सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

द्वितीयाऽध्यायः (१) ५९
अत्रापि नियममाह—
पङ्क्तिश्छन्दसा । सौमी देवतया । दिश एतया
ध्यायन् गायेत् ॥ ३१ ॥
पूर्ववद्व्याख्येयम् ॥ ३१ ॥
एवं सर्वासृक्षु गानं विधाय क्वचित्तदनूद्य फलदर्शनेन स्तौति— ५
इहेव च वा एष इहेव च मनसा गच्छति । यो
गायत्रे प्रातःसवने त्रिष्टुभं गायति जगतीं गायत्यनुष्टुभं
गायति पङ्क्तिं गायति । आस्ते ॥ ३२ ॥
यो गायत्रे गायत्रीछन्दोयुक्ते प्रातःसवने त्रिष्टुभं तृतीयामृचं गायति
जगतीं चतुर्थीं गायति अनुष्टुभं पञ्चमीं गायति षष्ठीं पङ्क्तिं गायति । एष १०
सोऽयं इहैव इहैव । चकारात् परत्रापि । द्विरुक्तिरादरार्था । मनसा गच्छति
संकल्पेनैव चाभीष्टानि प्राप्नोतीत्यर्थः । अन्ते (आस्ते ?) प्रतितिष्ठति
चेत्यर्थः ॥ ३२ ॥
गायत्रे द्वे इति दर्शयति—
गायत्रे द्वे गायति ॥ ३३ ॥ १५
तत्फलं दर्शयति—
प्राणमेव तदभ्येति । प्राणो हि गायत्रम् । पन्थानमेव
तदभ्येति । पन्था हि गायत्रम् ॥ ३४ ॥ १८
6. MS इहैव for इहेव.
8. J takes आस्ते to the next Sutra.
11. RSI. साम, K. सोमम् for सोऽयम्; KSI. आदरात् for आदरार्था.
12. Bh J. om. अन्ते प्रतितिष्ठति चेत्यर्थः ।
14. RI गायत्र्यो निदर्शयति J Bh. गायत्रे (Bh गायत्र्ये) गानं
दर्शयति, T. गायत्र्योर्गानं दर्शयति for गायत्रे द्वे ...
15. J. adds आस्ते before गायत्रे; BhMSI. गायत्रं for गायत्रे.
7

।
Wait, let's look at "रथन्तरवद्प्रकारैरभिष्टोभेद्": yes, no space.

तत्प्रशंसति—
इयं वै रथन्तरमस्यामेव प्रतितिष्ठति ॥ ३६ ॥
इयमेव ऋक् रथन्तरम् । तद्धर्मकत्वात् । किं च, अस्यामेव ऋचि
सामनि च प्रतितिष्ठतीति । यद्वा, अस्यां गीयमानायाम् एव यजमानः
प्रतितिष्ठति यज्ञफलं लभत इति ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
द्वितीयाध्याये प्रथमः खण्डः

Footnotes separator line:

  1. M. तत्त्वेन च यो for तत् तेन च द्वयोर् ; M. om. हि यस्मात्...
    गायत्रम् ; J. om. प्राणो...हि यस्मात् .
  2. R. गायत्रम् for गायत्रीति; R adds गायत्रं after पन्थानं.
  3. Bh J add अपि after ०माने.
  4. RSI गायेत् for गायति.
    [L2

द्वितीयः खण्डः
अथैतास्वृक्षु विधास्यमाने धूर्गाने बहिष्पवमाने तासामानुलोम्यं विधत्ते—
ता वा एता देवलोकाय युज्यन्ते यत्पराच्यः ॥ १ ॥
ता एवैता ऋचो देवलोकाय युज्यन्ते समर्था भवन्ति । यत् येन
पराच्यः आनुलोम्येन गीयन्ते इत्यर्थः ॥ १ ॥
अथ आज्यस्तोत्रेषु तासां प्रातिलोम्यं विधत्ते—
प्रतीच्यो मनुष्यलोकाय ॥ २ ॥
येन प्रतीच्यः प्रत्यङ्मुखाः प्रातिलोम्ययुक्ता भवन्ति तेन मनुष्य-
लोकाय युज्यन्ते । देवलोकापेक्षया मनुष्यलोकस्य प्रत्यग्भूतत्वात् ॥ २ ॥
प्रशंसापूर्वकं धूर्गानं विधत्ते—
एष वाव जात एषोऽवलुप्तजरायुरेष आर्त्विजीनो यस्य
धुरो गीयन्ते यश्चैवं विद्वान् धुरो गायति । जातमेवैनमन्नाद्याय
परिवृणक्ति । उभावन्नमत्त उद्गाता च यजमानश्च ॥ ३ ॥
यस्य बहिष्पवमानस्य संबन्धिनो धुरो येन गीयन्ते । गायत्रगीतेरेव
केवलविकाराः धुरः तद्योगादृचोऽपि धुर इत्युच्यन्ते । एष वाव अयमेव
जातः जन्मफलवान् एषोऽवलुप्तजरायुः । जरायुर्गर्भवेष्टनं तद्रहितः । अज्ञान-
रहित इत्यर्थः । अत एष एव आर्त्विजीन ऋत्विकर्मार्हः । किं च । एवं
विद्वान् जानन् धुरो गायति तं जातम् एवमन्नाद्याय परिवृणक्त्येव ।
तद्धानमन्नभक्षणाय समर्थं करोतीत्यर्थः । किं च उद्गाता यजमानश्चेत्यु-
भावप्यन्नमत्तः ॥ ३ ॥
2. SRI. ०मान, M. ०मानं for माने; M. ०ष्पवमानेन सामानु० for
०ष्पवमाने तासामानु०; RSI. ०लोमं for ०लोम्यं.
4. Bh I. om. ता एवैता...युज्यन्ते ; SIRM ययेना:, Bh T यद्येनं
पराच्यम for यत् येन पराच्यः.
5. R Bh SI. गीयते for गीयन्ते.

