शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 164, कुल 188 में से
संदर्भ में पढ़ेंआ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४७
अविद्यायोगतो वापि शाक्तरूपत्वतोऽपि वा ।
ज्ञानस्यापि बहिरूपे शब्दरूपेऽपि वा तथा ॥ ६२ ॥
एतदेव हि युक्तं तु घटादेर्बाह्यमेकतः ।
कुड्यादिनिर्गताच्चैव योगिनां क्वापि दर्शनात् ॥ ६३ ॥
अग्रकव्यवधानादेरथ चेत्कार्यनाशिता ।
पदार्थवित्प्रक्रियया प्रक्रिया प्रक्रियैव सा ॥ ६४ ॥
कार्यस्य नाशे तत्कार्यकार्ये तत्कार्यनाशिता ।
क्षणलक्षाणि जायन्ते क्रमात्तद्विनाशतः ॥ ६५ ॥
तथोत्पत्तौ क्षणानन्त्यमीश्वरेच्छावशादथ ।
क्षण एको न चैवं तच्चेश्वरेच्छाविरोधकृत् ॥ ६६ ॥
एकक्षणत्वं लक्ष्यस्य बहुकालस्य नार्हता ।
क्षणभङ्गान्तरं चैवं हि स निवार्य इहाग्रतः ॥ ६७ ॥
स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा ।
स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥ ६८ ॥
सर्वज्ञत्वादशेषस्य तदहर्जातदारके ।
क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥ ६६ ॥
उदरस्थस्य च ग्रासग्रहणान्मातुरन्तरे ।
अशिक्षितानां तरणात् प्राणिनां निम्नगाजलात् ॥ १०० ॥
सर्वज्ञत्वे न किं सर्वे सर्वज्ञाः स्युः शरीरिणः ।
सर्व एव हि सर्वज्ञा मनःसंकल्पनावशात् ॥ १०१ ॥
संकल्पकेन चित्तेन तत्तज्ज्ञानमसंशयम् ।
संकल्पानां च सत्यत्वं पुरस्तात्प्रतिपादितम् ॥ १०२ ॥
सर्वभावग्रहणतायोग्यत्वाद्वा क्रमस्थितेः ।
प्रत्यक्षाद्यैरुपायैर्वा निरुपायतयापि वा ॥ १०३ ॥
तत्तद्रूढिवशाद्वापि सर्वज्ञत्वप्रवर्तनात् ।
सर्वे सर्वात्मभावेन सर्वज्ञा वा व्यवस्थिताः ॥ १०४ ॥
सर्वे भावाः स्वमात्मानं जानन्तः सर्वतः स्थिताः ।
मदात्मना घटो वेत्ति वेद्म्यहं वा घटात्मना ॥ १०५ ॥