षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
[Header] द्वितीयोऽध्यायः (३) ८१
यो वै य एवोद्गाता धूर्षु यथोक्तासु महाव्रतं वेद महाव्रतस्तोत्रदृष्टिं
कुर्यात् अस्मिन् ज्ञातारि सर्वाः प्रजाः पुण्याः स्तुतिरूपा वाचो वदन्ति ।
प्रथितकीर्तिर्भवेदित्यर्थः ॥ ६ ॥
तत्रैव विशेषमाह--
शिरो गायत्र्युरस्त्रिष्टुप् मध्यं जगती पादावनुष्टुप्
सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवं वेद ॥ ७ ॥
तत्र गायत्री शिर इति, त्रिष्टुबुर इति, जगती मध्यमिति, अनुष्टुप्
पादानित्येवं यो वेद अस्मिन् पुण्या वाचो वदन्तीति ॥ ७ ॥
एवं विदुषो गायत्र्यादिषु सप्रशंसं व्रतं दर्शयति--
यो वा एवं धुरो विद्वानथासां व्रतं चरत्यागमि-
ष्यतोऽस्य पूर्वेद्युः पुण्या कीर्तिरागच्छति ॥ ८ ॥
अथशब्दो वाक्यालंकारार्थः । य एवं यथोक्तप्रकारेण धुरो विद्वान्
जानन् आसां गायत्र्यादीनां धुरां व्रतं तद्विषयं नियमं चरति । यत्र यत्रा-
गमिष्यतोऽस्य पूर्वेद्युः पुरस्तादेव पुण्या कीर्तिरागच्छतीति ॥ ८ ॥
किं तद्व्रतम् ? तत्राह--
सुरभिरेव गन्धो गायत्र्या व्रतम् । दर्शनीयं त्रिष्टुभः ।
श्रवणीयं जगत्याः । यदेव वाचा पुण्यं वदति तदनु-
ष्टुभः । तदु सर्वासां व्रतम् ॥ ९ ॥
सुरभिरेव गन्धो घ्रातव्य इति गायत्र्या व्रतं तद्विषयो नियमः । अनुकूल-
मेव द्रष्टव्यमिति त्रिष्टुभो व्रतम् । चक्षुःप्राणत्वात् त्रिष्टुभः । श्रवणीयंमेव
श्रोतव्यमिति जगत्याः । श्रोत्रप्राणत्वात् तस्याः । यदेव पुण्यं तद् एव वाचा
वदतीति अनुष्टुभो व्रतम् । वाक्प्राणत्वात् अनुष्टुभः । तदु तदेव सर्वासां
चतसृणां व्रतमिति ॥ ९ ॥
- MT अस्य तस्मिन् for अस्मिन्.
- MS add हि after जगत्याः.
- MSR om. एव.
प० 6
८१ षड्विंशब्राह्मणम्
प्रकारान्तरेण तद्भूतं प्रशंसति—
तदु विद्वांसमाहुरति नोऽवादीरिति तदना-
दृत्यम् ॥ १० ॥
तत् व्रतं विद्वांसं संजानानमुद्गातारं यद्येवमाहुरन्ये त्वं नोऽत्यवादीस्त्व-
मस्मानतिक्रम्यावादीरिति । ततस्तेनैषां वाक्यमनादृत्यम् । तेन विदुषां तदना-
दरणीयम् । एतदुक्तं भवति—अतिवाद्यसीत्युक्तेऽपि व्रतमहिम्ना तस्याति-
वादनदोषो नास्तीति ॥ १० ॥
अथाज्यस्तोत्रेषु धुरो विधत्ते—
यस्य वै धुरो विगीतास्तस्य संगीताः ॥ ११ ॥
यस्यैव यजमानस्य संबन्धिनि यज्ञे धुरो विगीताः पृथग्गीतास्तस्यैव
तत्र धुरः संगीताः संगत्यापि गातव्याः ॥ ११ ॥
तदेव विवृणोति—
यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु
संगायन्ति तस्य वै धुरो विगीतास्तस्य संगीताः ॥ १२ ॥
यस्यैव यज्ञे बहिष्पवमाने स्तोत्रे सदसो बहिर्देशे एताः संनिहित-
पूर्ववाक्ये प्रकृता गायत्र्याद्याश्चतस्रो विगीय पृथक् सदित्यादिनिधनैर्गीत्वा
पश्चादाज्येषु स्तोत्रेषु अन्तरा सदसो मध्ये संगायन्ति । ता धुर एकेनैव
4. RTSI संजानानाम्, J ज्ञानिनम् for संजानानम्; RTSIK om.
विद्वांसं; RIS तु for त्वं ; RTI. नोऽस्मांस्त्वमतिवादीर् , SM नोऽस्मान्
त्वमतिक्रम्यावादीर् for नोऽत्य....०वादीर्.
5. J तत् for ततस्.
10. RS. यस्य वै for यस्यैव; J adds गायत्र्याः after विगीताः;
MT. एषः for एव; J om. एव.
15. J एतत् for एताः; RSI ०हिताः for ०हित०.
16. J प्रकृतौ for प्रकृताः ; R च ताः for चतस्रो० ; J पञ्च पञ्च पृथक्
पृथक् for विगीय पृथक् ; M. विगीयन्ते for विगीय ; J ०त्यादीनि निधनानि
नैजित्वा for त्यादिनिधनैर्गीत्वा.
