैस्तत्त्वदर्शनैः ॥ १९ ॥
गीतासु विश्वरूपत्वमत एव प्रदर्शितम्।
द्वयोरप्यनयोर्युक्तिः पक्षयोर्नोपपद्यते ॥ २० ॥
अविद्या वस्तुरूपा चेद्विद्यया साकमेकता।
अवस्तु वा न ह्यसत्यं सत्यरूपस्य साधनम् ॥ २१ ॥
तथा जघन्यरूपायाः सम्बन्धोऽस्य विरुध्यते।
तथा जगत्समुत्पत्तौ निमित्तान्तरकल्पना ॥ २२ ॥
अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम्।
पक्षे द्वितीये ताद्रूप्यं जठत्त्वादिह तस्य कः ॥ २३ ॥
करोति विद्यासंयोगं तर्ह्यन्येश्वरकल्पना।
आर्हतास्तु जिनो देवो जीवाः सन्ति पृथक् पृथक् ॥ २४ ॥
प्रतिदेहं न विभवः ते प्रबुद्धास्तु तन्मयाः।
इत्येवमाहुस्तेषामप्यविद्यायोगकल्पनम् ॥ २५ ॥
स्वाविद्याप्रक्षयादर्हन्देवो भवति निश्चितम्।
येषां देवो निराकारः शून्य एव किमुच्यते ॥ २६ ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५१
ये सांख्या आत्मस्वातन्त्र्यवादिनो येऽप्यनीश्वराः ।
तत्राप्यस्त्यविवेकाख्यो मलो बन्धविमोक्षता ॥ २७ ॥
पृथक्त्वमीश्वरस्यास्ति सर्वात्मभ्यः पृथक्कृतः ।
न्यायवैशेषिकाणां तु बन्धमोक्षौ पृथक्स्थिती ॥ २८ ॥
प्रकृत्यादीश्वरत्वेन सर्वदैव तदात्मता ।
संवित्तिशून्यब्रह्मत्ववादिनां जडतैव सा ॥ २९ ॥
वदन्ति ते हि सकलमेतन्नारदसंग्रहात् ।
कालकारणिकानां तु नामता जडताथ वा ॥ ३० ॥
अव्याप्तिरन्तः कृत्यादेर्भवेत्षड्धामवादिनाम् ।
तत्र चित्पक्षपातश्चेत् प्राप्नुयात् सततं ग्रहः ॥ ३१ ॥
स्वर्गमुक्तिवादिनां तु बन्धमोक्षौ व्यवस्थितौ ।
ये बाह्यवादिनो बौद्धास्ते भेदं समुपाश्रिताः ॥ ३२ ॥
विज्ञानवादिनां ज्ञानं सत्यं प्रत्येत्यसत्यताम् ।
बहिः कथं न ह्यसत्यं सत्याङ्गवितुमर्हति ॥ ३३ ॥
कामिनां कथमेतच्चेदुक्ता प्रागस्य सत्यता ।
ज्ञानस्य करणत्वेन कर्तृपेक्षा प्रसज्यते ॥ ३४ ॥
कर्तृत्वे ज्ञप्तिमात्रत्वे आकांक्षा करणे भवेत् ।
द्विरूपत्वे विरुद्धत्वसंक्रमत्वं प्रवर्तते ॥ ३५ ॥
अक्रमत्वेऽस्मन्मतत्वं तदैक्यं परिनिष्ठया ।
न चापि क्षणभंगित्वे युक्ता वैनाशिकी स्थितिः ॥ ३६ ॥
अहं वेद्मि स मां वेत्ति न कर्तृकरणादिता ।
ज्ञानस्यैकक्षणे युक्ता तदद्वित्वेन क्षणक्षयः ॥ ३७ ॥
विभागकालग्रहणकालयोर्भिन्नकालता ।
विनष्टत्वात् फलं कस्य क्रमात्कर्मफले यतः ॥ ३८ ॥
भेदवानिति लक्ष्यत्वे दृष्टान्तोऽस्ति न तादृशः ।
ग्राह्यग्राहकसंवित्तेर्भेदवानिव लक्ष्यते ॥ ३९ ॥
न च शुद्धस्य बाह्यार्थाभासता चेदविद्यया ।
वासनारूपया शुद्धे नाशुद्धा वासना भवेत् ॥ ४० ॥

१५२ शिवदृष्टिः [ आ०-६
नेत्रादिव्यापृतेः पूर्वं घटं पश्यामि तादृशी ।
जायते प्रथमैवेच्छा नामाजातस्य यादृशी ॥ ४१ ॥