षड्विंशब्राह्मणम्
तत्र प्रथमाया गाने विशेषमाह—
या प्रथमा तामन्नाद्यं ध्यायन् गायेत् ॥ ४ ॥
तत्र या प्रथमा ऋक्तामन्नाद्यं भूयादिति ध्यायन् गायेत् ॥ ४ ॥
तत्प्रशंसति--
रेतस एव तत्सिक्तायान्नाद्यं प्रतिदधाति ॥ ५ ॥
तत् तेन ध्यानपूर्वकेण गानेन रेतसस्सिक्ताय सेकायैव प्रजोत्पत्त्यर्थमे-
वेत्यर्थः । अन्नाद्यं प्रतिदधाति धारयतीत्यर्थः ॥ ५ ॥
तत्र हिंकारं प्रतिषेधति—
न हिंकुर्यात् ॥ ६ ॥
हिंकारनिन्दया तद्वर्जनं प्रशंसति—
यद्धिंकुर्याद्वज्रेण हिंकारेण रेतस्सिक्तं विच्छिन्दद्यात् ॥ ७ ॥
व्याख्यातमेतत् ॥ ७ ॥
तस्याः छन्दःप्राणौ दर्शयति--
रेतस्या छन्दो युज्यते । मनो धीयते ॥ ८ ॥
छन्दो रेतस्या प्रथमा गायत्री युज्यते । मनश्च प्रजापतिना प्राणत्वेन
धीयते ॥ ८ ॥
अस्य द्वितीयायामृचि गाने विशेषमाह—
या द्वितीया तां गायत्रीमागां गायंस्तस्या द्वे अक्षरे
सशयनी व्यतिषजति । मध्यमस्य च पदस्योत्तममुत्तमस्य च

  1. J. रेतसे for रेतसः; R J add रेतः before सेकाय; MBh ॰पत्तिम् ,
    J ॰पत्तये for ॰पत्त्यर्थम् .
  2. Bh तस्यां for तस्याः; J छन्दोरेतस्यां for छन्दःप्राणौ.
  3. Bh रेतस्यां for रेतस्या.
  4. MT. रेतस्याः, K. रेतस्यां for रेतस्या.
  5. RSI. निधीयते for धीयते.
  6. KRSI अद्य. J अथ for अस्य.

द्वितीयोऽध्यायः (२) ७३
प्रथमम् । व्यतिषक्तौ प्राणापानौ प्रजा दधतो गायत्री छन्दो
युज्यते । प्राणापानौ धीयेते ॥ ९ ॥
तस्य बहिष्पवमानस्य या द्वितीया तामागां गेयत्वेन प्राप्तां गायत्रीं
गायन् । उद्गाता तस्या ऋचो द्वे अक्षरे सशयनी । सह शयात इति
सशयनी । व्यतिषजति । कथं ? मध्यमस्य च पदस्य उत्तमम् अक्षरम्
उत्तमस्य च पदस्य प्रथमम्--अथर्वाणो अशिश्रादेयुर्वन्देवायदे (सा.
562ᵇᶜ) इति । अन्यत् पूर्ववत् ॥ ९ ॥
तृतीयायां विशेषानाह--
या तृतीया तां त्रिष्टुभमागां गायंस्तस्या द्वे
उत्तमार्धेऽक्षरे द्योतयति । चक्षुरेव तद्युनक्ति । तस्माद्विरूपं
चक्षुः कृष्णमन्यच्छुक्लमन्यत त्रिष्टुप् छन्दो युज्यते । चक्षुषी
धीयेते ॥ १० ॥
या तृतीया तां त्रिष्टुभं गायन् । तस्या अन्तिमार्धर्चे हिङ्कारात्
पूर्वम् ऊर्ध्वं वा द्वे अक्षरे द्योतयति । निरुक्तं गायेदित्यर्थः । स्पष्टमन्यत् ॥१०॥
चतुर्थ्यां विशेषान् दर्शयति--
या चतुर्थीं तां जगतीमागां गायंस्तस्याश्चत्वा-
र्युत्तमार्धेऽक्षराणि द्योतयति । श्रोत्रमेव तद्युनक्ति ।
तस्माद्युक्तं श्रोत्रम् । श्रोत्रे द्वे प्रतिश्रवणे द्वे । तस्मादपि
पराङ् यन् प्रत्यङ् शृणोति । जगती छन्दो युज्यते । श्रोत्रे
धीयेते ॥ ११ ॥
3. Bh MTKI om. बहिष्पवमानस्य; RKMI प्राप्तौ for प्राप्तां.
6. RTKSI पादस्य for पदस्य; RJ Bh आशिश्रयुर्देवं देवाय देवयुः
for अशिश्रादेयुः...दा; S. Corrupt.
8. J om. तृतीयां...आह; Bh. विशेषानाह.
14. Bh J om. पूर्वे; TK. om. ऊर्ध्वं.