17. J संगायन्तीति for संगायन्ति । ता०.
द्वितीयोऽध्यायः (३) ८३
निधनेन प्रकृतेन समानं गायेदित्यर्थः । तथा च सति तस्य यज्ञे धुरो
विगीताश्च भवन्ति । संगीताश्च भवन्ति । विगानं संगानं चोभयमपि कृतं
भवति । उभयमप्यवश्यं कर्तव्यमेव । धुरां चक्षुरादिरूपत्वेन संस्तावनात्
चक्षुरादीनां च बहिर्मुखे[न] पृथक् पृथगवस्थितानामन्तर्मुखेनास्यामेकस्यां
संगत्य मूलतोऽवस्थानात् ॥ १२ ॥
आज्येषु विकल्पेन संगानं दर्शयितुं प्रथमं पक्षं तावदाह—
यः कामयेतैकधा यजमानं यश ऋच्छेद्यथादिष्टं
प्रजाः स्युरिति होतुराज्ये गायेत् । एकधा यजमानं यश
ऋच्छति यथादिष्टं प्रजा भवन्ति ॥ १३ ॥
य उद्गाता एकधा युगपदेव यशो यजमानम् ऋच्छेत् प्राप्नुयात्
तथा यथादिष्टं यजमानस्य कामनमतिक्रम्य प्रजाः पुत्रपौत्रादिकाः स्युः
भवेयुरिति कामयेत इच्छेत तर्हि होतुराज्य एव गायेत् । ता धुरः संगायेत् ।
तेन एकधा युगपदेव यजमानं यश ऋच्छति प्राप्नोति । यथादिष्टम् एव
प्रजा भवन्ति ॥ १३ ॥
द्वितीयं पक्षं दर्शयति—
यः कामयेत कल्पेरन् प्रजा यथादिष्टं यजमानः
स्यादिति यथाज्यं गायेत् । कल्पन्ते प्रजा यथादिष्टं
यजमानो भवति ॥ १४ ॥
- M. adds स्तुता गीता० after विगीता०; RSM om. संगीताश्च
भवन्ति; T. समानं for संगानं; S. विकृतं for अपि कृतं; J adds. तु after कृतं. - TIK संस्तावात् , J संस्ते वाक्, S संस्थावान् for संस्तावनात् .
- TIK मुखैः for मुखेन; J. om. one पृथक् ; M. द्वयम, JT.
द्वयाम् for अस्याम्. - M. संगत्या J संगत्यम् for संगत्य; J. उभयतो० for मूलतो०.
- RSI. आज्येन for आज्येषु; RKSI. संगमानं, TI समानं for संगानं.
- J. om. य उद्गाता....गायेत् ।
यो यजमानस्य प्रजाः कल्पेरन् समर्थाः प्रजा भवेयुरिति । किं च,
यजमानो यथादिष्टं स्यात् संकल्पसिद्धिश्च भवेदिति यदि कामयेत उद्गाता
तर्हि यथाज्यम् आज्येषु चतुर्ष्वपि क्रमेण तत्तत्प्रथमासु चतस्रो धुरः सकृत्—
सकृद् गायेत् । तेन अस्य यजमानस्य प्रजाः कल्पन्ते । यजमानो यथादिष्टं
च भवति ॥ १४ ॥
तद्विद्वांसं प्रशंसति—
यो वा एवं धुरो वेदानपजय्यमात्मने च यजमानाय
च लोकं जयत्यति यजमानमात्मानं मृत्युं परं स्वर्गं लोकं
हरति ॥ १५ ॥
यश्चैवोद्गाता एवमुक्तप्रकारेण धुरो वेद सः अनपजय्यं केनापि
जेतुमशक्यं लोकमात्मने यजमानाय च स्वार्थं यजमानार्थं च जयति । किं
च, मृत्युम् अतिक्रम्य आत्मानं यजमानं च परम् उत्कृष्टं स्वर्गं हरति
नयतीति ॥ १५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥
- J adds कामयेत after यजमानस्य.
- M. संकल्पश्च यजमानस्य शतायुः पुरुषः शतेन्द्रियः इति यजमानमृत्युं
यद्युद्गाता कामयेत for संकल्पसिद्धिश्च...उद्गाता. - M. adds: स्तोत्रीयासु चतुर्ष्वपि after प्रथमासु.
- RKSI. om. तेन; J प्रभुः प्रकल्पन्ते for प्रजाः कल्पन्ते
- M. adds शतायुषं जीवीभवति after भवति ।
- T लोकलोकं for लोकं; KTM. परां ShMs पराक् for परं.
- M. adds अनतिसाधारणं स्वर्गादिलोक मित्यर्थः । after लोकम् ; M.
आत्मने स्वात्मने यजमानाय लोकं जयतीत्यर्थः for आत्मने...जयति । - M. adds उद्गाता स्वात्मानं यजमानं च मृत्युमतिक्रम्य after यजमानं
च; M. परामुत्कृष्टां for परमुत्कृष्टं. - KT जनयति for नयति; M. om. नयति and adds अर्थः
after इति.
चतुर्थः खण्डः
अथोत्तरत्र होत्रादीनामग्न्यादिरूपेण व्यवहारः क्रियते । तदुपयोगित्वेन
प्रकीर्णकान् कांश्चिद् धर्मानाह —
प्राञ्चमग्निमुन्नयन्ति तस्मात् प्राङासीनो होतान्वाह
प्राङासीनो यजति । प्राङासीनः शंसति ॥ १ ॥ 5
यस्मादग्नेरुन्नेतारः शालामुखीयादुत्तरवेद्यादौ प्राञ्चमग्निमुन्नयन्ति ।
तस्माद्धोता प्राङासीनः प्राङ्मुख उपविष्टो भूत्वाऽन्वाह अनुब्रवीतीति ।
प्रैषमनुवचनं कुर्यात् । तथा प्राङासीनो यजति याज्यां पठेत् । प्राङासीनः
शंसति शस्त्रं पठति ॥ १ ॥
धर्मान्तरमाह— 10
असावादित्यः प्राङपाङ् संचरति । तस्मादध्वर्युः
प्राङपाङ् संचरति ॥ २ ॥
यस्मादसौ परिदृश्यमान आदित्यः प्राङ् प्रागञ्चनः अपाङ् प्रत्यगञ्चनः
इमान् लोकान् संचरति प्रत्यहं, तस्मादध्वर्युः स्वकर्मणि प्राङपाङ्
संचरति ॥ २ ॥ 15
धर्मान्तरं दर्शयति—
अथैष चन्द्रमा दक्षिणेनैति तस्माद् ब्रह्माणं
दक्षिणत आसयन्ति ॥ ३ ॥ 18
2. M. adds पूर्वखण्डे बहिष्पवमानमाज्यानां धुर उक्ता before उत्तरत्र;
T adds उद्गातृ before होत्रा०.
