सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 97, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 97

तृतीयोऽध्यायः (१) ९७
अध्वर्युः यत् स्वीयं कर्म अज्ञानात् जहाति तत् तेन चक्षुरेव यजमानं
जहाति । चक्षुर्मेऽध्वर्युर् (ष. ब्रा. २.६.२) इत्युक्तत्वात् । किं च स्वयमपि
चक्षुषा इह लोके विष्वङ् सर्वं जानन् । समानमन्यत् । अतोऽध्वर्युणा स्वकर्म
सम्यग् विज्ञेयमित्यभिप्रायः ॥ २ ॥
ब्रह्मविज्ञेयं दर्शयति—
यद् ब्रह्मा जहाति मनो ह तद्यजमानं जहाति । स
यत्तत् करोति स्वं मनो यजमाने दधाति । स विष्वङ्
मनसामुष्मिंल्लोके संभवति ॥ ३ ॥
ब्रह्मा यत् स्वकीयं कर्म जहाति तत् तेन मन एव यजमानं त्यजति ।
मनो म ब्रह्मा (ष. ब्रा. २.६.२) इत्युक्तत्वात् । मनसा विष्वङ् स्वमनसि
स्थितं सर्वमभीष्टं प्राप्नुवन् । शिष्टं पूर्ववत् ॥ ३ ॥
उद्गातृविज्ञेयं दर्शयति —
यदुद्गाता जहाति श्रोत्रं ह तद्यजमानं जहाति । स
यत्तत् करोति स्वं श्रोत्रं यजमाने दधाति । स विष्वङ्
श्रोत्रेणामुष्मिंल्लोके संभवति ॥ ४ ॥
यदि स्वीयं कर्म उद्गाता जहाति तर्हि श्रोत्रमेव यजमानं जहाति ।
श्रोत्रं म उद्गाता (ष. ब्रा. २.६.२) इत्युदितत्वात् । अतः स्वं कर्म जानन्
करोति चेत् यजमाने स्वं श्रोत्रं निदधाति । स्वयमपि श्रोत्रेण विष्वङ् सर्वं
श्रोतव्यं सर्वतो जानन् परलोके स्वाभीष्टं फलं लभत इति । अतः स्वीयं कर्म
सम्यग् जानीयादित्यर्थः ॥ ४ ॥

  1. Bh J om. अध्वर्युः
  2. RSI सर्वान् जनान्, T सर्वे जानत् for सर्वं जानन्.
  3. RSI स्वयम् for स्वकीयं; RSI add अज्ञानात् before कर्म;
    Bh MTJ om. तत् तेन; RSI om. एव; R Bh I जहाति for त्यजति.
  4. M. प्राप्नुयात् for प्राप्नुवन्.
  5. T विज्ञेयान् for° विज्ञेयं.
  6. RSI. उक्तत्वात् for उदितत्वात् .
    ५० 7