७४ षड्विंशब्राह्मणम्

तां जगतीभागां गायन् तस्या उत्तरार्धे चत्वारि अक्षराणि ।
हिंकारात् पूर्वं द्वे उपरिष्टाद् द्वे अक्षरे इति चत्वारि । सोमाः शुक्रा इति वा
चत्वार्यक्षराणि । द्योतयति । अन्यद्व्याख्यातम् । पूर्वखण्डेऽभिहितस्यार्थस्यात्राभि-
धानेन न पुनरुक्तिदोषः । विशेषान्तरविधानायानूद्यमानत्वात् ॥ ११ ॥
पञ्चम्यां विशेषानाह —
या पञ्चमी तामनुष्टुब्भागां गायंश्चतुर्धा व्यावृत्य
गायेत् । चतुर्धा वा इदं पुरुषो वीर्याय विकृतो जायते ।
वीर्यायैवैनां तद्व्यावृत्य गायति । उच्चावचामिव गायेत् ।
उच्चावचैव हि वाक् । संक्ष्णुत्येव गायेत् । संक्ष्णुत्येव हि वाचं
पुरुषो वदति । अनुष्टुप् छन्दो युज्यते । वाग् धीयते ॥१२॥
या पञ्चमी तामनुष्टुब्भागां गेयत्वेन प्राप्तां गायन् । चतुर्धा व्यावृत्य
चतुष्खण्डां कृत्वा गायेत् । यत एव लोके इदं प्रसिद्धं [यत्] पुरुषः
चतुर्धा पादमध्यहस्तशिरोरूपैश्चतुर्भिर्भागैः विकृतः सन् वीर्याय जायते
समर्थो भवतीति । तत एव एनाम् अनुष्टुभमृचं चतुर्धा व्यावृत्य वीर्याय
बलार्थमेव गायति । किं च, उच्चावचामिव एतामृचमंशभेदेन निरुक्तामनिरुक्ता-
मिव गायेत् । हि यस्मात् वाक् उच्चावचैव व्यवहाराय भवति । अपि च,
संक्ष्णुत्येव क्ष्णुते जने निशितामिव गायेत् । हि यस्मात् पुरुषो लोके
संक्ष्णुत्येव विस्पष्टमेव यथा भवति तथा वाचं वदति । किं च, अत्र अनुष्टुप्
छन्दो युज्यते । वाक् प्राणत्वेन धीयते । प्रजापतिनेति शेषः ॥ १२ ॥


पादटिप्पण्यः (Footnotes):

  1. J trans. उत्तरार्धे after अक्षराणि.
  2. M Bh JRSI व्यावृत्त्य for व्यावृत्य.
  3. Bh J om. अनुष्टुभम...प्राप्तां.
  4. J चतुरचनर्दा for चतुष्खण्डां ; RTSI add अयं SK यं after इदं.
  5. RSI ताम for एताम् ; RI मतभेदन, KS अभेदेन for अंशभेदेन.
  6. ऽक्तानिरुक्तम् for निरुक्ताम०...
  7. निशितम् for निशिताम.

[Header] द्वितीयोऽध्यायः (२) ७५

अथ षष्ठ्यां विशेषान् दर्शयति—
या षष्ठी तां पङ्क्तिमागां गायंस्तस्या द्वे द्वे अक्षरे
उदासं गायत्याषड्भ्योऽक्षरेभ्यः । षडृतवः ऋतुष्वेव
प्रतितिष्ठति । पङ्क्तिश्छन्दो युज्यते । समानोदानौ
धीयेते ॥ १३ ॥
एषा ऋक् छन्दसा पङ्क्तिः ज्ञेयेत्यर्थः । समानोदानौ प्राणत्वेन
धीयेते । शिष्टं व्याख्यातचरमिति ॥ १३ ॥
अथ बहिष्पवमाने धुरो निधनानि कथ्यन्ते । तत्र रेतस्याया निधनं
दर्शयति—
सदिति प्रथमाया धुरो निधनम् । रेतसो ह्यधि
सज्जायते ॥ १४ ॥
प्रथमाया धुरो सदिति निधनं कुर्यात् । हि यस्मात् रेतसोऽधि ।
अधिशब्दः सप्तम्यर्थद्योतनार्थः । रेतसि सद्रूपेण जगत् जायते ॥ १४ ॥
द्वितीयाया निधनं दर्शयति—
समिति द्वितीयायाः । रेतसो ह्यधि संभवः ॥ १५ ॥
समिति निधनं द्वितीयायाः कुर्यात् । हि यस्मात् रेतसो अधि विश्वस्य
संभवः इत्यर्थः ॥ १५ ॥
तृतीयायाः निधनं दर्शयति—
स्वरिति तृतीयायाः । प्र स्वर्गं लोकं जानाति ॥ १६ ॥
स्वरिति तृतीयाया निधनं कुर्यात् । तेन स्वर्गं लोकं
प्रजानाति ॥ १६ ॥


  1. RTKJ षष्ठ्या for षष्ठयां
  2. Bh TJ add अत्र पङ्क्तिश्छन्दो युज्यते after धीयेते.
  3. Bh I छन्दसां for छन्दसा; J adds सा after पङ्क्तिः.
  4. RKSL om. धुरो.

