सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 96, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 96

तृतीयाध्यायः
अथार्त्विज्येषु ऋत्विजां यजमानस्य च विज्ञेयं प्रतिपाद्यते । तत्र प्रथमं
होतुर्विज्ञेयं दर्शयति—
यद्धोता जहाति वाग्ध तद्यजमानं जहाति । स
• यत्त्करोति स्वां वाचं यजमाने दधाति । स विष्वङ् वाचा-
मुष्मिल्लोके संभवति ॥ १ ॥
आर्त्विज्ये होता यत् कर्माविज्ञाय जहाति तत् तेन कर्मत्यागेन वाग्ध
वागेव यजमानं जहाति । वाङ्मे होतेति प्रागभिधानात् । तत् तस्मात् सः
होता यत् कर्म विज्ञाय मयैतावदनुष्ठेयमिति करोति तदा स्वां यजमान-
संबन्धिवाचं यजमाने दधाति निदधाति । किं च, होता स्वयमपि इह लोके
वाचा विष्वङ् सर्वव्यापी सर्वव्यवहारसमर्थः सन् अमुष्मिन् परलोके संभवति
स्वाभीष्टं फलं प्राप्तुं समर्थो भवति । अतो होता स्वकर्म सम्यग्
विज्ञेयमित्यर्थः ॥ १ ॥
अथाध्वर्युविज्ञेयं दर्शयति—
यदध्वर्युर्जहाति चक्षुर्ह तद्यजमानं जहाति । स
यत्त् करोति स्वं चक्षुर्यजमाने दधाति । स विष्वङ्
चक्षुषामुष्मिल्लोके संभवति ॥ २ ॥


  1. TK आर्त्विजेषु for आर्त्विज्येषु; TKM. ऋत्विजो० for ऋत्विजां.
  2. T Bh J om. विज्ञेयं.
  3. M. ०विज्ञेयं, K. ०विज्ञो यन्, T ०विज्ञेया for ०विज्ञाय; Bh. TS. जुहोति for जहाति; M त्यजति यत्नेन कर्मणा गतेन for तत् ... ०त्यागेन.
  4. RI सत् for यत्; J. om. मयैता वदनुष्ठे...यमिति.
  5. M. किंस्वित् for किंच .
  6. R. सर्वैव्यापि for सर्वव्यापी.
  7. Bh J. om. दर्शयति.