षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
षष्ठः खण्डः
अथ वैश्रवणनैमित्तिकं होमं दर्शयितुं तदर्थमपि किंचिन्नियमं दर्शयति—
स उदीचीं दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तवान् अधिकारी उदीचीं दिशम् अन्वीक्ष्य आवर्तते
प्रवर्तते होमार्थम् । निमित्तविशेषाणाम् उदीच्या दिशश्च वैश्रवणसंबन्धित्वा-
विशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य कनकरजतवरवस्त्रवज्रवैडूर्यमुक्तामणि-
वियोगो भवति । आरम्भा वा विपद्यन्ते । अथवा अन्यानि
क्रूराणि मित्राणि वा विरज्यन्ते । अरिष्टानि वा वयांसि
गृहमध्यासन्ते । वाल्मीकभौमानि वा जायन्ते । छत्राकं
वोपजायते । मधूनि वा निलीयन्ते । इत्येवमादीनि ।
तान्येतानि सर्वाणि वैश्रवणदेवत्यान्यद्भूतानि प्रायश्चित्तानि
भवन्ति ॥ २ ॥
अथ पुनरस्य पुरुषस्य यदा कनकादिभ्यो वियोगो भवति ।
अथवा आरम्भा उद्योगा विपद्यन्ते । निष्फला भवन्ति । अथवा, अन्यानि
क्रूराणि पिशाचादिदर्शनादीनि, अपि वा मित्राणि सुहृदो विरज्यन्ते
5. JM. om. प्रवर्तते ; JM. कुबेर० for वैश्रवण० ; RI. संबन्ध०
for संबन्धित्व०
11. अध्यासन्ते See CN.
12. M. ०दृश्यते for ०जायते.
16. M. विपच्यन्ते for विपद्यन्ते.
विद्धिषन्ति । अथवा, अरिष्टानि दुःखसूचकानि । वयांसि काकादीनि
स्वगृहमध्यासते । वाल्मीकभौमानि भूमौ भवानि प्राणिजातानि जायन्ते ।
प्रादुर्भवन्ति । अथवा छात्राकं सिलिम्रह उपदृश्यते । अथवा मधूनि सरघा
वाभिनिलीयन्ते स्वगृहे । एवमादीनि तान्येतानि सर्वाणि अन्यान्यपि
अद्भुतानि वैश्रवणदेवत्यानि कौबेराणि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि
भवन्ति ॥ २ ॥
अथ तद्धेतुकदोषनिर्हरणसाधनं होमविशेषं सेतिकर्तव्यताकं
दर्शयति—
अभित्यं देवम् (सा. ४६४) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । वैश्रवणाय स्वाहा,
यक्षाधिपतये स्वाहा, हिरण्यपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वाथ साम
गायेत् ॥ ३ ॥
अ॒भि³ त्यं²उ देवँ॑³ ¹ सवितारमोण्योः² ³ १२ ३क कविक्रतुमर्चामि²र ³ १२ ३ सत्यसवँ¹ २ ३ १२
रत्नधाम॒भि³ २ ३ प्रियं² म॒तिम्³ २ । ऊ॒र्ध्वा³ यस्याम॑तिर्भा²उ ³ २ ३ १ अदिद्युतत्सवीमनि६र ३ १ ५ ३
हिरण्यपाणिरममीत¹ ३ सुक्रतुः³ १२ ३ १ कृपा स्वः² ॥ (सा. ४६४) इत्येषा ऋक् ।
अन्यत् पूर्ववद्व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
षष्ठाध्याये षष्ठः खण्डः ॥ ६ ॥
- M. अध्यासन्ने for अध्यासन्ते; JM. add: गृहे after अध्यासन्ते.
- J. छिलिहिन्दः गृहजं, R. सिलिग्रहः M. सिलिकं for सिलिम्रहः;
उपदृश्यते See CN. - for तान्येतानि सर्वाणि अन्यानि JM. subst: अन्यान्यपि सर्वाणि.
- for निर्हरण० J. subst: ०निबर्हण० ; J. होमं, M. स्तोमं for होमविशेषं.
- JM. आज्याहुती: for आज्याहुतिभि:.