[header] ७६ षड्विंशब्राह्मणम्

चतुर्थ्या निधनमाह—
इडेति चतुर्थ्याः । पशवो वा इडा । पशुष्वेव
प्रतितिष्ठति ॥ १७ ॥
इडेति चतुर्थ्या निधनं कुर्यात् । पशवः खलु इडा भोग्यत्वात् । तेन
पशुष्वेव प्रतितिष्ठति । पशुमान् भवतीत्यर्थः ॥ १७ ॥
पञ्चम्या निधनं विधत्ते—
वागिति पञ्चम्याः । सर्वा अस्मिन् पुण्या वाचो
वदन्ति ॥ १८ ॥
पञ्चम्या ऋचो वागिति निधनं कुर्यात् । तेनास्मिन् निधनस्य
कर्तरि सर्वाः प्रजाः पुण्याः स्तुतिरूपा वाचो वदन्ति ॥ १८ ॥
यथोक्तस्य वेदितारं प्रशंसति—
य एवं वेद ॥ १९ ॥
यः पुमान् एवं निधनानि वेद सोऽपि यथोक्तफलं लभत इति
शेषः ॥ १९ ॥
अथ तास्वेव धर्मान्तराणि कथ्यन्ते । तत्र प्रथमायां तावद् विशेषमाह—
या प्रथमा तामायच्छन्निव गायेत् । आयत इव
ह्ययमवाङ् प्राणः ॥ २० ॥
या प्रथमा तामायच्छन् प्लुतोच्चारणेन विस्तारयन्निव गायेत् । हि
यस्मात् अयं प्रसिद्धोऽवाङ् अधोवर्ती प्राण आयत इव भवति ॥ २० ॥
द्वितीयायां धर्मान्तरं विधत्ते—
या द्वितीया तां घोषिणीमिव गायेत् । घोषीव
ह्ययमपानः ॥ २१ ॥
घोषिणीं घोषवतीमिव गायेत् । स्पष्टमन्यत् ॥ २१ ॥


  1. Bh स्थानि०, J. स्वामि० for स्तुति०; R om. ०रूपा.

द्वितीयोऽध्यायः (२) ७७
तृतीयायां धर्मान्तरं विधत्ते—
या तृतीया तामुद्यच्छन्निव गायेत् । उद्यत इव
ह्ययं प्राणः ॥ २२ ॥
उद्यच्छन् प्रयत्नेनोर्ध्वं गमयन्निव । व्याख्यातप्रायमन्यत् ॥ २२ ॥
चतुर्थ्यां धर्मान्तरमाह—
या चतुर्थीं तां निक्रीडयन्निव गायेत् । निक्रीडित
इव ह्ययं व्यानः ॥ २३ ॥
व्याख्यातचरमेतत् ॥ २३ ॥
पञ्चम्यां धर्मान्तरमाह—
या पञ्चमी तां निरुक्तामनिरुक्तामिव गायेत् ।
निरुक्तोऽनिरुक्त इव ह्ययं समानः ॥ २४ ॥
अंशभेदेन क्वचित् निरुक्तां क्वचिदनिरुक्ताम् इव गायेत् । हि
यस्मात् अयं समानः प्राणो निरुक्तोऽनिरुक्त इव क्वचित् स्पष्टः क्वचिदस्पष्ट
इव शरीरे वर्तते ॥ २४ ॥
षष्ठ्यां धर्मान्तरमाह—
या षष्ठी तामुदासमिव गायेत् । उदस्त इव
ह्ययमुदानो यच्छृङ्गम् ॥ २५ ॥
ताम् ऋचं षडक्षरपर्यन्तम् उदासं गायेत् । अयम् उदानाख्यः प्राणः
उदस्तः ऊर्ध्वमाकृष्ट इव भवति । यद् यस्मात् शृङ्गम् उन्नतम् ॥ २५ ॥
3. Bh add अवाङ् after अयं
10. Bh J निरुक्तं...अनिरुक्तं for निरुक्तामनिरुक्तां.
16. Bh. om. या षष्ठी...धर्मान्तरमाह (p. 78. l. 1).
18. J. om. ताम् ऋचं...धर्मान्तरमाह (p. 78. l. 1).

बहिष्पवमानोत्तमायामृचि धर्मान्तरमाह—
रथन्तरवर्णामुत्तमां गायेत् । इयं वै रथन्तरमस्यामेव
प्रतितिष्ठति ॥ २६ ॥
उत्तमाम् ऋचं रथन्तरवर्णां रथन्तरस्येव वर्णचतुष्टयोपेतां गायेदित्यर्थः ।
एतत् सर्वं व्याख्यातचरमिति । नात्र पुनरुक्ति शङ्कनीया । पूर्वखण्डविवरणरूप-
त्वादस्य खण्डस्येति ॥ २७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥
4. MJK रथन्तरस्यैव for रथन्तरस्येव J. वर्तमान० for वर्ण०.
5. M. व्याख्यानान्तरम् for व्याख्यातचरम्.

तृतीयः खण्डः
आख्यायिकया धुरः प्रशंसितुमुपक्रमते—
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त । ते देवाः
प्रजापतिमुपाधावन् ॥ १ ॥
पुरा देवाश्चासुराश्च एषु पृथिव्यादिषु लोकेषु विषयेषु अस्पर्धन्त ।
तत्र ते असुरेभ्यः स्पर्धमानाः इन्द्रादयो देवाः प्रजापतिमुपाधावन्
उपागमन् ॥ १ ॥
ततः किमित्यत्राह—
तेभ्य एतान् धुरः प्राणान् प्रायच्छत् । मनः
प्रथममथ प्राणमथ चक्षुरथ श्रोत्रमथ वाचम् ॥ २ ॥
प्रजापतिः तेभ्य एतान् वक्ष्यमाणान् धुरः धूरात्मकान् प्राणान्
प्रायच्छत् । एतदेव विशिनष्टि—प्रथमं मनः । अथ अनन्तरं प्राणं मुख्यम् ।
ततश्चक्षुरथ श्रोत्रमथ वाचमिति ॥ २ ॥
ततोऽपि किमित्यत्राह—
ताभ्यः पञ्चभ्यो धूर्भ्यः पुरुषं च पशूंश्च
निरमिमीत ॥ ३ ॥
तेभ्यो मनआदिरूपेभ्यो धूर्भ्यः पुरुषं च पशूंश्च निरमिमीत
उत्पादितवान् ॥ ३ ॥

