षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 98, कुल 226 में से
संदर्भ में पढ़ें९८ षड्विंशब्राह्मणम्
सदस्यविज्ञेयं दर्शयति—
यत्सदस्यो जहाति आत्मा ह तद्यजमानं जहाति ।
स यत्तत् करोति स्वात्मानं यजमाने दधाति । स
विष्वङ्ङात्मनामुष्मिंल्लोके संभवति ॥ ५ ॥
सदस्यः स्वीयं कर्माज्ञानाज्जहाति चेदात्मैव यजमानं जहाति । योऽय-
मन्तःपुरुष आकाशः स मे सदस्यः (ष. ब्रा. २.७.३) इति आत्मत्वेनो-
क्तत्वात् । स अत्मना विष्वङ् अन्यानिरपेक्षतैव सर्वव्यापी । शिष्टं समानम् ॥ ५॥
होत्राशंसिनां विज्ञेयं दर्शयति—
यद्धोत्राशंसिनो जहत्यङ्गानि ह तद्यजमानं जहति ।
ते यत्तत् कुर्वन्ति स्वान्यङ्गानि यजमाने दधति । ते
विष्वञ्चोऽङ्गैरमुष्मिंल्लोके संभवन्ति ॥ ६ ॥
होत्राशंसिनो यत् कर्म जहति अङ्गानि एव यजमानं त्यजन्ति ।
अङ्गानि मे चमसाध्वर्यवः (ष. ब्रा. २.६.३) इत्युक्तत्वात् । यदि स्वीयं
कर्म विज्ञाय कुर्वन्ति यजमाने अङ्गान्येव दधति । तेऽपि स्वीयैरविकलैरङ्गैः
विष्वञ्चः सर्वगा भवन्ति । समानमन्यत् ॥ ६ ॥
चमसाध्वर्युभिर्विज्ञेयं दर्शयति—
यच्चमसाध्वर्यवो जहति लोमानि ह तद्यजमानं
जहति । ते यत्तत् कुर्वन्ति स्वानि लोमानि यजमाने
दधति । ते विष्वञ्चो लोमभिरमुष्मिंल्लोके संभवन्ति ॥ ७ ॥
पादटिप्पणी (Footnotes):
[F5] Bh MTJ. om. चेद् .
[F6] Bh T सदस्यात्मत्वेनो, J सदस्य इति सदस्यात्मो०, R. सदस्य इत्यात्मनो० for सदस्य इत्यात्मत्वेनो०.
[F7] Bh J. सामान्यम् for समानम् .
[F8] M. ०शंसिनो for ०शंसिनां.
[F9] यद्धोत्राशंसिनो See CN.
[F12] J trans. यत् कर्म before होत्राशंसिनो०; TJ add त्यजन्ति after जहति.
[F13] Bh MTI. om. अङ्गानि... इत्युक्तत्वात् .
[F14] RSI add स्वानि after अङ्गान्येव; Bh T विदधति for दधति; J. ते विष्वञ्चोऽप्यङ्गैरन्यैः for तेऽपि...विष्वञ्चः.
[F16] (अ)ध्वर्युवि० for (अ)ध्वर्युभिर्वि०.