सप्तमः खण्डः
अथ अग्निदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदर्थमपि नियमं
दर्शयति—
स पृथिवीमन्वावर्तते ॥ १ ॥
स निमित्तविशेषवान् पृथिवीमन्वीक्ष्यावर्तते होमार्थं प्रवर्तते ।
वक्ष्यमाणनिमित्तानां पृथिव्याश्चाग्नेयत्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य पृथिवी तटति, स्फुटति, कूजति,
कम्पति, ज्वलति, रुदति, धूमायति, अकस्मात्सलिलमुद्गिरति,
प्लवन्न मज्जति, न निमग्नमुत्प्लवति, अकाले च पुष्पफलमभि-
निर्वर्तत्यश्वतरीगर्भो जायते ; यदा मज्जति हस्तिनी,
भूकम्पो जायते, प्रासादं भिनत्ति यत्र तत्र राजा विनश्यति
गौर्गृहमारोहेद् ग्राममहिषीत्येवमादीनि तान्येतानि
सर्वाण्यग्निदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य संबन्धिनी पृथिवी तटति तटतटेति शब्दं करोति ।
स्फुटति भिद्यते । कूजति शब्दं करोति । कम्पति कम्पते । ज्वलति
2. JM. तदङ्गत्वेनादौ पृथिवीनिरीक्षणपूर्वकमावर्तनं for तदर्थमपि नियमं.
5. J. om. स निमित्त......न्वीक्ष्यावर्तते; JM. om. प्रवर्तते.
10. M. नमग्न for निमग्न ; KI. om. न before निमग्नम् .
11. RIS. निर्वर्तयति for निर्वर्तति; JRI. add इति after निर्वर्तति.
12. MSh Ms. प्रासादा[न्] for प्रासादं.
५० 14
२१० षड्विंशब्राह्मणम्
अग्न्यादिसंबन्धं विनैव। रुदति रोदिति। धूमायति अग्निं विनैव धूमप्रचुरो
भवति। अकस्मात्सलिलमुद्गिरति वृष्टिं विनैव। तथा सलिले प्रक्षिप्तः पाषाणः
प्लवन्न मज्जति प्लवमान एव तिष्ठति, न तु मज्जति। निमग्नं मृतशरीरम् उदके
प्रक्षिप्तं नोत्प्लवति, किं तु निमज्जति। किं च, अकाले पुष्पं च फलं च
पुष्पफलम् अभिनिर्वर्तति वृक्षमभितो जायते। तथा अश्वतर्यां गर्भो
जायते। अश्वतर्याः प्रजापतिना आत्तेरतस्कत्वात् गर्भाभावः। तस्मादश्वतरी
अप्रजा। आत्तरेता हि (तां. ब्रा. ६.१.४.) इति श्रुतेः। तथा
यदा यस्मिन् देशे हस्तिनी करिणी मज्जति निर्निमित्तमुदके निमज्जति।
तथा यत्र यस्मिन् देशे भूकम्पो जायते तत्र तदा तद्देशाधिपती राजा
विनश्यति। किं च यदा गौर्गृहमारोहेत् ग्राममहिषी वा। गृहमारोहेद्
इत्यनुषङ्गः। आरण्यकमहिष्या गृहारोहणासंभवाद् ग्राममहिषीति विशेषणम्।
इत्येवमादीनि ग्रामसूकरादेर्गृहारोहणादीनि इत्यादिशब्दार्थः। तान्येतानि सर्वा-
ण्यद्भुतान्यग्निदेवत्यानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति॥ २॥
तत्र तद्धेतुदुरितापूर्वनिर्बर्हणसाधनं होमं सेतिकर्तव्यताकं दर्शयति—
अग्निं दूतं वृणीमहे (सा. ३) इति स्थालीपाकं हुत्वा
पञ्चभिराज्याहुतिभिरभिजुहोति। अग्नये स्वाहा, हविष्पतये
- J. om. अग्न्यादि०; R. om. एव.
- JM. transp. सलिलमुद्गिरति after विनैव.
- JM. om. न मज्जति. See CN; M. न नमं for निमग्नं.
- RI. उत्प्लवते for उत्प्लवति; M. adds च after अकाले.
- RI. निर्वर्तयति for निर्वर्तति; J. adds इति after निर्वर्तति;
JM. after तथा add सति; RI. अश्वतरी० for अश्वतर्यां. - R. आक्तेरतस्कत्वात्, JM. अरेतस्कत्वात् for आत्तेरतस्कत्वात्;
R. अश्वतरीयप्रजा, JM. अश्वतरी न जायते for अश्वतरी अप्रजा. - R. आक्तेरेता, J. अरेता, M. आर्तेरेता for आत्तेरेता; RI.
श्रुतिप्रसिद्धः, J. श्रुतिप्रसिद्धिः for श्रुतेः। - J. om. वा। गृहम्.
