षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 92, कुल 226 में से
संदर्भ में पढ़ेंत्युच्चैः अङ्गानि मे चमसाध्वर्यवस्ते मोपह्वयन्तां चमसाध्वर्यव
उप माह्वयध्वमित्युच्चैः ॥ ३ ॥
अन्तश्चक्षुषि चक्षुषोर्मध्ये योऽयमाकाशः स एव मे सदस्यः ।
अन्तश्चक्षुषि या इमाः परिदृश्यमाना आपः ता एव होत्राशंसिनः । मम
अङ्गान्येव चमसाध्वर्यवः उपकारकत्वसाम्यात् । अन्यत् पूर्ववद्व्याख्येयम् ।
वाङ् मे होतेत्यादयोऽपि मन्त्राः याजमानाः । तथा चानुकल्पः—वाङ् मे
होतेति माध्यंदिनस्य सवनस्य याजमानमिति ॥ ३ ॥
यथोक्तम् उपह्ववप्रकारं दर्शयति—
ता वा एता देवता ऋत्विजामेव वाग्भिरुप-
ह्वयन्ते ॥ ४ ॥
ता एता वागादिरूपा देवता एव ऋत्विजामुपह्ववरूपाभिर्वाग्भिः
उपह्वयन्ते ॥ ४ ॥
ततः किं कुर्यादित्याह—
स उपहूतो भक्षयति ॥ ५ ॥
पश्चात् स उपहूतो होत्रादिभिरनुज्ञातः सन्नेव भक्षयति ॥ ५ ॥
यथोक्तमनुज्ञानं प्रशंसति—
अपानो यजमानोऽथो यत्रैतासां देवतानां लोकस्त-
दुपहूतो भवति ॥ ६ ॥
यजमानः अपानाद्यप्राणरूपः । अन्यत् समानमिति ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥
पादटिप्पण्यः (Footnotes):
- BhTJ ते for ता.
- Bh J ॰कारककरणत्व॰ for ॰कारकत्व॰; Bh. सामान्यात् for साम्यात् •
- J. om. आदयोऽपि...सवनस्य.
- Bh MTK. om. माध्यंदिनस्य सवनस्य.