शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 170, कुल 188 में से
संदर्भ में पढ़ेंआ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५३
यत्तत्सत् क्षणिकत्वेऽपि सत्त्वमप्यक्षगोचरम् ।
सादृश्याद्भ्रान्तमक्षं चेददुष्टं प्राग्ग्रहे यथा ॥ ५५ ॥
दृष्टान्तेऽपि हि सादृश्ये प्रत्यक्षेण क्षणग्रहः ।
दीपज्वालासमूहेषु कम्पनं न विनाशिता ॥ ५६ ॥
नापि क्रमयौगपद्यविकल्पाः सहकारिणाम् ।
सन्निधौ कृतशक्तित्वादनेकेषां तथास्थितेः ॥ ५७ ॥
भावानां चित्रशक्तीनामभेदो हेमभेदवत् ।
वैलक्षण्यमपूर्वत्वं बाह्याभासक्रियोद्गमात् ॥ ५८ ॥
अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके ।
तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥ ५६ ॥
घटो नश्यत्यात्मनेति किंचित्कुर्वन् किमात्मना ।
नश्यत्यात्मन्यकुर्वन् वा तदेवं स्थित एव सः ॥ ६० ॥
कुर्वन् वा किं तदा कुर्वन् न भावं तद्घटादिकात् ।
अनन्यं व्यतिरिक्तं वा यद्यर्थनन्यस्तथाविधः ॥ ६१ ॥
अन्यत्वेऽन्यसमुत्पत्तौ घटस्यायातमत्र किम् ।
आत्मना परतो वापि विनाशेऽत्रापि तादृशाः ॥ ६२ ॥
विकल्पा अथवा नश्येदसावेतावदेव सत् ।
तत्रापि किंचित्कुर्वन्किं स नश्यति तथाविधाः ॥ ६३ ॥
विकल्पाः पुनरायान्ति न चाभावक्रियां प्रति ।
घट एव करणत्वे सामग्री जनिकेति ते ॥ ६४ ॥
दर्शनं यद्यभावस्य तुच्छस्य करणं कथम् ।
बहुभिस्तर्हि तुच्छं हि घटोऽपि जनयेत्कथम् ॥ ६५ ॥
नाशं घटस्य जनयेत्तत्सम्बन्धितया स्थितम् ।
मृत्पिण्डस्य घटोत्पत्तौ सति तज्जननात्मके ॥ ६६ ॥
रूपे हेत्वन्तरापेक्षा यत्र तत्र तथा कृता ।
घटस्य नश्वरात्मत्वे मुद्गरादेरपेक्षणम् ॥ ६७ ॥
किं वा नाश्यं न मृत्पिण्डं घटस्य जनकं भवेत् ।
तदनाशे न किंचित्स्याद्घट एव न जायते ॥ ६८ ॥