- M. adds. पूर्ववद् before अनुषङ्गः; J. ०मनुष्य० for ०महिष्या.
- J. om. (आ)देः; M. ०रोहणाद् for रोहणादीनि; RJI. om. इति.
- RMI. ०साधन० for ०साधनं; M. ०कर्तव्यत्वं for ०कर्तव्यताकं.
- JM. ०हुतीः for ०हुतिभिः.
षष्ठोऽध्यायः (७)
स्वाहा, अर्चिःपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपापशमनाय
स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम गायेत् ॥ ३ ॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥
(सा. ३) इत्यनया ऋचा स्थालीपाकविधानेन चरूं श्रपयित्वा तं हुत्वा पुन-
रग्नये स्वाहेत्यादिभिः पञ्चभिः मन्त्रैः पञ्चभिराज्याहुतिभिरग्निंजुहोति ।
जुहुयात् । पुनर्न्यूनातिरेकप्रायश्चित्तार्थं व्याहृतिभिर्हुत्वा यथोक्तायामृचि पूर्ववत्
साम गायेत् । स्वस्तिवाचनादि पूर्ववत् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये सप्तमः खण्डः ॥ ७ ॥
4. MI. ०पाकेन for ०पाक०.
5. RI. पञ्चाज्याहुतीः for पञ्चभिराज्याहुतिभिः.
6. RIM. व्याहृतिहोमं कृत्वा for व्याहृतिभिर्हुत्वा.
7. J. om. स्वस्तिवाचनादि पूर्ववत् .
अष्टमः खण्डः
अथ वायुदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेनादौ
अन्तरिक्षनिरीक्षणपूर्वकमावर्तनं दर्शयति—
सोऽन्तरिक्षमन्वावर्तते ॥ १ ॥
वक्ष्यमाणनिमित्तानामन्तरिक्षस्य च वायुसंबन्धाविशेषात् वक्ष्यमाण-
निमित्तविशेषवानधिकारी अन्तरिक्षम् अन्वीक्ष्य होमार्थं प्रवर्तते ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य विवाता वाता वायन्ते, अभ्रेषु चापरूपाणि
दृश्यन्ते, खर-करभ-मन्थ-कङ्क-कपोत-उलूक-काक-
श्येन-भास-वायस-गोमायु-संस्थान्युपरि पांसुमांसपेश्यस्थि-
रुधिरवर्षाणि प्रवर्तन्ते, काकमिथुनानि दृश्यन्ते, रात्रौ मणिधनुं
पश्येत्, शशका ग्रामं प्रविशन्ति, वृक्षाः स्रवन्ति रुधिराणि,
आकाशे राजकुलं वसति इत्येवमादीनि तान्येतानि
सर्वाणि वायुदेवत्यान्यद्भूतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
2. RI. om. तदङ्गत्वेन.
5. J. ॰संबन्धित्व॰, M. ॰संबन्धता॰ for ॰संबन्ध॰ ; M. ॰विशेष-
णात् for विशेषात् ; JM. om. वक्ष्यमाण...प्रवर्तते.
7. MI. add अथ before इदानीं ; M. विशेषणं, I. विशेषं for
विशेषान् .
8. M. भेषज॰ for अभ्रेषु चाप॰
9. I. मण्ड for मन्थ.
11. R. मणि धनुं, I. मणिधनं, MS. मणिधनुः for मणिधनुं.
13. MIShMs. वसन्ति for वसति ; M. adds तान्येवमादीनि
before तानि.