6. Bh ०वेद्याप्राति, T ०वेदिप्रति, J वेद्यां प्रति for ०वेद्यादौ.
7. SRIK om. अन्वाह; Bh TJ om. भूत्वा; Bh ०ब्रूहि; TJ ०ब्रूते,
R ब्रुवन्ति for ब्रवीति.
9. J. शसनं for शस्त्रं; T om. शस्त्रं.
13. R om. अपाङ् प्रत्यगञ्चनः; Bh TK प्रत्यगादिमान् for प्रत्यगञ्चनः;
14. Bh TK om. इमान् लोकान् .
17. SK ब्राह्मणं, T ब्राह्मणान् for ब्रह्माणं.
[Page 86]
[Header] ८६ षड्विंशब्राह्मणम्
अथशब्दो वाक्योपक्रमे । यत एष चन्द्रमा दक्षिणेन पथा एति
गच्छति तस्माद् ब्रह्माणं दक्षिणतो दक्षिणदिग्भागे आसयन्ति
उपवेशयन्ति ॥ ३ ॥
अन्यं धर्मं दर्शयति—
अथैतस्यामुदीच्यां दिशि भूयिष्ठं [पर्जन्यो] विद्योतते
तस्मादेतां दिशमुद्गाता प्रत्युद्गायति ॥ ४ ॥
यत एतस्यां प्रसिद्धायाम् उदीच्यां दिशि भूयिष्ठम् अधिकं
पर्जन्यो विद्योतते विशेषेण स्वमहिमानं प्रकटयति तस्मादुद्गाता एताम्
उदीचीं दिशं प्रति उदङ्मुखः सन् उद्गायति ॥ ४ ॥
धर्मान्तरं विधत्ते—
अथैष आकाशो मध्यतो भूतानां सन्नस्तस्मान्मध्ये
सदस्यमासयन्ति ॥ ५ ॥
भूतानां पृथिव्यादीनां मध्ये एष व्याप्त आकाशः सन्नोऽवहितो
भवति । तस्मात् सदसो मध्ये सदस्यं सप्तदशमृत्विजम् आसयन्ति ॥ ५ ॥
धर्मान्तरं विधत्ते—
उच्चावचा वा आप उतेव गाधा भवन्त्युतेव
गम्भीरास्तस्माद्धोत्राशंसिन उतेव पञ्चर्चेन कुर्वन्त्युतेव
भूयसा ॥ ६ ॥
उत आप उच्चावचा न्यूनाधिकान्यूनाधिकभावेन वर्तन्ते
उत अपि च ता आपो गाधाः कचिदपगतप्रतिष्ठा इव भवन्ति ।
उत अपि च ता आपो गम्भीराः अगाधा इव भवन्ति । तस्मा द्धोत्राशंसिनोऽपि
[Footnotes]
[Fn 2] 2. TSK ब्राह्मणं for ब्रह्माणं; RTSIK दिग्भागे for दक्षिणदिग्भागे०.
[Fn 4] 4. KT Bh अन्य०, J अन्यद् for अन्यं.
[Fn 14] 14. RKS आसादयन्ति for आसयन्ति.
[Fn 19] 19. R Bh I om. उच्चावचा ; J om. न्यूनाधिका ०.
[Fn 21] 21. J adds उतेव गम्भीरा before उत.
द्वितीयोऽध्यायः (४) ८७
पञ्चर्चेन शस्त्रेण स्तुतिं कुर्वन्ति । उत अपि च भूयसा बह्वीभिः ऋग्भिः
साध्येन शस्त्रेण स्तुतिं कुर्वन्ति ॥ ६ ॥
धर्मान्तरं विधत्ते—
आदित्यस्यैव गतं रश्मयोऽनुयन्ति तस्मादध्वर्योरेव
गतं चमसाध्वर्यवोऽनुयन्ति ॥ ७ ॥
अत आदित्यस्यैव गतं गमनं रश्मयः तदीयाः अनुयन्ति अनु-
गच्छन्ति । तस्माद् अध्वर्योरेव गतं चमसाध्वर्यवोऽनुयन्तीति ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥
पादटिप्पण्यः (Footnotes):
- T नमस्कृति for स्तुतिं.
- TSIK. om. एव.
