सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 171, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 171

१५४ शिवदृष्टिः [ आ०-६
विनाशो कारणानां हि विनाशः कारणात्मना ।
स्वयं विनश्येन्मृत्पिण्ड एवं चेत्स विनश्यति ॥ ६९ ॥
किं विधाय घटं नो वा स मृत्पिण्डोऽभिधीयताम् ।
अकृत्वा करणं कुम्भे कृत्वा तस्य स्वरूपता ॥ ७० ॥
कुतो घटस्य जननाकारनामावधारणम् ।
यावता प्राग्दशानष्टा न प्रवृत्तिरथान्यथा ॥ ७१ ॥
विरोधे दण्डघटयोर् दृष्टान्तोऽस्ति न ते क्वचित् ।
तेजसा तमसो यस्मान्न विनाशस्त्वयेष्यते ॥ ७२ ॥
अकार्यत्वाद्धिनाशस्य प्रतिबन्धो न चापि ते ।
स्थिरस्य प्रतिबन्ध्यत्वात् क्षणिकस्य न युज्यते ॥ ७३ ॥
कपालादिकजन्यत्वमभावस्तस्य संगता ।
सत्यस्य कारणापेक्षा घटादिजनने यथा ॥ ७४ ॥
नश्वरानश्वरत्वेऽपि स्वभावे प्रविकल्पनाः ।
अत्र नैव प्रवर्तन्ते हेतुसन्निधिनश्वराः ॥ ७५ ॥
स्वभावत्वात्स्थितं तस्मादेकं तत्त्वं तथास्थितेः ।
भेदेन वाप्यभेदेन यदि वा नैकरूपता ॥ ७६ ॥
सामान्याभावतस्तर्हि भवतो नानुमानता ।
सा भविष्यत्यपोहेन सोऽपि केनोपपद्यते ॥ ७७ ॥
घटमानय शब्दस्य प्रतिषेधेन वाच्यता ।
अघटादेरपोहेन किं घटं प्रतिपद्यसे ॥ ७८ ॥
शून्यतां वा शून्यतायां व्यर्थता शब्दगोचरे ।
युगपद्वा घटाद्यर्था जगत्यानन्त्यमागताः ॥ ७९ ॥
निवृत्ते वाच्यसम्बन्धे प्रद्वेषो विधिगः परम् ।
अघटत्वं न सामान्यं किं न वा ह्यविशेषकम् ॥ ८० ॥
तस्याप्यवस्तुरूपत्वे न किंचित्कथितं भवेत् ।
एतावान् वाच्यसम्बन्धो यदन्तःस्फुरणात्मता ॥ ८१ ॥
उपलब्धिः पुनर्ज्ञेया प्रमाणान्तरगोचरा ।
धूमात्सम्बन्धतो वह्नेः परोक्षे स्फुरणं न किम् ॥ ८२ ॥