षष्ठोऽध्यायः (८) २१३
अथ पुनरस्य देशा यदा विवाता वातमात्ररहिता अतिवाता
अतिशयितवाता वायन्ते । अय वय गताविति धातुः । स्वरितेत्
(Cp. पा. १.३.७२) । अग्रेषु च अपरूपणि पर्वतादिषु निर्निमित्तं भ्रंश-
कृतानि विरुद्धानि रूपाणि दृश्यन्ते । तथा अस्य गृहाणि । खरः गर्दभः ।
करभकः क्रमेलकः । मन्थो मृगविशेषः । कङ्कः पक्षिविशेषः । कपोतादयः
प्रसिद्धाः । गोमायुः क्रोष्टा । एतैः प्रविष्टानि दृश्यन्ते । किंच, उपरि
अन्तरिक्षे पांसवो धूलयः । मांसपेशी मांसखण्डः । अस्थिरुधिरे प्रसिद्धे । एतेषां
वर्षाणि प्रवर्तन्ते । तथा काकमिथुनानि काकमैथुनानि दृश्यन्ते । तथा रात्रौ
मणिधनुं इन्द्रधनुः पश्येत् । किं च शशकाः शशाश्च ग्रामं यदा प्रविशन्ति ।
वृक्षाश्च रुधिराणि स्रवन्ति । आकाशे राजकुलं वसति । गन्धर्वनगरादिक-
मवस्थितं दृश्यत इति शेषः । इत्येवमादीनि । तान्येतानि सर्वाणि वायुदेवत्या-
न्यद्भुतानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
- J. यस्य देशोऽधिकभावान्मात्रअधिकाः for अस्य...रहिताः; M. adds
ते after विवाताः ; JM. om. अतिवाताः See CN. - J. adds वर्तन्ते after (अ)यन्ते.
- M. तद्वेषजारूपाणि, I. भेषजापरूपाणि for अग्रेषु च अपरूपणि ;
RJ. निर्निमित्तत्वं, M. निमित्त for निर्निमित्तं ; J. प्राकृतात् for भ्रंशकृतानि. - M. ॰कृतविरूपाणि for ॰कृतानि विरुद्धानि रूपाणि.
- M. करम्भकः for करभकः ; RI. om. करभकः; J. कङ्क॰ for
कङ्कः पक्षिविशेषः ; M. om. कङ्कः पक्षिविशेषः. - RI. गोमायवः क्रोष्टारः for गोमायुः क्रोष्टा ; RI. तथा for किं
च and add स्वस्य गृहस्य वा befor उपरि. - RI. ॰रुधिराणां च for अस्थिरुधिरे प्रसिद्धे । एतेषां.
- M. ॰मिथुनादि च, J. मिथुनानि च for ॰मिथुनानि ; MJ. om.
का कमैथुनानि. - RMI. मणिधनुः for मणिधनुं; J. इन्द्रधनुं for इन्द्रधनुः;
J. om. शशाः ; MIR. सग्रामं for ग्रामं ; RI. transp. यदा before ग्रामं. - J. वृक्षेभ्यः for वृक्षाः ; M. वसन्ति for वसति and om.
न्धर्व...विध्यन्त० (p. २१४. L. १.) - RI. पश्यत० for दृश्यत ; J. अर्थः for शेषः.
- J. om. प्रायश्चित्तानि.
16
२१४ षड्विंशब्राह्मणम्
अथ तद्धेतुदुरितापूर्वनिबर्हणसाधनं होमं विध्यन्तसहितं दर्शयति—
वात आवातु भेषजम् (सा. १८४) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । वायवे स्वाहा,
महद्भूताधिपतये स्वाहा, शीघ्रपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
वा²त³ आ वा¹तु² भेष³जꣲ¹ श³म्भु¹ म²यो³भु¹ नो² हृ³दे² । प्र² न³ आयू¹ꣳ²षि
तारिषत् ॥ (सा. १८४) इत्येषा ऋक् । अन्यत् पूर्ववद् व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये अष्टमः खण्डः ॥ ८ ॥
पादटिप्पणी (Footnotes):
- R1. om. ०निबर्हण०
- JM. ०हुती for ०हुतिभि०
नवमः खण्डः
अथ सोमदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेन
द्युनिरीक्षणपूर्वकमावर्तनं दर्शयति—
स दिवमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तवान् दिवं द्युलोकमन्वीक्ष्यावर्तते । प्रवर्तते
होमार्थम् । दिवो वक्ष्यमाणनिमित्तानां च सोमसंबन्धित्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य तारावर्षाणि चोल्काः पतन्ति,
निपतन्ति, धूमायन्ति, दिशो दह्यन्ति, केतवश्चोत्तिष्ठन्ति,
गवां शृङ्गेषु धूमो जायते, गवां स्तनेषु रुधिरं स्रवति,
अत्यर्थं हिमं निपतति, इत्येवमादीनि तान्येतानि सर्वाणि
सोमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य गोचरे यदा तारावर्षाणि नक्षत्रवृष्टयः पतन्ति जायन्त
इत्यर्थः । उल्काश्च निपतन्ति दिशो धूमायन्ति । निर्निमित्तं धूमयुक्ता इव
दृश्यन्त इत्यर्थः । तथा ता एव दह्यन्ति दह्यन्ते; ज्वलारूपा दृश्यन्ते इत्यर्थः ।
5. JM. वक्ष्यमाणनिमित्तवान्; R. दिव्यं M. दीपम् for दिवं;
JM. om. द्युलोकम् ; JM. om. प्रवर्तते होमार्थम् .