6 J om. अतः.
पञ्चमः खण्डः
अथ चमसभक्षणायोपहवादयः कथ्यन्ते + तत्र प्रथमं प्रातःसवन-
संबन्धीन् उपहवान् दर्शयति—
स प्रातःसवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥
स यजमानः चमसं भक्षयितुं प्रातःसवने सवनमुखीयेषु चमसेषु
चमसाध्वर्युभिराहृतेषूपहवमनुज्ञानम् इच्छते इच्छेत् ॥ १ ॥
कथमित्याशङ्क्य तत्र प्रथमं होतृविषयोपहवप्रकारं दर्शयति—
अग्निर्मे होता स मोपह्वयतां होतरुप माह्व-
स्वेत्युच्चैः ॥ २ ॥
मे मम अग्निरेव देवो होता । तदात्मको होता । स माम् उपह्वयताम्
अनुजानातु इति उपांशूच्चार्य हे होतः मामुपह्वयस्व अनुजानीहि इति
मन्त्रभागम् उच्चैः उच्चारयेत् ॥ २ ॥
अध्वर्युविषयोपहवप्रकारं दर्शयति—
आदित्यो मेऽध्वर्युः स मोपह्वयतामध्वर्य उप
माह्वयस्वेत्युच्चैः ॥ ३ ॥
मे मम आदित्य एव देवोऽध्वर्युः । स मामुपह्वयतामित्युपांशूच्चार्य
अध्वर्य उप माह्वयस्वेति मन्त्रभागमुच्चैरुच्चारयेदिति ॥ ३ ॥
- R Bh KTSI. om. स यजमानः; J om. चमसं भक्षयितुं; Bh. T
चमसस्य, R समं for चमसं; Bh. भक्षयित्वा for भक्षयितुं; J. सवनसंबन्धिसवन०
for सवने सवन० ; RSIK om. चमसेषु. - SI. om. अनुज्ञानम् ; RSI add यज्ञमात्मने after ०ज्ञानम्.
- Bh समन्त्या०, J मनुष्या० for तदा०.
- RSIK om. मम; RSIK आदित्यदेवो०, Bh TJ आदित्य एवा०
for आदित्य एव देवो०; TK ०ह्वयस्व माम, Bh. ०ह्वयस्व मान्नाम for ह्वयताम्.
द्वितीयोऽध्यायः (५) ८९
ब्रह्मविषयं तत्प्रकारं दर्शयति—
चन्द्रमा मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुप
माह्वयस्वेत्युच्चैः ॥ ४ ॥
मे मम चन्द्रमा एव ब्रह्मा । शिष्टं पूर्ववत् ॥ ४ ॥
उद्गातृविषयं तत्प्रकारं दर्शयति—
पर्जन्यो म उद्गाता स मोपह्वयतामुद्गातरुप
माह्वयस्वेत्युच्चैः ॥ ५ ॥
मे पर्जन्य एवोद्गाता । शिष्टं पूर्ववत् ॥ ५ ॥
सदस्यविषयं तद्दर्शयति—
आकाशो मे सदस्यः स मोपह्वयतां सदस्योप
माह्वयस्वेत्युच्चैः ॥ ६ ॥
आकाश एव सदस्यः । शिष्टं स्पष्टम् ॥ ६ ॥
होत्राशंसिविषयमपि तद्दर्शयति—
आपो मे होत्राशंसिनस्ते मोपह्वयन्तां होत्राशंसिन
उप माह्वयध्वमित्युच्चैः ॥ ७ ॥
एतदतिरोहितार्थम् ॥ ७ ॥
चमसाध्वर्युविषयोपह्ववप्रकारं दर्शयति—
रश्मयो मे चमसाध्वर्यवस्ते मोपह्वयन्तां चमसाध्वर्यव
उप माह्वयध्वमित्युच्चैः ॥ ८ ॥
रश्मय आदित्यकिरणा एव चमसाध्वर्यवः । अन्यत् स्पष्टम् । यद्यपि
होत्राशंसिनां चमसाध्वर्यूणां च चमसो नास्ति तथापि तदनुज्ञा लब्धव्येति नियमार्थं
4. Bh TIK. om. मम.
8. Bh JT om. मे पर्जन्य....तद्दर्शयति.
10. Bh T. om. आकाशो० ०त्युच्चैः.
12. Bh TJ. om. आकाश०....तद्दर्शयति.
21. Bh ०होत्रप्रशं०, T होत्राप्रशं० for होत्राशं०; Bh JS ०शंसिनः
for ०शंसिनां; J ०ध्वर्यवः for ०ध्वर्यूणां; Bh. चमसभुजो०, J चमसभाजो न
सन्ति for चमसो नास्ति
९० षड्विंशब्राह्मणम्
तत्प्रकारदर्शनमिति । अग्निर्में होतेत्यादयो ये मन्त्रास्ते याजमानाः । तथा
चानुकल्पे दर्शितम् । प्रथमः सवनमुखीयोऽग्निर्में होतेति याजमानमिति ॥८॥
यथोक्तं होत्राद्युपहवप्रकारं प्रशंसति—
ता वा एता देवता ऋत्विजामेव वाग्भिरुप-
ह्वयन्ते ॥ ९ ॥
ता एता अग्न्याद्या देवता एव ऋत्विजां संबन्धिनीभिरुपहवरूपा-
भिर्वाग्भिः उपहूयन्ते अनुज्ञाप्यन्ते ॥ ९ ॥
ततः किमित्यत्राह—
स उपहूतो भक्षयति ॥ १० ॥
पश्चात् स उपहूतः होत्रादिभिरनुज्ञातः सन् चमसं भक्षयति ॥ १० ॥
यथोक्तमनुज्ञानं प्रशंसति—
प्राणो यजमानोऽथो यत्रैतासां देवतानां लोकस्त-
दुपहूतो भवति ॥ ११ ॥
यजमानः प्राणः मुख्यत्वसाम्यात् । अथो अपि च यत्र एतासा-
मग्न्यादीनां देवतानां लोकः तत् तत्र होत्रादिभिः अग्न्यादिरूपैः उपहूतो
यजमानो अनुज्ञातो भवतीति ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥
- RS ०कारं दर्शितम for ०कारदर्शनम्; TSIK. om. ये and ते.
- S हि, I तद्धि, K तस्माद्वा for च; RS om. प्रथमं... याजमानमिति.
- RSI अग्न्यादि० for अग्न्याद्या०; SI संबन्ध्युप for संबन्धिनीभिर्वा०.