  1. SIR. अग्रे, M. एते for ते.
  2. RSI. add प्राणान् after धुरः.
  3. Bh MTK om. एतदेव; J. तद् for एतदेव.

८० षड्विंशब्राह्मणम्

अस्तेष्वम् । किं तत् इत्यत्राह--
तेन पुरुषेणासुरानधूर्वन् । यदधूर्वंस्तद्धुरां धूस्त्वम् ।
धूर्वति पाप्मानं भ्रातृव्यं य एवं वेद ॥ ४ ॥
तेन धूर्भ्यो निर्मितेन पुरुषेण देवा असुरान् अधूर्वन् अवधिषुः ।
यद् यस्माद् अधूर्वंस्तत् ततो धुरां धूस्त्वम् अभूत् । य एवम् उक्तरीत्या
धुरां स्वरूपं वेद सोऽपि भ्रातृव्यं शत्रुरूपं पाप्मानं धूर्वति हिनस्तीति ॥ ४ ॥
पुनरपि प्रकारान्तरेण धुरः प्रशंसति--
यो वै धुरां धूस्त्वं वेद धुरा धुरा भ्रातृव्याद्धसीयान्
भवति । एतद्वै धुरां धूस्त्वं यन्नानावीर्या नानारूपा नाना-
छन्दस्या नानादेवत्याः समानं हिंकारमभिसंपद्यन्ते । एतद्वै
धुरां धूस्त्वम् । धुरा धुरा भ्रातृव्याद्धंसीयान् भवति । य एवं
वेद । ५ ॥
यः खलु धुरां यथोक्तं धूस्त्वं वेद स भ्रातृव्याद् शत्रोः सकाशात्
आहृतया धुरा धुरा अनेकधनभारैः वसीयान् अतिशयेन वसुमान् भवति ।
किं च, एतद्वै एतदेव धुरां धूस्त्वं यन्नानारूपा नानावीर्या नानाछन्दस्याः
गायत्र्यादिभेदेन, नानादेवत्याः प्राजापत्यादिदेवताभेदेन धुरः समानं हिंकारम्
अभिसंपद्यन्त इति । यत् एतद्वै धुरां धूस्त्वम् इति उक्तस्यैवानुवादः । किं च,
य एवं वेद सोऽपि धुरा धुरा भ्रातृव्याद् वसीयान् भवतीति ॥ ५ ॥
धूर्षु महाव्रतदृष्टिफलं दर्शयति--
यो वै धूर्षु महाव्रतं वेद सर्वा अस्मिन् पुण्या
वाचो वदन्ति ॥ ६ ॥


  1. M. उत्तरत्रापि for उक्तरीत्या.
  2. RJI धूर्वति पाप्मानं भ्रातृव्यं for धुरा धुरा भ्रातृव्याद्धसीयान् भवति.
  3. J. इति । एता एवानुवदन् धूर्वतीत्यादि भ्रातृव्याद् धुरा for
    इत्यु...त्यैवा०....भ्रातृव्यात्.

[Header] द्वितीयोऽध्यायः (३) ८१

यो वै य एवोद्गाता धूर्षु यथोक्तासु महाव्रतं वेद महाव्रतस्तोत्रदृष्टिं
कुर्यात् अस्मिन् ज्ञातारि सर्वाः प्रजाः पुण्याः स्तुतिरूपा वाचो वदन्ति ।
प्रथितकीर्तिर्भवेदित्यर्थः ॥ ६ ॥
तत्रैव विशेषमाह--
शिरो गायत्र्युरस्त्रिष्टुप् मध्यं जगती पादावनुष्टुप्
सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवं वेद ॥ ७ ॥
तत्र गायत्री शिर इति, त्रिष्टुबुर इति, जगती मध्यमिति, अनुष्टुप्
पादानित्येवं यो वेद अस्मिन् पुण्या वाचो वदन्तीति ॥ ७ ॥
एवं विदुषो गायत्र्यादिषु सप्रशंसं व्रतं दर्शयति--
यो वा एवं धुरो विद्वानथासां व्रतं चरत्यागमि-
ष्यतोऽस्य पूर्वेद्युः पुण्या कीर्तिरागच्छति ॥ ८ ॥
अथशब्दो वाक्यालंकारार्थः । य एवं यथोक्तप्रकारेण धुरो विद्वान्
जानन् आसां गायत्र्यादीनां धुरां व्रतं तद्विषयं नियमं चरति । यत्र यत्रा-
गमिष्यतोऽस्य पूर्वेद्युः पुरस्तादेव पुण्या कीर्तिरागच्छतीति ॥ ८ ॥
किं तद्व्रतम् ? तत्राह--
सुरभिरेव गन्धो गायत्र्या व्रतम् । दर्शनीयं त्रिष्टुभः ।
श्रवणीयं जगत्याः । यदेव वाचा पुण्यं वदति तदनु-
ष्टुभः । तदु सर्वासां व्रतम् ॥ ९ ॥
सुरभिरेव गन्धो घ्रातव्य इति गायत्र्या व्रतं तद्विषयो नियमः । अनुकूल-
मेव द्रष्टव्यमिति त्रिष्टुभो व्रतम् । चक्षुःप्राणत्वात् त्रिष्टुभः । श्रवणीयंमेव
श्रोतव्यमिति जगत्याः । श्रोत्रप्राणत्वात् तस्याः । यदेव पुण्यं तद् एव वाचा
वदतीति अनुष्टुभो व्रतम् । वाक्प्राणत्वात् अनुष्टुभः । तदु तदेव सर्वासां
चतसृणां व्रतमिति ॥ ९ ॥