6. J. ० देवत्वात्, M. ० देवत्यत्वात् for ०संबन्धित्वाविशेषात् .
7. ०विशेषकं for विशेषान् .
13. M. before अथ adds: इदानीं तद्धेतुं दुरितापूर्वपरिहारार्थं सविद्युतं
होमं दर्शयति—.
14. M. ०युक्तवद् for ०युक्ता इव.
15. RI. अथ for तथा; J. om. दह्यन्ते.
२१६ षड्विंशब्राह्मणम्
किंच, अन्तरिक्षे केतवो धूमकेतवः उत्तिष्ठन्ति । तथा गवां शृङ्गेषु विषाणेषु
धूमो जायते । तथा गवां स्तनेषु रुधिरम् एव स्रवति ; न पयः ।
किंच, अत्यर्थं हिमं बहुलं निपततीत्येवमादीनि सर्वाण्यद्भुतानि
सोमदेवत्यानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
इदानीं तद्धेतुदुरितपूर्वपरिहारार्थं होमं दर्शयति—
सोमं राजानं वरुणम् (सा. ९१) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । सोमाय स्वाहा,
नक्षत्राधिपतये स्वाहा, शीतपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
२ ३ १ २ ३ १ २ ३ २ ३ १ २ ३ २³ ३ १ २ ३ १ २
सोमं राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुऽ सूर्यं ब्रह्माणं
३ २ ३ १ २
च बृहस्पतिम् ॥ (सा. ९१) इत्येषा ऋक् । अन्यत् पूर्ववद्
व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये नवमः खण्डः ॥ ९ ॥
पादटिप्पणी (Footnotes):
[Fn. 2] 2. RI. रुधिराणि स्रवन्ति for रुधिरम् एव स्रवति.
[Fn. 5] 5. RI. before होमं add संविध्यन्तं.
[Fn. 7] 7. J. ॰हुती: for ॰हुतिभि:.
दशमः खण्डः
अथ वैष्णवाद्भुतविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेन परस्या दिवो
ऽभिमन्त्रणपूर्वकमन्वावर्तनं दर्शयति—
स परं दिवमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणाद्भुतविशेषनिमित्तवानधिकारी पराम् उत्कृष्टां वैष्णवीं
दिवम् अन्वीक्षावर्तते । होमार्थं प्रवर्तते । निमित्तानां दिश(व?)श्च
वैष्णवत्वात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्यायुक्तानि यानानि प्रवर्तन्ते, देवताय-
तनानि कम्पन्ते, दैवतप्रतिमा हसन्ति, रुदन्ति, गायन्ति,
नृत्यन्ति, स्फुटन्ति, स्विद्यन्ति, उन्मीलन्ति, निमीलन्ति,
प्रतिप्रयान्ति नद्यः, कबन्धमादित्ये दृश्यते, विजले च
परिविष्यते, केतु-पताक-च्छत्र-वज्र-विषाणानि प्रज्वलन्ति,
अश्वानां च वालधीष्वङ्गाराः क्षरन्ति, अहतानि चर्माणि
कनिक्रन्त इत्येवमादीनि तान्येतानि सर्वाणि विष्णुदेव-
त्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
- M. om. ॰विशेषे होम॰.
- M. om. स परं दिवमन्वावर्तते...दर्शयति—(L. 8)
- J. om. प्रवर्तते.
- M. देवता॰ for दैवत॰
- M. adds भिद्यन्ति after स्विद्यन्ति; M. उन्मीलयन्ति निमीलयन्ति
for उन्मीलन्ति निमीलन्ति. - IJ. मर्माणि for चर्माणि.
