सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 172, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 172

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५५
अप्रत्यक्षोऽक्षसम्बन्धो दूरस्थः शक्तिरूह्यते ।
तस्मान्न ज्ञानशून्यत्वं न शून्यं चोपपद्यते ॥ ८३ ॥
शून्यस्य बोधाभावत्वात् कः केनात्र विबोध्यते ।
न हि शून्यस्य शून्येन बोधनं न च बाधनम् ॥ ८४ ॥
शून्यत्वे सति युज्येत प्रमाणं वोपपद्यते ।
संवृत्यैव संवृत्तिर्हि निवार्या चेदसङ्गमः ॥ ८५ ॥
शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् ।
अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥ ८६ ॥
सर्वस्य सर्वभावत्वादिहासौ नोपपद्यते ।
चर्मोपमश्छेदित्यादि यद्बौद्धैः समुदाहृतम् ॥ ८७ ॥
सर्वत्र सर्वसंवित्तेस्तत्सर्वं विनिवारितम् ।
विकल्पा येऽपि चार्वाकैरुक्तास्तेऽपि न बाधकाः ॥ ८८ ॥
सर्वत्र सारभूतत्वात्सर्वत्रैवाजडत्वतः ।
सर्वभावस्वभावत्वादभावस्यापि भावतः ॥ ८९ ॥
घटात्मककटात्मादेः पदार्थपदयोगतः ।
अभावस्य कपालादिरूपत्वाद्वस्तुता स्थिता ॥ ९० ॥
अभावस्यापि वस्तुत्वे न विनाशोऽस्ति कस्यचित् ।
अभावस्यापि करणे सम्पत्तिर्नोपपद्यते ॥ ९१ ॥
कुण्डलादिषु भावेषु सर्वथैव सुवर्णता ।
व्याप्तेरखण्डितैवास्ते शिवता सर्वगामिनी ॥ ९२ ॥
सर्वज्ञानातिरेकत्वे स्थिते वक्ष्यसि किं स्वके ।
दर्शने यत्र नानात्वं बन्धमोक्षावुदाहृतौ ॥ ९३ ॥
मलित्वमात्मनां प्रोक्तं सर्वभावेषु भेदिता ।
सत्यमुक्तमारुरुक्षोस्तत्क्रमप्रतिपत्तये ॥ ९४ ॥
अन्यथा ह्येकरूपत्वे विचिकित्सा प्रवर्त्तते ।
विना बोधं प्राथमिके निर्यत्नश्च भवेदसौ ॥ ९५ ॥
बन्धमोक्षाद्यभावेन निर्मलोऽत्र करोति किम् ।
न च वा प्रत्ययं गच्छेत् झटित्येकोक्तिमात्रतः ॥ ९६ ॥