  1. MT अस्य तस्मिन् for अस्मिन्.
  2. MS add हि after जगत्याः.
  3. MSR om. एव.
    प० 6

८१ षड्विंशब्राह्मणम्
प्रकारान्तरेण तद्भूतं प्रशंसति—
तदु विद्वांसमाहुरति नोऽवादीरिति तदना-
दृत्यम् ॥ १० ॥
तत् व्रतं विद्वांसं संजानानमुद्गातारं यद्येवमाहुरन्ये त्वं नोऽत्यवादीस्त्व-
मस्मानतिक्रम्यावादीरिति । ततस्तेनैषां वाक्यमनादृत्यम् । तेन विदुषां तदना-
दरणीयम् । एतदुक्तं भवति—अतिवाद्यसीत्युक्तेऽपि व्रतमहिम्ना तस्याति-
वादनदोषो नास्तीति ॥ १० ॥
अथाज्यस्तोत्रेषु धुरो विधत्ते—
यस्य वै धुरो विगीतास्तस्य संगीताः ॥ ११ ॥
यस्यैव यजमानस्य संबन्धिनि यज्ञे धुरो विगीताः पृथग्गीतास्तस्यैव
तत्र धुरः संगीताः संगत्यापि गातव्याः ॥ ११ ॥
तदेव विवृणोति—
यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु
संगायन्ति तस्य वै धुरो विगीतास्तस्य संगीताः ॥ १२ ॥
यस्यैव यज्ञे बहिष्पवमाने स्तोत्रे सदसो बहिर्देशे एताः संनिहित-
पूर्ववाक्ये प्रकृता गायत्र्याद्याश्चतस्रो विगीय पृथक् सदित्यादिनिधनैर्गीत्वा
पश्चादाज्येषु स्तोत्रेषु अन्तरा सदसो मध्ये संगायन्ति । ता धुर एकेनैव
4. RTSI संजानानाम्, J ज्ञानिनम् for संजानानम्; RTSIK om.
विद्वांसं; RIS तु for त्वं ; RTI. नोऽस्मांस्त्वमतिवादीर् , SM नोऽस्मान्
त्वमतिक्रम्यावादीर् for नोऽत्य....०वादीर्.
5. J तत् for ततस्.
10. RS. यस्य वै for यस्यैव; J adds गायत्र्याः after विगीताः;
MT. एषः for एव; J om. एव.
15. J एतत् for एताः; RSI ०हिताः for ०हित०.
16. J प्रकृतौ for प्रकृताः ; R च ताः for चतस्रो० ; J पञ्च पञ्च पृथक्
पृथक् for विगीय पृथक् ; M. विगीयन्ते for विगीय ; J ०त्यादीनि निधनानि
नैजित्वा for त्यादिनिधनैर्गीत्वा.
17. J संगायन्तीति for संगायन्ति । ता०.

द्वितीयोऽध्यायः (३) ८३

निधनेन प्रकृतेन समानं गायेदित्यर्थः । तथा च सति तस्य यज्ञे धुरो
विगीताश्च भवन्ति । संगीताश्च भवन्ति । विगानं संगानं चोभयमपि कृतं
भवति । उभयमप्यवश्यं कर्तव्यमेव । धुरां चक्षुरादिरूपत्वेन संस्तावनात्
चक्षुरादीनां च बहिर्मुखे[न] पृथक् पृथगवस्थितानामन्तर्मुखेनास्यामेकस्यां
संगत्य मूलतोऽवस्थानात् ॥ १२ ॥
आज्येषु विकल्पेन संगानं दर्शयितुं प्रथमं पक्षं तावदाह—
यः कामयेतैकधा यजमानं यश ऋच्छेद्यथादिष्टं
प्रजाः स्युरिति होतुराज्ये गायेत् । एकधा यजमानं यश
ऋच्छति यथादिष्टं प्रजा भवन्ति ॥ १३ ॥
य उद्गाता एकधा युगपदेव यशो यजमानम् ऋच्छेत् प्राप्नुयात्
तथा यथादिष्टं यजमानस्य कामनमतिक्रम्य प्रजाः पुत्रपौत्रादिकाः स्युः
भवेयुरिति कामयेत इच्छेत तर्हि होतुराज्य एव गायेत् । ता धुरः संगायेत् ।
तेन एकधा युगपदेव यजमानं यश ऋच्छति प्राप्नोति । यथादिष्टम् एव
प्रजा भवन्ति ॥ १३ ॥
द्वितीयं पक्षं दर्शयति—
यः कामयेत कल्पेरन् प्रजा यथादिष्टं यजमानः
स्यादिति यथाज्यं गायेत् । कल्पन्ते प्रजा यथादिष्टं
यजमानो भवति ॥ १४ ॥


  1. M. adds स्तुता गीता० after विगीता०; RSM om. संगीताश्च
    भवन्ति; T. समानं for संगानं; S. विकृतं for अपि कृतं; J adds. तु after कृतं.
  2. TIK संस्तावात् , J संस्ते वाक्, S संस्थावान् for संस्तावनात् .
  3. TIK मुखैः for मुखेन; J. om. one पृथक् ; M. द्वयम, JT.
    द्वयाम् for अस्याम्.
  4. M. संगत्या J संगत्यम् for संगत्य; J. उभयतो० for मूलतो०.
  5. RSI. आज्येन for आज्येषु; RKSI. संगमानं, TI समानं for संगानं.
  6. J. om. य उद्गाता....गायेत् ।