ज्ञानात्पूर्वमिच्छाजाते ज्ञातृकल्पनमुज्ज्वलम् ।
न घटो निर्विशेषोऽस्ति ग्रहे यज्ज्ञातृशुद्धता ॥ ४२ ॥
उत्पत्तिकाले स्वात्मानं किमादौ वेत्ति वा बहिः ।
प्रतिभासस्य वैचित्र्याद्युगपद्ग्रहणं कथम् ॥ ४३ ॥
क्रमेण वा परिच्छेदे क्षणान्तरमवस्थितिः ।
दृष्ट्वा तां संपरिच्छेदे क्षणद्वयमथोच्यते ॥ ४४ ॥
उत्पद्यमाने विज्ञाने नार्थनिष्पन्नता मता ।
न चार्थजातेऽवस्तुत्वं नावस्तुग्रहणादरः ॥ ४५ ॥
प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते ।
विद्यारूपादनाशित्वं न हि तत्त्वं विनश्वरम् ॥ ४६ ॥
अथ दीपप्रकाशत्वे न नित्यत्वं न कर्तृता ।
कर्तृता तत्र दीपादेः करणत्वं तदीक्षणे ॥ ४७ ॥
प्रकाशतात्मन्यचले स च प्रोक्तोऽप्यनश्वरः ।
ज्ञानस्य करणत्वेन भवेच्चेदनवस्थितिः ॥ ४८ ॥
दीपचक्षुःक्रमफलदर्शनात्तदबाधकम् ।
भावे कथं विनाशित्वं स्याद्विना कारणान्तरम् ॥ ४९ ॥
अथ नश्वररूपत्वात्तद्रूपस्योद्भवः कथम् ।
उद्भवो नश्वरत्वं च द्वौ स्वभावौ कथं तथा ॥ ५० ॥
न च नश्यदवस्थायां स्वकार्यं तस्य युज्यते ।
कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥ ५१ ॥
कुर्वद्वा चार्थकार्यत्वं कुतो नश्वररूपता ।
कारणान्तरजन्यत्वे कारणान्तरसंगता ॥ ५२ ॥
भावस्य भावजनने युक्तत्वं न क्षणस्थितेः ।
न घटाद्घटसम्भूतिः समवायाद्यपेक्षया ॥ ५३ ॥
नष्टस्य समवायित्वमनष्टस्य घटस्य वा ।
नष्टस्य तदकर्तृत्वमनष्टस्य स्वरूपिता ॥ ५४ ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५३
यत्तत्सत् क्षणिकत्वेऽपि सत्त्वमप्यक्षगोचरम् ।
सादृश्याद्भ्रान्तमक्षं चेददुष्टं प्राग्ग्रहे यथा ॥ ५५ ॥
दृष्टान्तेऽपि हि सादृश्ये प्रत्यक्षेण क्षणग्रहः ।
दीपज्वालासमूहेषु कम्पनं न विनाशिता ॥ ५६ ॥
नापि क्रमयौगपद्यविकल्पाः सहकारिणाम् ।
सन्निधौ कृतशक्तित्वादनेकेषां तथास्थितेः ॥ ५७ ॥
भावानां चित्रशक्तीनामभेदो हेमभेदवत् ।
वैलक्षण्यमपूर्वत्वं बाह्याभासक्रियोद्गमात् ॥ ५८ ॥
अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके ।
तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥ ५६ ॥
घटो नश्यत्यात्मनेति किंचित्कुर्वन् किमात्मना ।
नश्यत्यात्मन्यकुर्वन् वा तदेवं स्थित एव सः ॥ ६० ॥
कुर्वन् वा किं तदा कुर्वन् न भावं तद्घटादिकात् ।
अनन्यं व्यतिरिक्तं वा यद्यर्थनन्यस्तथाविधः ॥ ६१ ॥
अन्यत्वेऽन्यसमुत्पत्तौ घटस्यायातमत्र किम् ।
आत्मना परतो वापि विनाशेऽत्रापि तादृशाः ॥ ६२ ॥
विकल्पा अथवा नश्येदसावेतावदेव सत् ।
तत्रापि किंचित्कुर्वन्किं स नश्यति तथाविधाः ॥ ६३ ॥