- R. कनिक्रन्दन्त॰; J. कनिकदत॰ M. कनीकन्त॰ for कनिक्रन्त॰
२१८ षड्विंशब्राह्मणम्
अथ पुनरस्य पुरुषस्य यदा यानानि अयुक्तानि अयोग्यानि
खरमहिषादीनि प्रवर्तन्ते । स्वप्नावस्थायां तथास्य गोचरे भवति । तथा
देवतायतनानि कम्पन्ते । निर्निमित्तं चलन्ति । तथा दैवतप्रतिमा हसन्ति
हासं कुर्वन्ति । तथा रुदन्ति अश्रूणि विमुञ्चन्ति । गायन्ति गानं कुर्वन्ति ।
नृत्यन्ति गात्राणि विक्षिपन्ति । स्फुटन्ति एकदेशतः स्फुटनं प्राप्नुवन्ति ।
तथा स्विद्यन्ति स्वेदनं प्राप्नुवन्ति । भिद्यन्ति विदीर्यन्ते । उन्मीलन्ति
नेत्रोन्मीलनं कुर्वन्ति । निमीलन्ति च । तथा नद्यश्च प्रतिप्रयान्ति वैपरीत्येन
प्रवहन्ति । किंच, आदित्ये तपति सति कबन्धं शिरोरहितं शरीरं स्वच्छा-
यायाः दृश्यते । तथा विजले जलरहिते अवृष्टिकाले परिविष्यते चन्द्रादित्ययोः
परिवेषो दृश्यते । तथा केतवो ध्वजाः । पताकाः क्षुद्रध्वजाः । छत्रवज्र-
विषाणानि,–विषाणं गजविषाणनिर्मितम्,–एतानि निष्कारणं प्रज्वलन्ति ।
अश्वानां च वालधीषु अङ्गाराः क्षरन्ति पतन्ति । अहतानि दण्डादिभिरताडितानि
- JM. यस्य for अस्य.
- R गोशिर० for गोचरे and om. भवति । तथा ; I. om.
भवति ; J. after. गोचरे adds ता एव देवता उच्यन्ते युज्यन्ते येष्वपि. - M. after. ायतनानि adds: शिवविष्ण्वाद्यालयानि ; M. om.
निर्निमित्तं ; JM. देवता for दैवत०; M. adds शिवलिङ्गादीनि before हसन्ति;
J. adds च after ०प्रतिमाः.
4, RJI. om. हासं कुर्वन्ति and अश्रूणि विमुञ्चन्ति; J. om. गानं कुर्वन्ति. - RI. om. विक्षिपन्ति ; J. च तथा for विक्षिपन्ति ; M.
गात्रस्फोटं कुर्वन्ति for एकदेशतः स्फुटनं प्राप्नुवन्ति. - M. स्वेदयुक्ता भवन्ति for. स्वेदनं प्राप्नुवन्ति; J. स्विद्यन्ते for
स्विद्यन्ति ; J. om. स्वेदनं प्राप्नुवन्ति । भिद्यन्ति ; M. after प्राप्नुवन्ति adds:
सर्वत्र प्रतिमा देवता इत्यन्ते (उच्यन्ते ?) युज्यन्ते । येष्विति । देवता ;
J. after विदीर्यन्ते adds च. See CN; M. उन्मीलयन्ति for उन्मीलन्ति - M. नेत्रचालनं for नेत्रोन्मीलनं ; M. निमीलनं निश्चलं for
निमीलन्ति ; M. om. च । तथा. - M. ०च्छायायां, I. ०च्छाया for ०च्छायायाः
- JM. om. पताकाः...निर्मितं ; केतवः See CN.
- J. तदानीं M. तदा for एतानि ; M. व्रजन्ति for प्रज्वलन्ति.
- M. adds वालेषु after बालधीषु : J. तानि for अहतानि ;
RI. before अताडितानि add अहतानि.