षष्ठः खण्डः
अथ माध्यंदिनसवनसंबन्धिन उपह्वान् दर्शयति—
माध्यंदिने सवने सवनमुखीयेष्वाहूतेषूपहव-
मिच्छते ॥ १ ॥
पूर्ववद्व्याख्येयम् ॥ १ ॥
कथमित्याशङ्क्य, तत्र प्रथमं होत्रादिविषयोपह्वप्रकारं दर्शयति—
वाङ्मे होता स मोपह्वयतां होतरुप माह्वयस्वेत्युच्चैः ।
चक्षुर्मेऽध्वर्युः स मोपह्वयतामध्वर्य उप माह्वयस्वेत्युच्चैः ।
मनो मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुप माह्वयस्वेत्युच्चैः । श्रोत्रं
म उद्गाता स मोपह्वयताम् उद्गातरुप माह्वयस्वेत्युच्चैः ॥ २ ॥
मे मम वागेव होता । मन्त्रोच्चारणरूपाया वाचः तत्कार्यत्वात् ।
चक्षुरेव । अध्वर्युः तत्पूर्वकत्वात् सर्वस्य हविस्त्यागकर्मणः । मन एव ब्रह्मा
यथा प्राणानां मध्ये मनोऽर्धभाक् तथा ब्रह्मा ऋत्विजामर्धभाक् । तथा च
ऐतरेयब्राह्मणम्—तस्माद् ब्रह्मार्धभागिवा एष इतरेषाम् ऋत्विजाम्
(७. ३४) इति । श्रोत्रं मे मम उद्गाता । गीतिप्रतीतिसाम्यात् । अन्यत्
पूर्ववद्व्याख्येयम् ॥ २ ॥
अथ सदस्यादिविषयमुपह्वप्रकारं दर्शयति—
योऽयमन्तश्चक्षुष्याकाशः स मे सदस्यः । स
मोपह्वयतां सदस्योप माह्वयस्वेत्युच्चैर्या इमा अन्तश्चक्षुष्यापस्ते
मे होत्राशंसिनस्ते मोपह्वयन्तां होत्राशंसिन उप माह्वयध्वमि-
2. Bh 1. om. ०सवन०.
12. R Bh 1 ] सर्व० for सर्वस्य; Bh 1 ] ०ध्यक्षताङ्ग० for हविस्त्याग०.
त्युच्चैः अङ्गानि मे चमसाध्वर्यवस्ते मोपह्वयन्तां चमसाध्वर्यव
उप माह्वयध्वमित्युच्चैः ॥ ३ ॥
अन्तश्चक्षुषि चक्षुषोर्मध्ये योऽयमाकाशः स एव मे सदस्यः ।
अन्तश्चक्षुषि या इमाः परिदृश्यमाना आपः ता एव होत्राशंसिनः । मम
अङ्गान्येव चमसाध्वर्यवः उपकारकत्वसाम्यात् । अन्यत् पूर्ववद्व्याख्येयम् ।
वाङ् मे होतेत्यादयोऽपि मन्त्राः याजमानाः । तथा चानुकल्पः—वाङ् मे
होतेति माध्यंदिनस्य सवनस्य याजमानमिति ॥ ३ ॥
यथोक्तम् उपह्ववप्रकारं दर्शयति—
ता वा एता देवता ऋत्विजामेव वाग्भिरुप-
ह्वयन्ते ॥ ४ ॥
ता एता वागादिरूपा देवता एव ऋत्विजामुपह्ववरूपाभिर्वाग्भिः
उपह्वयन्ते ॥ ४ ॥
ततः किं कुर्यादित्याह—
स उपहूतो भक्षयति ॥ ५ ॥
पश्चात् स उपहूतो होत्रादिभिरनुज्ञातः सन्नेव भक्षयति ॥ ५ ॥
यथोक्तमनुज्ञानं प्रशंसति—
अपानो यजमानोऽथो यत्रैतासां देवतानां लोकस्त-
दुपहूतो भवति ॥ ६ ॥
यजमानः अपानाद्यप्राणरूपः । अन्यत् समानमिति ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥
पादटिप्पण्यः (Footnotes):
- BhTJ ते for ता.
- Bh J ॰कारककरणत्व॰ for ॰कारकत्व॰; Bh. सामान्यात् for साम्यात् •
- J. om. आदयोऽपि...सवनस्य.
- Bh MTK. om. माध्यंदिनस्य सवनस्य.