विकल्पाः पुनरायान्ति न चाभावक्रियां प्रति ।
घट एव करणत्वे सामग्री जनिकेति ते ॥ ६४ ॥
दर्शनं यद्यभावस्य तुच्छस्य करणं कथम् ।
बहुभिस्तर्हि तुच्छं हि घटोऽपि जनयेत्कथम् ॥ ६५ ॥
नाशं घटस्य जनयेत्तत्सम्बन्धितया स्थितम् ।
मृत्पिण्डस्य घटोत्पत्तौ सति तज्जननात्मके ॥ ६६ ॥
रूपे हेत्वन्तरापेक्षा यत्र तत्र तथा कृता ।
घटस्य नश्वरात्मत्वे मुद्गरादेरपेक्षणम् ॥ ६७ ॥
किं वा नाश्यं न मृत्पिण्डं घटस्य जनकं भवेत् ।
तदनाशे न किंचित्स्याद्घट एव न जायते ॥ ६८ ॥

१५४ शिवदृष्टिः [ आ०-६
विनाशो कारणानां हि विनाशः कारणात्मना ।
स्वयं विनश्येन्मृत्पिण्ड एवं चेत्स विनश्यति ॥ ६९ ॥
किं विधाय घटं नो वा स मृत्पिण्डोऽभिधीयताम् ।
अकृत्वा करणं कुम्भे कृत्वा तस्य स्वरूपता ॥ ७० ॥
कुतो घटस्य जननाकारनामावधारणम् ।
यावता प्राग्दशानष्टा न प्रवृत्तिरथान्यथा ॥ ७१ ॥
विरोधे दण्डघटयोर् दृष्टान्तोऽस्ति न ते क्वचित् ।
तेजसा तमसो यस्मान्न विनाशस्त्वयेष्यते ॥ ७२ ॥
अकार्यत्वाद्धिनाशस्य प्रतिबन्धो न चापि ते ।
स्थिरस्य प्रतिबन्ध्यत्वात् क्षणिकस्य न युज्यते ॥ ७३ ॥
कपालादिकजन्यत्वमभावस्तस्य संगता ।
सत्यस्य कारणापेक्षा घटादिजनने यथा ॥ ७४ ॥
नश्वरानश्वरत्वेऽपि स्वभावे प्रविकल्पनाः ।
अत्र नैव प्रवर्तन्ते हेतुसन्निधिनश्वराः ॥ ७५ ॥
स्वभावत्वात्स्थितं तस्मादेकं तत्त्वं तथास्थितेः ।
भेदेन वाप्यभेदेन यदि वा नैकरूपता ॥ ७६ ॥
सामान्याभावतस्तर्हि भवतो नानुमानता ।
सा भविष्यत्यपोहेन सोऽपि केनोपपद्यते ॥ ७७ ॥
घटमानय शब्दस्य प्रतिषेधेन वाच्यता ।
अघटादेरपोहेन किं घटं प्रतिपद्यसे ॥ ७८ ॥
शून्यतां वा शून्यतायां व्यर्थता शब्दगोचरे ।
युगपद्वा घटाद्यर्था जगत्यानन्त्यमागताः ॥ ७९ ॥
निवृत्ते वाच्यसम्बन्धे प्रद्वेषो विधिगः परम् ।
अघटत्वं न सामान्यं किं न वा ह्यविशेषकम् ॥ ८० ॥
तस्याप्यवस्तुरूपत्वे न किंचित्कथितं भवेत् ।
एतावान् वाच्यसम्बन्धो यदन्तःस्फुरणात्मता ॥ ८१ ॥
उपलब्धिः पुनर्ज्ञेया प्रमाणान्तरगोचरा ।
धूमात्सम्बन्धतो वह्नेः परोक्षे स्फुरणं न किम् ॥ ८२ ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५५
अप्रत्यक्षोऽक्षसम्बन्धो दूरस्थः शक्तिरूह्यते ।
तस्मान्न ज्ञानशून्यत्वं न शून्यं चोपपद्यते ॥ ८३ ॥
शून्यस्य बोधाभावत्वात् कः केनात्र विबोध्यते ।
न हि शून्यस्य शून्येन बोधनं न च बाधनम् ॥ ८४ ॥
शून्यत्वे सति युज्येत प्रमाणं वोपपद्यते ।
संवृत्यैव संवृत्तिर्हि निवार्या चेदसङ्गमः ॥ ८५ ॥
शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् ।
अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥ ८६ ॥
सर्वस्य सर्वभावत्वादिहासौ नोपपद्यते ।
चर्मोपमश्छेदित्यादि यद्बौद्धैः समुदाहृतम् ॥ ८७ ॥
सर्वत्र सर्वसंवित्तेस्तत्सर्वं विनिवारितम् ।
विकल्पा येऽपि चार्वाकैरुक्तास्तेऽपि न बाधकाः ॥ ८८ ॥
सर्वत्र सारभूतत्वात्सर्वत्रैवाजडत्वतः ।
सर्वभावस्वभावत्वादभावस्यापि भावतः ॥ ८९ ॥
घटात्मककटात्मादेः पदार्थपदयोगतः ।
अभावस्य कपालादिरूपत्वाद्वस्तुता स्थिता ॥ ९० ॥
अभावस्यापि वस्तुत्वे न विनाशोऽस्ति कस्यचित् ।
अभावस्यापि करणे सम्पत्तिर्नोपपद्यते ॥ ९१ ॥
कुण्डलादिषु भावेषु सर्वथैव सुवर्णता ।
व्याप्तेरखण्डितैवास्ते शिवता सर्वगामिनी ॥ ९२ ॥
सर्वज्ञानातिरेकत्वे स्थिते वक्ष्यसि किं स्वके ।
दर्शने यत्र नानात्वं बन्धमोक्षावुदाहृतौ ॥ ९३ ॥
मलित्वमात्मनां प्रोक्तं सर्वभावेषु भेदिता ।
सत्यमुक्तमारुरुक्षोस्तत्क्रमप्रतिपत्तये ॥ ९४ ॥
अन्यथा ह्येकरूपत्वे विचिकित्सा प्रवर्त्तते ।
विना बोधं प्राथमिके निर्यत्नश्च भवेदसौ ॥ ९५ ॥
बन्धमोक्षाद्यभावेन निर्मलोऽत्र करोति किम् ।
न च वा प्रत्ययं गच्छेत् झटित्येकोक्तिमात्रतः ॥ ९६ ॥

१५६ शिवदृष्टिः [ आ०-६
तदर्थमुक्तमीशेन न परार्थविवक्षया ।
अनेकेषामणूनां च कथमेकत्र संस्थितिः ॥ ९७ ॥
अमूर्तत्वाद्यदि भवेदमूर्तत्वेऽपि वस्तुता ।
वस्तुत्वे संस्करोत्येव नानासत्तानयोगतः ॥ ९८ ॥
व्याप्यः स देश एकेन व्याप्यतेऽप्यपरैः कथम् ।
परस्परेण व्याप्यत्वाद्व्याप्यव्यापकता भवेत् ॥ ९९ ॥
वर्तते यदि तत्रान्यो न व्याप्तोऽसौ पुरापरैः ।
आकाशबुद्धिचित्तादेः कथमेकत्र चेत् स्थितिः ॥ १०० ॥
दोषोऽयं भवतामेव नैवमस्मासु तादृशः ।
सर्वस्य सर्वदेहेषु व्यापकत्वव्यवस्थितेः ॥ १०१ ॥
सर्वेषां सर्वदेहस्था संवित्केन निवार्यते ।
कर्मणामानुरूप्याच्चेत् संविद्बाधा न कर्मभिः ॥ १०२ ॥
अकर्महेतुकेऽप्यस्ति योगिनोऽन्यशरीरके ।
न शवत्वं शरीरे स्यादन्यात्मस्फुरणस्थितेः ॥ १०३ ॥
तत्र कर्म निमित्तं चेद्योगेनाप्यत्र संक्रमः ।
एकबोधो बोधशतैरभिभूतो भवेत्तदा ॥ १०४ ॥
तद्बाधे न परव्याप्तिर्न वा व्याप्तेस्तदात्मता ।
मोक्षेऽपि शिवबाहुल्यान्नानानायकता भवेत् ॥ १०५ ॥
तस्याधिकमहेशित्वे मोक्षे न्यूनाधिके स्थितिः ।
बहूनां नायकत्वेऽपि नायकत्वं विहन्यते ॥ १०६ ॥
तथा पञ्चविधे कृत्य नानात्वादक्रिया भवेत् ।
यानन्यसदृशी भूमिः सा परा प्रान्तभूमिका ॥ १०७ ॥
या पुनः सर्वसदृशी सानुकार्या किमुच्यते ।
सर्वज्ञत्वेन सर्वेषामेककार्यानुवर्तनात् ॥ १०८ ॥
संसारस्यानुपाल्यत्वादद्वेषादिमलहानितः ।
अथवा स्वात्मविभवपरमानन्दतृप्तितः ॥ १०९ ॥
