शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 174, कुल 188 में से
संदर्भ में पढ़ेंआ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५७
अनुवृत्तिः किमाधिक्याद्रागाद् वा तर्हि दूषणम् ।
अनादिशिवतत्त्वस्य स्वामोदं किं न विद्यते ॥ १११ ॥
तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् ।
अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥ ११२ ॥
निजं तस्य न हीयेत तद्वत् परमकारणे ।
यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥ ११३ ॥
तथा तस्य यथान्येषां यथान्येषां तथास्य तु ।
तस्मादनेकात्मतया दोषा आयान्ति तादृशाः ॥ ११४ ॥
तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता ।
मोक्षता चोपपद्येत निर्मलं समलं तथा ॥ ११५ ॥
रूपद्वयं युक्तिमत्स्याज्जन्मादेर्युगपन्न च ।
सम्भवः स्यात्तथारूपशिवत्वादन्यदर्शने ॥ ११६ ॥
दूषणं संप्रसज्येत न तथेह कदाचन ।
एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा ? ॥ ११७ ॥
एकस्यैवात्मनो यद्वदङ्गभेदो विचित्रता ।
युगपद्बन्धपीडादिस्तद्वन्नानाशरीरता ॥ ११८ ॥
स्थितेऽपि वात्र नानात्वे कैवल्ये न विशेषता ।
एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥ ११९ ॥
सर्वज्ञत्वादिरूपेण सर्व एव शिवाः स्थिताः ।
व्यापकाश्च तथा सर्वे सर्व एवात्मसंविदः ॥ १२० ॥
एतस्यामप्यवस्थायां नामभेदो न विद्यते ।
हतं केनैकरूपत्वं सामान्येऽपि व्यवस्थिते ॥ १२१ ॥
शिवत्वे न विशेषोऽस्ति शावलेयादिवद्यथा ।
तासु व्यक्तिषु रूपादि force? रूपादिसंनिवेशादिभेदतः ॥ १२२ ॥
वैलक्षण्यं गवादीनां न तथेहास्ति किंचन ।
मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥ १२३ ॥
युगपत्सर्वकार्याद्वा संमतत्वादमत्सरात् ।
तावता विश्वसम्पत्तेः सर्वज्ञत्वाद्विचित्रता ॥ १२४ ॥