सप्तमः खण्डः
अथ तृतीयसवनसंबन्धिनम् उपह्वं दर्शयति—
स तृतीयसवने सवनमुखीयेष्वाहुतेषूपहव-
मिच्छते ॥ १ ॥
पूर्ववद्व्याख्येयम् ॥ १ ॥
कथमित्याशङ्क्य, तत्र प्रथमं होत्रादिवित्रयोपह्वप्रकारं दर्शयति—
प्राणो मे होता स मोपह्वयतां होतरुप माह्वय-
स्वेत्युच्चैः । अपानो मेऽध्वर्युः स मोपह्वयताम् अध्वर्य उप
माह्वयस्वेत्युच्चैः । व्यानो मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुप
माह्वयस्वेत्युच्चैः । समानो म उद्गाता स मोपह्वयताम्
उद्गातरुप माह्वयस्वेत्युच्चैः ॥ २ ॥
प्राणादय एव होत्रादयः । एतावान् विशेषः । समानमन्यत् ॥ २ ॥
सदस्यादिविषयं तत्प्रकारं दर्शयति—
योऽयमन्तःपुरुष आकाशः स मे सदस्यः स
मोपह्वय
[header] ९४ षड्विंशब्राह्मणम् [/header]
मे होत्राशंसिनः । देहवर्तीनि लोमानि एव मम चमसाध्वर्यवः उपाङ्गस्व-
साम्यात् । समानमन्यत् । एते प्राणो मे होतेत्यादयोऽपि मन्त्रा याजमानाः ।
तथा चानुकल्पः—
प्राणे मे होतेति याजमानमिति ॥ ३ ॥
यथोक्तमुपहवप्रकारं प्रशंसति—
ता वा एता देवता ऋत्विजामेव वाग्भि-
रुपह्वयन्ते ॥ ४ ॥
पूर्ववत् ॥ ४ ॥
ततः किं कुर्यादित्याह—
स उपहूतो भक्षयति ॥ ५ ॥
स उपहूतः सन्नेव चमसं भक्षयतीत्यर्थः ॥ ५ ॥
यथोक्तमनुज्ञानं प्रशंसति—
स उदानो यजमानोऽथो यत्रैतासां देवतानां
लोकस्तदुपहूतो भवति ॥ ६ ॥
यजमान उदानाख्यप्राणरूपः । शिष्टं पूर्ववद्व्याख्येयम् ॥ ६ ॥
एवमुपहवान् दर्शयित्वा इदानीं होतुः सर्वचमसेष्वपि भक्षणं विधत्ते—
सर्वेषां वै वषट्कर्ता चमसं भक्षयेत् ॥ ७ ॥
वषट्कर्ता होता सर्वेषाम् एवर्त्विजां चमसं भक्षयेत् । न स्वस्यैव
चमसमित्यर्थः ॥ ७ ॥
किं वषट्कर्ता उद्गातृचमसमपि भक्षयेदुत नेत्यत्राह—
देवानां वा एतद्यज्ञस्य मुखं यदुद्गातृचमसम् ।
तस्मादुद्गातृचमसं नान्यो भक्षयेत् ॥ ८ ॥
- Bh MT om. उपहवप्रकारं ; MT स्तौति for प्रशंसति.
- RSIK om. ततः; J तत्र for ततः; RKSI add अत्र after इति.
- RTSK. om. सः
- Bh J शेषं for शिष्टं.
16 J. भक्षप्रसङ्गेनान्यद्विधेयं किञ्चिदाह for एवम्- ...विधत्ते - RSI स्वयमेव for स्वस्यैव.
- Bh J. om. उत.
देवानामेव यज्ञस्य एतत् मुखं यदुद्गातृचमसं तत्र स्थितं सोमात्मकं
हविः । यत एवं तस्मात् उद्गातृचमसम् अन्यो वषट्कर्ता न भक्षयेत् ॥ ८ ॥
यथोक्तार्थस्य वेदितारं प्रशंसति—
एवं विदुषो ह वै यज्ञो न व्यथते । एवं विदुषो ह वै
यजमानस्य स्वर्ग्यं पुत्र्यं पशव्यमिष्टं भवति । एवं विद्वान्
ह वै यजमानो द्विषन्तं भ्रातृव्यमभिभवति । अथ वा अतो
यज्ञे हीनं कुर्यात् ॥ ९ ॥
एवम् उक्तप्रकारेण विदुषो यजमानस्य यज्ञो न व्यथते व्यथारहितः
अदुष्ट एव भवतीत्यर्थः । किञ्चैवं विदुषो यजमानस्य इष्टम् अभिलषितं
स्वर्ग्यं यागफलभूतस्वर्गहितं भवति । इह लोके पुत्र्यं पुत्रहितं, पशव्यं
पशुहितं च तत्साधनमित्यर्थः । तथा एवं विद्वान् यजमानो द्विषन्तं भ्रातृव्यं
शत्रुमभिभवत्येव । अथ वै अपि च यः एवं विद्वान् अतो यथोक्तादङ्गजातात् यज्ञे
हीनं कुर्यात् । सोऽपि तं यज्ञं संपूर्णमेव कृतवान् भवतीति विशेषः ॥ ९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये सप्तमः खण्डः ॥ ७ ॥
समाप्तश्च द्वितीयाध्यायः ॥ २ ॥
पादटिप्पण्यः (Footnotes):
2. Bh J. om. हविः
9. Bh T. अदृष्टः for अदुष्टः.
13. R Bh Sl. शेषः, J इत्यर्थः for विशेषः.
तृतीयाध्यायः
अथार्त्विज्येषु ऋत्विजां यजमानस्य च विज्ञेयं प्रतिपाद्यते । तत्र प्रथमं
होतुर्विज्ञेयं दर्शयति—
यद्धोता जहाति वाग्ध तद्यजमानं जहाति । स
• यत्त्करोति स्वां वाचं यजमाने दधाति । स विष्वङ् वाचा-
मुष्मिल्लोके संभवति ॥ १ ॥
आर्त्विज्ये होता यत् कर्माविज्ञाय जहाति तत् तेन कर्मत्यागेन वाग्ध
वागेव यजमानं जहाति । वाङ्मे होतेति प्रागभिधानात् । तत् तस्मात् सः
होता यत् कर्म विज्ञाय मयैतावदनुष्ठेयमिति करोति तदा स्वां यजमान-
संबन्धिवाचं यजमाने दधाति निदधाति । किं च, होता स्वयमपि इह लोके
वाचा विष्वङ् सर्वव्यापी सर्वव्यवहारसमर्थः सन् अमुष्मिन् परलोके संभवति
स्वाभीष्टं फलं प्राप्तुं समर्थो भवति । अतो होता स्वकर्म सम्यग्
विज्ञेयमित्यर्थः ॥ १ ॥
अथाध्वर्युविज्ञेयं दर्शयति—
यदध्वर्युर्जहाति चक्षुर्ह तद्यजमानं जहाति । स
यत्त् करोति स्वं चक्षुर्यजमाने दधाति । स विष्वङ्
चक्षुषामुष्मिल्लोके संभवति ॥ २ ॥
- TK आर्त्विजेषु for आर्त्विज्येषु; TKM. ऋत्विजो० for ऋत्विजां.
- T Bh J om. विज्ञेयं.
