शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 177, कुल 188 में से
संदर्भ में पढ़ें१६० शिवदृष्टिः [ आ०-७
समस्तचित्रकार्यान्तर्गर्भिणी शिबिकाकृतिः ।
स्वरूपाह्लादनिर्मुक्तिरहितेच्छोदयोद्गमः ॥ १३ ॥
शवला चितिरुच्येत परस्य पररूपिणी ।
सा शक्तिः परमेशस्य संस्थिता द्रव्यकर्मवत् ॥ १४ ॥
न द्रव्यव्यतिरिक्तास्ति क्रिया न च न विद्यते ।
न तयापि विना कार्यं किंचनापि हि जायते ॥ १५ ॥
न चापि केवलाद्द्रव्यात् किंचनापि प्रवर्तते ।
तस्मादित्यमिह ज्ञेयं शाक्तं रूपमभेदवत् ॥ १६ ॥
प्रथमोदय इच्छायाः सर्वभावैक्यदेश्यता ।
स एव शाक्तबोधात्मस्वच्छावयवरूपवान् ॥ १७ ॥
स्वानन्दैकरसाह्लादी स्वकार्यार्थशरीरवान् ।
तथास्थितस्य ध्यानेन बोधाद्वा तत्स्वरूपभाक् ॥ १८ ॥
तस्येच्छास्पन्दनं पूर्वन्यग्भावो ह्लादसंगमः ।
भूपभूपतिशक्त्याभमग्न्यं तत्पूर्णचिल्लयात् ॥ १९ ॥
याति व्याप्तिं तथाभूतां शाम्भदामोदसत्क्रियाम् ।
शान्तानन्दवपुः स्वच्छ उररीकृतदृक्क्रियः ॥ २० ॥
मध्यव्योमशान्तबोधभरलब्धोदयः शिवः ।
तस्यापि विद्युदालोकवदभेदवती चला ॥ २१ ॥
भाविस्वभेदतत्कृत्यज्ञानप्रौन्मुख्यवर्तिनी ।
निजभावकृतसृष्टितदनुग्रहचेतना ॥ २२ ॥
भासतेऽवस्थिता शक्तिः शैवी शैवार्थदायिका ।
ततः सैव स्वयं बाह्यकार्यप्राक्कलनात्मिका ॥ २३ ॥
न्यग्भूतेच्छा ज्ञानमयी स्पन्दनाविततांगिनी ।
विद्यामन्त्रकलाकल्पदेहसंपिण्डतोद्गवा ॥ २४ ॥
तेजःकणप्रसरवदुपलभ्या वियत्यलम् ।
स्थितिः सादाशिवी चासावधिकाराभिमानता ॥ २५ ॥
समला तत्समाश्लेषात् सर्वेशित्वसमुद्गमः ।
तस्य शक्तिप्रदीपस्य किरणाभोद्यमप्रदा ॥ २६ ॥