षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 84, कुल 226 में से
संदर्भ में पढ़ेंयो यजमानस्य प्रजाः कल्पेरन् समर्थाः प्रजा भवेयुरिति । किं च,
यजमानो यथादिष्टं स्यात् संकल्पसिद्धिश्च भवेदिति यदि कामयेत उद्गाता
तर्हि यथाज्यम् आज्येषु चतुर्ष्वपि क्रमेण तत्तत्प्रथमासु चतस्रो धुरः सकृत्—
सकृद् गायेत् । तेन अस्य यजमानस्य प्रजाः कल्पन्ते । यजमानो यथादिष्टं
च भवति ॥ १४ ॥
तद्विद्वांसं प्रशंसति—
यो वा एवं धुरो वेदानपजय्यमात्मने च यजमानाय
च लोकं जयत्यति यजमानमात्मानं मृत्युं परं स्वर्गं लोकं
हरति ॥ १५ ॥
यश्चैवोद्गाता एवमुक्तप्रकारेण धुरो वेद सः अनपजय्यं केनापि
जेतुमशक्यं लोकमात्मने यजमानाय च स्वार्थं यजमानार्थं च जयति । किं
च, मृत्युम् अतिक्रम्य आत्मानं यजमानं च परम् उत्कृष्टं स्वर्गं हरति
नयतीति ॥ १५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥
- J adds कामयेत after यजमानस्य.
- M. संकल्पश्च यजमानस्य शतायुः पुरुषः शतेन्द्रियः इति यजमानमृत्युं
यद्युद्गाता कामयेत for संकल्पसिद्धिश्च...उद्गाता. - M. adds: स्तोत्रीयासु चतुर्ष्वपि after प्रथमासु.
- RKSI. om. तेन; J प्रभुः प्रकल्पन्ते for प्रजाः कल्पन्ते
- M. adds शतायुषं जीवीभवति after भवति ।
- T लोकलोकं for लोकं; KTM. परां ShMs पराक् for परं.
- M. adds अनतिसाधारणं स्वर्गादिलोक मित्यर्थः । after लोकम् ; M.
आत्मने स्वात्मने यजमानाय लोकं जयतीत्यर्थः for आत्मने...जयति । - M. adds उद्गाता स्वात्मानं यजमानं च मृत्युमतिक्रम्य after यजमानं
च; M. परामुत्कृष्टां for परमुत्कृष्टं. - KT जनयति for नयति; M. om. नयति and adds अर्थः
after इति.