यो यजमानस्य प्रजाः कल्पेरन् समर्थाः प्रजा भवेयुरिति । किं च,
यजमानो यथादिष्टं स्यात् संकल्पसिद्धिश्च भवेदिति यदि कामयेत उद्गाता
तर्हि यथाज्यम् आज्येषु चतुर्ष्वपि क्रमेण तत्तत्प्रथमासु चतस्रो धुरः सकृत्—
सकृद् गायेत् । तेन अस्य यजमानस्य प्रजाः कल्पन्ते । यजमानो यथादिष्टं
च भवति ॥ १४ ॥
तद्विद्वांसं प्रशंसति—
यो वा एवं धुरो वेदानपजय्यमात्मने च यजमानाय
च लोकं जयत्यति यजमानमात्मानं मृत्युं परं स्वर्गं लोकं
हरति ॥ १५ ॥
यश्चैवोद्गाता एवमुक्तप्रकारेण धुरो वेद सः अनपजय्यं केनापि
जेतुमशक्यं लोकमात्मने यजमानाय च स्वार्थं यजमानार्थं च जयति । किं
च, मृत्युम् अतिक्रम्य आत्मानं यजमानं च परम् उत्कृष्टं स्वर्गं हरति
नयतीति ॥ १५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥


  1. J adds कामयेत after यजमानस्य.
  2. M. संकल्पश्च यजमानस्य शतायुः पुरुषः शतेन्द्रियः इति यजमानमृत्युं
    यद्युद्गाता कामयेत for संकल्पसिद्धिश्च...उद्गाता.
  3. M. adds: स्तोत्रीयासु चतुर्ष्वपि after प्रथमासु.
  4. RKSI. om. तेन; J प्रभुः प्रकल्पन्ते for प्रजाः कल्पन्ते
  5. M. adds शतायुषं जीवीभवति after भवति ।
  6. T लोकलोकं for लोकं; KTM. परां ShMs पराक् for परं.
  7. M. adds अनतिसाधारणं स्वर्गादिलोक मित्यर्थः । after लोकम् ; M.
    आत्मने स्वात्मने यजमानाय लोकं जयतीत्यर्थः for आत्मने...जयति ।
  8. M. adds उद्गाता स्वात्मानं यजमानं च मृत्युमतिक्रम्य after यजमानं
    च; M. परामुत्कृष्टां for परमुत्कृष्टं.
  9. KT जनयति for नयति; M. om. नयति and adds अर्थः
    after इति.

चतुर्थः खण्डः
अथोत्तरत्र होत्रादीनामग्न्यादिरूपेण व्यवहारः क्रियते । तदुपयोगित्वेन
प्रकीर्णकान् कांश्चिद् धर्मानाह —
प्राञ्चमग्निमुन्नयन्ति तस्मात् प्राङासीनो होतान्वाह
प्राङासीनो यजति । प्राङासीनः शंसति ॥ १ ॥ 5
यस्मादग्नेरुन्नेतारः शालामुखीयादुत्तरवेद्यादौ प्राञ्चमग्निमुन्नयन्ति ।
तस्माद्धोता प्राङासीनः प्राङ्मुख उपविष्टो भूत्वाऽन्वाह अनुब्रवीतीति ।
प्रैषमनुवचनं कुर्यात् । तथा प्राङासीनो यजति याज्यां पठेत् । प्राङासीनः
शंसति शस्त्रं पठति ॥ १ ॥
धर्मान्तरमाह— 10
असावादित्यः प्राङपाङ् संचरति । तस्मादध्वर्युः
प्राङपाङ् संचरति ॥ २ ॥
यस्मादसौ परिदृश्यमान आदित्यः प्राङ् प्रागञ्चनः अपाङ् प्रत्यगञ्चनः
इमान् लोकान् संचरति प्रत्यहं, तस्मादध्वर्युः स्वकर्मणि प्राङपाङ्
संचरति ॥ २ ॥ 15
धर्मान्तरं दर्शयति—
अथैष चन्द्रमा दक्षिणेनैति तस्माद् ब्रह्माणं
दक्षिणत आसयन्ति ॥ ३ ॥ 18
2. M. adds पूर्वखण्डे बहिष्पवमानमाज्यानां धुर उक्ता before उत्तरत्र;
T adds उद्गातृ before होत्रा०.
6. Bh ०वेद्याप्राति, T ०वेदिप्रति, J वेद्यां प्रति for ०वेद्यादौ.
7. SRIK om. अन्वाह; Bh TJ om. भूत्वा; Bh ०ब्रूहि; TJ ०ब्रूते,
R ब्रुवन्ति for ब्रवीति.
9. J. शसनं for शस्त्रं; T om. शस्त्रं.
13. R om. अपाङ् प्रत्यगञ्चनः; Bh TK प्रत्यगादिमान् for प्रत्यगञ्चनः;
14. Bh TK om. इमान् लोकान् .
17. SK ब्राह्मणं, T ब्राह्मणान् for ब्रह्माणं.