तन्निष्ठत्वात् पञ्चविधकृत्यस्योन्मुखतैव नो ।
भवेन्मुक्तात्मभेदेऽपि सा त्वनादौ शिवे स्थिता ॥ ११० ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५७
अनुवृत्तिः किमाधिक्याद्रागाद् वा तर्हि दूषणम् ।
अनादिशिवतत्त्वस्य स्वामोदं किं न विद्यते ॥ १११ ॥
तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् ।
अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥ ११२ ॥
निजं तस्य न हीयेत तद्वत् परमकारणे ।
यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥ ११३ ॥
तथा तस्य यथान्येषां यथान्येषां तथास्य तु ।
तस्मादनेकात्मतया दोषा आयान्ति तादृशाः ॥ ११४ ॥
तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता ।
मोक्षता चोपपद्येत निर्मलं समलं तथा ॥ ११५ ॥
रूपद्वयं युक्तिमत्स्याज्जन्मादेर्युगपन्न च ।
सम्भवः स्यात्तथारूपशिवत्वादन्यदर्शने ॥ ११६ ॥
दूषणं संप्रसज्येत न तथेह कदाचन ।
एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा ? ॥ ११७ ॥
एकस्यैवात्मनो यद्वदङ्गभेदो विचित्रता ।
युगपद्बन्धपीडादिस्तद्वन्नानाशरीरता ॥ ११८ ॥
स्थितेऽपि वात्र नानात्वे कैवल्ये न विशेषता ।
एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥ ११९ ॥
सर्वज्ञत्वादिरूपेण सर्व एव शिवाः स्थिताः ।
व्यापकाश्च तथा सर्वे सर्व एवात्मसंविदः ॥ १२० ॥
एतस्यामप्यवस्थायां नामभेदो न विद्यते ।
हतं केनैकरूपत्वं सामान्येऽपि व्यवस्थिते ॥ १२१ ॥
शिवत्वे न विशेषोऽस्ति शावलेयादिवद्यथा ।
तासु व्यक्तिषु रूपादि force? रूपादिसंनिवेशादिभेदतः ॥ १२२ ॥
वैलक्षण्यं गवादीनां न तथेहास्ति किंचन ।
मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥ १२३ ॥
युगपत्सर्वकार्याद्वा संमतत्वादमत्सरात् ।
तावता विश्वसम्पत्तेः सर्वज्ञत्वाद्विचित्रता ॥ १२४ ॥

१५८ शिवदृष्टिः आ०-६
नानात्मभावे शैवे वा शैवे वाभेदवादिनि।
सर्वस्य सर्वरूपत्वं सर्वात्मत्वमवारितम् ॥ १२५ ॥
अनन्तशक्तियोगित्वादलुप्तत्वात् स्वशक्तिषु।
स्थितं शिवत्वं सर्वत्र विशेषाच्छैववादिनाम् ॥ १२६ ॥
एकत्वेन ततो ज्ञेया शिवता सर्वगोचरा ॥
इति श्रीमद्दर्शनानतिरेकं नाम षष्ठमाह्निकम् ॥

अथ
सप्तममाह्निकम्
अथ स्थिते सर्वदिक्वे शिवतत्त्वेऽधुनोच्यते ।
तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥ १ ॥
वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् ।
अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥ २ ॥
सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् ।
मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥ ३ ॥
चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् ।
तथापि कार्यभोगार्थं स ज्ञातः केन वार्यते ॥ ४ ॥
सकृज्ज्ञाते सुवर्णे हि भावना करणं व्रजेत् ।
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ५ ॥
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनापि वा ॥ ६ ॥
ज्ञातेऽपि तरुभूम्यादिदाढर्यान्न करणादिकम् ।
भूतले प्रत्ययं याति न भावः करणं न च ॥ ७ ॥
तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते ।
सर्व एवात एणैतद्भावनाकरणाच्च्युतम् ॥ ८ ॥
विज्ञातं जायते पुंसा यद्यप्येवमवस्थितम् ।
तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् ॥ ६ ॥
तज्ज्ञानस्फुटताहेतौ चिन्तारत्नसुवर्णवत् ।
वह्निर्यद्यपि विज्ञातः प्रकाशादि करोत्यसौ ॥ १० ॥
तथापि योजितो युक्त्या प्रकाशमधिकं गृहे ।
दीपेनान्यतमेनापि न तथा वह्निराशिना ॥ ११ ॥
तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये ।
ततः स्वात्मक्रियोन्मुख्यमिच्छाप्रथमकोद्गमः ॥ १२ ॥

१६० शिवदृष्टिः [ आ०-७
समस्तचित्रकार्यान्तर्गर्भिणी शिबिकाकृतिः ।
स्वरूपाह्लादनिर्मुक्तिरहितेच्छोदयोद्गमः ॥ १३ ॥
शवला चितिरुच्येत परस्य पररूपिणी ।
सा शक्तिः परमेशस्य संस्थिता द्रव्यकर्मवत् ॥ १४ ॥
न द्रव्यव्यतिरिक्तास्ति क्रिया न च न विद्यते ।
न तयापि विना कार्यं किंचनापि हि जायते ॥ १५ ॥
न चापि केवलाद्द्रव्यात् किंचनापि प्रवर्तते ।
तस्मादित्यमिह ज्ञेयं शाक्तं रूपमभेदवत् ॥ १६ ॥
प्रथमोदय इच्छायाः सर्वभावैक्यदेश्यता ।
स एव शाक्तबोधात्मस्वच्छावयवरूपवान् ॥ १७ ॥
स्वानन्दैकरसाह्लादी स्वकार्यार्थशरीरवान् ।
तथास्थितस्य ध्यानेन बोधाद्वा तत्स्वरूपभाक् ॥ १८ ॥
तस्येच्छास्पन्दनं पूर्वन्यग्भावो ह्लादसंगमः ।
भूपभूपतिशक्त्याभमग्न्यं तत्पूर्णचिल्लयात् ॥ १९ ॥
याति व्याप्तिं तथाभूतां शाम्भदामोदसत्क्रियाम् ।
शान्तानन्दवपुः स्वच्छ उररीकृतदृक्क्रियः ॥ २० ॥
मध्यव्योमशान्तबोधभरलब्धोदयः शिवः ।
तस्यापि विद्युदालोकवदभेदवती चला ॥ २१ ॥
भाविस्वभेदतत्कृत्यज्ञानप्रौन्मुख्यवर्तिनी ।
निजभावकृतसृष्टितदनुग्रहचेतना ॥ २२ ॥
भासतेऽवस्थिता शक्तिः शैवी शैवार्थदायिका ।
ततः सैव स्वयं बाह्यकार्यप्राक्कलनात्मिका ॥ २३ ॥
न्यग्भूतेच्छा ज्ञानमयी स्पन्दनाविततांगिनी ।
विद्यामन्त्रकलाकल्पदेहसंपिण्डतोद्गवा ॥ २४ ॥
तेजःकणप्रसरवदुपलभ्या वियत्यलम् ।
स्थितिः सादाशिवी चासावधिकाराभिमानता ॥ २५ ॥
समला तत्समाश्लेषात् सर्वेशित्वसमुद्गमः ।
तस्य शक्तिप्रदीपस्य किरणाभोद्यमप्रदा ॥ २६ ॥