- M. ०विज्ञेयं, K. ०विज्ञो यन्, T ०विज्ञेया for ०विज्ञाय; Bh. TS. जुहोति for जहाति; M त्यजति यत्नेन कर्मणा गतेन for तत् ... ०त्यागेन.
- RI सत् for यत्; J. om. मयैता वदनुष्ठे...यमिति.
- M. किंस्वित् for किंच .
- R. सर्वैव्यापि for सर्वव्यापी.
- Bh J. om. दर्शयति.
तृतीयोऽध्यायः (१) ९७
अध्वर्युः यत् स्वीयं कर्म अज्ञानात् जहाति तत् तेन चक्षुरेव यजमानं
जहाति । चक्षुर्मेऽध्वर्युर् (ष. ब्रा. २.६.२) इत्युक्तत्वात् । किं च स्वयमपि
चक्षुषा इह लोके विष्वङ् सर्वं जानन् । समानमन्यत् । अतोऽध्वर्युणा स्वकर्म
सम्यग् विज्ञेयमित्यभिप्रायः ॥ २ ॥
ब्रह्मविज्ञेयं दर्शयति—
यद् ब्रह्मा जहाति मनो ह तद्यजमानं जहाति । स
यत्तत् करोति स्वं मनो यजमाने दधाति । स विष्वङ्
मनसामुष्मिंल्लोके संभवति ॥ ३ ॥
ब्रह्मा यत् स्वकीयं कर्म जहाति तत् तेन मन एव यजमानं त्यजति ।
मनो म ब्रह्मा (ष. ब्रा. २.६.२) इत्युक्तत्वात् । मनसा विष्वङ् स्वमनसि
स्थितं सर्वमभीष्टं प्राप्नुवन् । शिष्टं पूर्ववत् ॥ ३ ॥
उद्गातृविज्ञेयं दर्शयति —
यदुद्गाता जहाति श्रोत्रं ह तद्यजमानं जहाति । स
यत्तत् करोति स्वं श्रोत्रं यजमाने दधाति । स विष्वङ्
श्रोत्रेणामुष्मिंल्लोके संभवति ॥ ४ ॥
यदि स्वीयं कर्म उद्गाता जहाति तर्हि श्रोत्रमेव यजमानं जहाति ।
श्रोत्रं म उद्गाता (ष. ब्रा. २.६.२) इत्युदितत्वात् । अतः स्वं कर्म जानन्
करोति चेत् यजमाने स्वं श्रोत्रं निदधाति । स्वयमपि श्रोत्रेण विष्वङ् सर्वं
श्रोतव्यं सर्वतो जानन् परलोके स्वाभीष्टं फलं लभत इति । अतः स्वीयं कर्म
सम्यग् जानीयादित्यर्थः ॥ ४ ॥
- Bh J om. अध्वर्युः
- RSI सर्वान् जनान्, T सर्वे जानत् for सर्वं जानन्.
- RSI स्वयम् for स्वकीयं; RSI add अज्ञानात् before कर्म;
Bh MTJ om. तत् तेन; RSI om. एव; R Bh I जहाति for त्यजति. - M. प्राप्नुयात् for प्राप्नुवन्.
- T विज्ञेयान् for° विज्ञेयं.
- RSI. उक्तत्वात् for उदितत्वात् .
५० 7
९८ षड्विंशब्राह्मणम्
सदस्यविज्ञेयं दर्शयति—
यत्सदस्यो जहाति आत्मा ह तद्यजमानं जहाति ।
स यत्तत् करोति स्वात्मानं यजमाने दधाति । स
विष्वङ्ङात्मनामुष्मिंल्लोके संभवति ॥ ५ ॥
सदस्यः स्वीयं कर्माज्ञानाज्जहाति चेदात्मैव यजमानं जहाति । योऽय-
मन्तःपुरुष आकाशः स मे सदस्यः (ष. ब्रा. २.७.३) इति आत्मत्वेनो-
क्तत्वात् । स अत्मना विष्वङ् अन्यानिरपेक्षतैव सर्वव्यापी । शिष्टं समानम् ॥ ५॥
होत्राशंसिनां विज्ञेयं दर्शयति—
यद्धोत्राशंसिनो जहत्यङ्गानि ह तद्यजमानं जहति ।
ते यत्तत् कुर्वन्ति स्वान्यङ्गानि यजमाने दधति । ते
विष्वञ्चोऽङ्गैरमुष्मिंल्लोके संभवन्ति ॥ ६ ॥
होत्राशंसिनो यत् कर्म जहति अङ्गानि एव यजमानं त्यजन्ति ।
अङ्गानि मे चमसाध्वर्यवः (ष. ब्रा. २.६.३) इत्युक्तत्वात् । यदि स्वीयं
कर्म विज्ञाय कुर्वन्ति यजमाने अङ्गान्येव दधति । तेऽपि स्वीयैरविकलैरङ्गैः
विष्वञ्चः सर्वगा भवन्ति । समानमन्यत् ॥ ६ ॥
चमसाध्वर्युभिर्विज्ञेयं दर्शयति—
यच्चमसाध्वर्यवो जहति लोमानि ह तद्यजमानं
जहति । ते यत्तत् कुर्वन्ति स्वानि लोमानि यजमाने
दधति । ते विष्वञ्चो लोमभिरमुष्मिंल्लोके संभवन्ति ॥ ७ ॥
पादटिप्पणी (Footnotes):
[F5] Bh MTJ. om. चेद् .
[F6] Bh T सदस्यात्मत्वेनो, J सदस्य इति सदस्यात्मो०, R. सदस्य इत्यात्मनो० for सदस्य इत्यात्मत्वेनो०.
[F7] Bh J. सामान्यम् for समानम् .
[F8] M. ०शंसिनो for ०शंसिनां.
[F9] यद्धोत्राशंसिनो See CN.
