सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 99, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 99

यदि चमसाध्वर्यवः स्वीयं कर्म अज्ञानात् त्यजन्ति लोमान्येव
यजमानं त्यजन्ति । लोमानि मे चमसाध्वर्यवः (ष. ब्रा. ३. ७. ३)
इत्युक्तत्वात् । समानमन्यत् ॥ ७ ॥
यथोक्तमुपसंहरति—
तस्मादेवंविद्यज्ञे हीनं न कुर्यात् ॥ ८ ॥
यस्मादेवं तस्मादेवंवित् यथोक्तप्रकारेण स्वकर्म जानन् ऋत्विक् यज्ञे
हीनम् अङ्गवैकल्यं न कुर्यात् ॥ ८ ॥
एवमृत्विग्विज्ञेयं दर्शयित्वा इदानीं यजमानविज्ञेयं दर्शयति—
अथ वा अत ऋत्विजामेव विज्ञानम् ॥ ९ ॥
अथ अनन्तरम् अत एव अङ्गवैकल्यपरिहारायैव ऋत्विजां कर्माण्येव
यजमानस्य विज्ञानम् उच्यते इति शेषः ॥ ९ ॥
किं तद्विज्ञेयमित्याशङ्क्य तदर्थमुपोद्धातमाह—
पशवो हाध्वर्युमनु कीर्तिर्होतारं योगक्षेमो ब्रह्माण-
मात्मा च प्रजा चोद्गातारम् ॥ १० ॥
अथ यजमानस्य पशवोऽध्वर्युमेवानु । वर्तन्त इति शेषः । तदीय-
कीर्तिर्होतारमनुवर्तते । अस्य योगक्षेमः —अलब्धलाभो योगः । लब्धपरिपालनं
क्षेमः । तदुभयमपि ब्रह्माणम् अनुगच्छति । आत्मा स्वयं यजमानः प्रजा च
पुत्रादिकाश्च उद्गातारमनुवर्तन्त इति ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥
2. R. जहति for त्यजन्ति.
4. RSI. स्वकर्म उक्तप्रकारेण for यथो०...स्वकर्म (L. 6)
6. M. प्रतीयन् for ऋत्विक्.
7. T भिन्नम्, M हानिम् for हीनम्.
8. Bh J. om. एवम्...दर्शयति; K. ऋत्विग्भिर् for ऋत्विग्;
after दर्शयति RIKS. add यद्वा यजमानेन ऋत्विक्षु विज्ञेयं दर्शयन् सामान्यतो
दर्शयति S. after सामान्यतो add विज्ञेयं.
10. Bh J. om. अत एव; RSIK ०हाराद् for ०हाराय.
11. K Bh M. विशेषः for शेषः.
12. S. तदुक्त० for तदर्थ०.
13. Bh MTSKSh. कीर्ति for कीर्तिर्.
16. Bh M कीर्तिरूप, J कीर्तिरपि for कीर्तिर्.