सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 176, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 176

अथ
सप्तममाह्निकम्
अथ स्थिते सर्वदिक्वे शिवतत्त्वेऽधुनोच्यते ।
तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥ १ ॥
वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् ।
अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥ २ ॥
सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् ।
मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥ ३ ॥
चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् ।
तथापि कार्यभोगार्थं स ज्ञातः केन वार्यते ॥ ४ ॥
सकृज्ज्ञाते सुवर्णे हि भावना करणं व्रजेत् ।
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ५ ॥
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनापि वा ॥ ६ ॥
ज्ञातेऽपि तरुभूम्यादिदाढर्यान्न करणादिकम् ।
भूतले प्रत्ययं याति न भावः करणं न च ॥ ७ ॥
तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते ।
सर्व एवात एणैतद्भावनाकरणाच्च्युतम् ॥ ८ ॥
विज्ञातं जायते पुंसा यद्यप्येवमवस्थितम् ।
तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् ॥ ६ ॥
तज्ज्ञानस्फुटताहेतौ चिन्तारत्नसुवर्णवत् ।
वह्निर्यद्यपि विज्ञातः प्रकाशादि करोत्यसौ ॥ १० ॥
तथापि योजितो युक्त्या प्रकाशमधिकं गृहे ।
दीपेनान्यतमेनापि न तथा वह्निराशिना ॥ ११ ॥
तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये ।
ततः स्वात्मक्रियोन्मुख्यमिच्छाप्रथमकोद्गमः ॥ १२ ॥