सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 90, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 90

९० षड्विंशब्राह्मणम्
तत्प्रकारदर्शनमिति । अग्निर्में होतेत्यादयो ये मन्त्रास्ते याजमानाः । तथा
चानुकल्पे दर्शितम् । प्रथमः सवनमुखीयोऽग्निर्में होतेति याजमानमिति ॥८॥
यथोक्तं होत्राद्युपहवप्रकारं प्रशंसति—
ता वा एता देवता ऋत्विजामेव वाग्भिरुप-
ह्वयन्ते ॥ ९ ॥
ता एता अग्न्याद्या देवता एव ऋत्विजां संबन्धिनीभिरुपहवरूपा-
भिर्वाग्भिः उपहूयन्ते अनुज्ञाप्यन्ते ॥ ९ ॥
ततः किमित्यत्राह—
स उपहूतो भक्षयति ॥ १० ॥
पश्चात् स उपहूतः होत्रादिभिरनुज्ञातः सन् चमसं भक्षयति ॥ १० ॥
यथोक्तमनुज्ञानं प्रशंसति—
प्राणो यजमानोऽथो यत्रैतासां देवतानां लोकस्त-
दुपहूतो भवति ॥ ११ ॥
यजमानः प्राणः मुख्यत्वसाम्यात् । अथो अपि च यत्र एतासा-
मग्न्यादीनां देवतानां लोकः तत् तत्र होत्रादिभिः अग्न्यादिरूपैः उपहूतो
यजमानो अनुज्ञातो भवतीति ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥

  1. RS ०कारं दर्शितम for ०कारदर्शनम्; TSIK. om. ये and ते.
  2. S हि, I तद्धि, K तस्माद्वा for च; RS om. प्रथमं... याजमानमिति.
  3. RSI अग्न्यादि० for अग्न्याद्या०; SI संबन्ध्युप for संबन्धिनीभिर्वा०.