[Page 86]
[Header] ८६ षड्विंशब्राह्मणम्

अथशब्दो वाक्योपक्रमे । यत एष चन्द्रमा दक्षिणेन पथा एति
गच्छति तस्माद् ब्रह्माणं दक्षिणतो दक्षिणदिग्भागे आसयन्ति
उपवेशयन्ति ॥ ३ ॥
अन्यं धर्मं दर्शयति—
अथैतस्यामुदीच्यां दिशि भूयिष्ठं [पर्जन्यो] विद्योतते
तस्मादेतां दिशमुद्गाता प्रत्युद्गायति ॥ ४ ॥
यत एतस्यां प्रसिद्धायाम् उदीच्यां दिशि भूयिष्ठम् अधिकं
पर्जन्यो विद्योतते विशेषेण स्वमहिमानं प्रकटयति तस्मादुद्गाता एताम्
उदीचीं दिशं प्रति उदङ्मुखः सन् उद्गायति ॥ ४ ॥
धर्मान्तरं विधत्ते—
अथैष आकाशो मध्यतो भूतानां सन्नस्तस्मान्मध्ये
सदस्यमासयन्ति ॥ ५ ॥
भूतानां पृथिव्यादीनां मध्ये एष व्याप्त आकाशः सन्नोऽवहितो
भवति । तस्मात् सदसो मध्ये सदस्यं सप्तदशमृत्विजम् आसयन्ति ॥ ५ ॥
धर्मान्तरं विधत्ते—
उच्चावचा वा आप उतेव गाधा भवन्त्युतेव
गम्भीरास्तस्माद्धोत्राशंसिन उतेव पञ्चर्चेन कुर्वन्त्युतेव
भूयसा ॥ ६ ॥
उत आप उच्चावचा न्यूनाधिकान्यूनाधिकभावेन वर्तन्ते
उत अपि च ता आपो गाधाः कचिदपगतप्रतिष्ठा इव भवन्ति ।
उत अपि च ता आपो गम्भीराः अगाधा इव भवन्ति । तस्मा द्धोत्राशंसिनोऽपि


[Footnotes]
[Fn 2] 2. TSK ब्राह्मणं for ब्रह्माणं; RTSIK दिग्भागे for दक्षिणदिग्भागे०.
[Fn 4] 4. KT Bh अन्य०, J अन्यद् for अन्यं.
[Fn 14] 14. RKS आसादयन्ति for आसयन्ति.
[Fn 19] 19. R Bh I om. उच्चावचा ; J om. न्यूनाधिका ०.
[Fn 21] 21. J adds उतेव गम्भीरा before उत.

द्वितीयोऽध्यायः (४) ८७

पञ्चर्चेन शस्त्रेण स्तुतिं कुर्वन्ति । उत अपि च भूयसा बह्वीभिः ऋग्भिः
साध्येन शस्त्रेण स्तुतिं कुर्वन्ति ॥ ६ ॥
धर्मान्तरं विधत्ते—
आदित्यस्यैव गतं रश्मयोऽनुयन्ति तस्मादध्वर्योरेव
गतं चमसाध्वर्यवोऽनुयन्ति ॥ ७ ॥
अत आदित्यस्यैव गतं गमनं रश्मयः तदीयाः अनुयन्ति अनु-
गच्छन्ति । तस्माद् अध्वर्योरेव गतं चमसाध्वर्यवोऽनुयन्तीति ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥


पादटिप्पण्यः (Footnotes):

  1. T नमस्कृति for स्तुतिं.
  2. TSIK. om. एव.
    6 J om. अतः.

पञ्चमः खण्डः
अथ चमसभक्षणायोपहवादयः कथ्यन्ते + तत्र प्रथमं प्रातःसवन-
संबन्धीन् उपहवान् दर्शयति—
स प्रातःसवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥
स यजमानः चमसं भक्षयितुं प्रातःसवने सवनमुखीयेषु चमसेषु
चमसाध्वर्युभिराहृतेषूपहवमनुज्ञानम् इच्छते इच्छेत् ॥ १ ॥
कथमित्याशङ्क्य तत्र प्रथमं होतृविषयोपहवप्रकारं दर्शयति—
अग्निर्मे होता स मोपह्वयतां होतरुप माह्व-
स्वेत्युच्चैः ॥ २ ॥
मे मम अग्निरेव देवो होता । तदात्मको होता । स माम् उपह्वयताम्
अनुजानातु इति उपांशूच्चार्य हे होतः मामुपह्वयस्व अनुजानीहि इति
मन्त्रभागम् उच्चैः उच्चारयेत् ॥ २ ॥
अध्वर्युविषयोपहवप्रकारं दर्शयति—
आदित्यो मेऽध्वर्युः स मोपह्वयतामध्वर्य उप
माह्वयस्वेत्युच्चैः ॥ ३ ॥
मे मम आदित्य एव देवोऽध्वर्युः । स मामुपह्वयतामित्युपांशूच्चार्य
अध्वर्य उप माह्वयस्वेति मन्त्रभागमुच्चैरुच्चारयेदिति ॥ ३ ॥

  1. R Bh KTSI. om. स यजमानः; J om. चमसं भक्षयितुं; Bh. T
    चमसस्य, R समं for चमसं; Bh. भक्षयित्वा for भक्षयितुं; J. सवनसंबन्धिसवन०
    for सवने सवन० ; RSIK om. चमसेषु.
  2. SI. om. अनुज्ञानम् ; RSI add यज्ञमात्मने after ०ज्ञानम्.
  3. Bh समन्त्या०, J मनुष्या० for तदा०.
  4. RSIK om. मम; RSIK आदित्यदेवो०, Bh TJ आदित्य एवा०
    for आदित्य एव देवो०; TK ०ह्वयस्व माम, Bh. ०ह्वयस्व मान्नाम for ह्वयताम्.