[F12] J trans. यत् कर्म before होत्राशंसिनो०; TJ add त्यजन्ति after जहति.
[F13] Bh MTI. om. अङ्गानि... इत्युक्तत्वात् .
[F14] RSI add स्वानि after अङ्गान्येव; Bh T विदधति for दधति; J. ते विष्वञ्चोऽप्यङ्गैरन्यैः for तेऽपि...विष्वञ्चः.
[F16] (अ)ध्वर्युवि० for (अ)ध्वर्युभिर्वि०.
यदि चमसाध्वर्यवः स्वीयं कर्म अज्ञानात् त्यजन्ति लोमान्येव
यजमानं त्यजन्ति । लोमानि मे चमसाध्वर्यवः (ष. ब्रा. ३. ७. ३)
इत्युक्तत्वात् । समानमन्यत् ॥ ७ ॥
यथोक्तमुपसंहरति—
तस्मादेवंविद्यज्ञे हीनं न कुर्यात् ॥ ८ ॥
यस्मादेवं तस्मादेवंवित् यथोक्तप्रकारेण स्वकर्म जानन् ऋत्विक् यज्ञे
हीनम् अङ्गवैकल्यं न कुर्यात् ॥ ८ ॥
एवमृत्विग्विज्ञेयं दर्शयित्वा इदानीं यजमानविज्ञेयं दर्शयति—
अथ वा अत ऋत्विजामेव विज्ञानम् ॥ ९ ॥
अथ अनन्तरम् अत एव अङ्गवैकल्यपरिहारायैव ऋत्विजां कर्माण्येव
यजमानस्य विज्ञानम् उच्यते इति शेषः ॥ ९ ॥
किं तद्विज्ञेयमित्याशङ्क्य तदर्थमुपोद्धातमाह—
पशवो हाध्वर्युमनु कीर्तिर्होतारं योगक्षेमो ब्रह्माण-
मात्मा च प्रजा चोद्गातारम् ॥ १० ॥
अथ यजमानस्य पशवोऽध्वर्युमेवानु । वर्तन्त इति शेषः । तदीय-
कीर्तिर्होतारमनुवर्तते । अस्य योगक्षेमः —अलब्धलाभो योगः । लब्धपरिपालनं
क्षेमः । तदुभयमपि ब्रह्माणम् अनुगच्छति । आत्मा स्वयं यजमानः प्रजा च
पुत्रादिकाश्च उद्गातारमनुवर्तन्त इति ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥
2. R. जहति for त्यजन्ति.
4. RSI. स्वकर्म उक्तप्रकारेण for यथो०...स्वकर्म (L. 6)
6. M. प्रतीयन् for ऋत्विक्.
7. T भिन्नम्, M हानिम् for हीनम्.
8. Bh J. om. एवम्...दर्शयति; K. ऋत्विग्भिर् for ऋत्विग्;
after दर्शयति RIKS. add यद्वा यजमानेन ऋत्विक्षु विज्ञेयं दर्शयन् सामान्यतो
दर्शयति S. after सामान्यतो add विज्ञेयं.
10. Bh J. om. अत एव; RSIK ०हाराद् for ०हाराय.
11. K Bh M. विशेषः for शेषः.
12. S. तदुक्त० for तदर्थ०.
13. Bh MTSKSh. कीर्ति for कीर्तिर्.
16. Bh M कीर्तिरूप, J कीर्तिरपि for कीर्तिर्.
द्वितीयः खण्डः
इदानीमौपोद्धातिकमाह—
स यदि पशुतो व्याधीयेताध्वर्युर्म इदमकरिति
विद्यात् । अथ यद्येनं पापिका कीर्तिरनूदियाद्धोता म इद-
मकरिति विद्यात् । अथ यद्यस्य योगक्षेमो व्यथेत ब्रह्मा
म इदमकरिति विद्यात् । अथ यद्यात्मना वा प्रजया वा
व्याधीयेतोद्गाता म इदमकरिति विद्यात् ॥ १ ॥
तत्र स यजमानः यदि पशुतो पशुभ्यो व्याधीयेत भ्रश्येत तर्हि मे
मम इदम् अनिष्टम् अध्वर्युः स्वकर्मपरित्यागेनाकार्षीदिति विद्याज्जानीयात् ॥
अथ पुनर्यद्येनं यजमानं पापिका पापसंबन्धिनी कीर्तिरनूदियात्
अनुगच्छेत् तर्हि ममेदं कष्टं होता स्वकर्मत्यागेनाकार्षीदिति विद्यात् ॥
अथ पुनः यद्यस्य योगक्षेमो व्यथेत नश्येत् तर्हि ब्रह्मेदं कष्टम-
कार्षीदिति विद्यात् ॥
अथ यद्यसौ आत्मना वा आध्यात्मिकक्लेशेन प्रजया पुत्रादिकया वा
व्याधीयेत विपन्नो भवेत् तर्हि उद्गाता ममेदमनिष्टमकार्षीदिति
विद्यादिति ॥ १ ॥
2. KM add एव after इदानीम्.
8. RSIK om. तत्र ; RSI add म्रियेत after व्याधीयेत; Bh J
भ्रश्येत् for भ्रश्येत and adds तत thereafter.
9. M. अध्वर्युकर्तृकं for अध्वर्युः and adds स तु मे thereafter.
10. RSI यद्येनं पापिका कीर्तिः अपयशोऽस्यजमानो नूदियात् भवेत् for
यद्येनं...अनुगच्छेत्.
11. Bh MTJ om. तर्हि; RSI. अनिष्टं for कष्टं.
12. RSI अनिष्टं for कष्टं.
14. J. यद्यस्य for यद्यसौ; R. ऽव्याध्या, Bh T साध्या for वा.
15. RSI विहीनो० for विपन्नो०.