षष्ठोऽध्यायः (१०) २१९
चर्माणि चर्मयुक्तानि भेर्यादीनि कनिक्रन्ते शब्दं कुर्वन्ति । इत्येवमादीनि ।
तान्येतानि सर्वाणि अद्भुतानि विष्णुदेवत्यानि प्रायश्चित्तानि प्रायश्चित्त-
निमित्तानि भवन्ति ॥ २ ॥
इदानीं तद्धेतुदुरितापूर्वनिर्बर्हणसाधनं होमविशेषं सेतिकर्तव्यताकं
दर्शयति —
इदं विष्णुर्विचक्रमे (सा. २२२) इति स्थालीपाकं
हुत्वा पञ्चभिरान्याहुतिभिरभिजुहोति । विष्णवे स्वाहा,
सर्वभूताधिपतये स्वाहा, चक्रपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
स्थीलापाकं स्थालीपाकविधानमनतिक्रम्य चरुं श्रपयित्वा, इदं^{३२उ} विष्णु॑र्वि-^{३}
^{२}चक्रमे त्रेधा^{३ १} नि^{२ र} दधे पदम्^{३ २} । समूढमस्य पाꣳ^{१ २}सुले^{७२} ॥ (सा. २२२) इत्यनया
ऋचा हुत्वा पुनर् विष्णवे स्वाहेत्यादिभिः पञ्चभिर्मन्त्रैः पञ्चभिरान्याहुतिभिर-
भिजुहोति । ततस्तन्न्यूनातिरेकप्रायश्चित्तार्थं व्याहृतिभिर्हुत्वा अथ पश्चात्
इदं विष्णुः (सा. २२२) इत्यस्यां वैष्णव्यामृचि साम अष्टोत्तरशतं
गायेत् ॥ ३ ॥
शुद्धे भूतले होमं कुर्यादिति दर्शयितुं भूशुद्धिहेतुं दर्शयति—
- RI. मर्माणि मर्म० for चर्माणि चर्म० See CN.
- RIM. हर्म्यपातादीनि, for तान्येतानि सर्वाणि ; JM. om. प्रायश्चित्तानि.
- J. होमं संविध्यन्तं, M. होमं विध्यन्तं for होमविशेषं ; JM. om. सेतिकर्तव्यताकं.
- J. om. त्रेधा...पाꣳसुले; M. adds एषा ऋक् after इत्य.
- R. om. first पञ्चभिः.
- J. adds जुहुयात् after अभिजुहोति.
- I. ०हेतून for ०हेतुं.
१२० षड्विंशब्राह्मणम्
खनननाद्दहनादभिमर्शनाद् गोभिराक्रमणाच्च चतुर्भिः
शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ ४ ॥
खननात् कुद्दालादिभिः । दहनादग्निना । अभिमर्शनात् मन्त्रपूर्वकं
हस्तेन । गोभिराक्रमणाच्च इत्येतैः खननादिभिः चतुर्भिः भूमिः शुध्यते ।
तथा पञ्चमात् गोमयेनोपलेपनात् भूमिः शुध्यत इत्यनुषङ्गः ॥ ४ ॥
सामगानानन्तरं किं कुर्यादित्यत आह—
संभारान् प्रदक्षिणमानीय ब्राह्मणान् स्वस्ति
वाच्य ॥ ५ ॥
ततः संभारान् प्रागुक्तान् दर्भादीन् होमसंभारान् प्रदक्षिणं यथा
भवति तथा होमसमीपदेशमानीय ब्राह्मणानुपवेश्य स्वस्ति वाच्य पुण्याहवाचनं
कृत्वा कर्म समापयेदिति शेषः ॥ ५ ॥
संभाराणां मध्ये कस्यचिदुपहतौ तस्याभ्युक्षणं शुद्धिहेतुत्वेन विधत्ते—
एतैः संभारैर्यदुपस्पृष्टं तदभ्युक्षेत् । शाम्यति
हातः ॥ ६ ॥
एतैः यथोक्तैः संभारैः यदुपस्पृष्टम् उपहतं तद् द्रव्यम् अभ्युक्षेत्
स्वस्तिदा विशस्पतिः (ऋ. वे. १०.१५२.२) इत्यादिः स्वस्तिवाचनमन्त्रैः ।
अतः अभ्युक्षणादुपहतिदोषः शाम्यत्येव ॥ ६ ॥
३. J. कुठारा० for कुद्दाला०.
४. RI. add च after हस्तेन ˙ RI. transp. खननादिभिः
after शुध्यते.
६. RJ. अत्र for अतः
९. M. तत् for ततः; M. प्रागुक्तादीन् for प्रागुक्तान् .
११. M. कर्मावसेत् for कर्म समापयेत् .
१२. J. कैश्चित् for कस्यचित् ; RI. ०हतस्य for ०हतौ तस्य.
१५. RI, om. द्रव्यम् .
षष्ठोऽध्यायः (१०) १२१
नैमित्तिकहोमाङ्गत्वेन ब्राह्मणभोजनं दक्षिणां च दर्शयति—
ब्राह्मणभोजनं हिरण्यं गौर्वासोऽश्वो भूमिर्दक्षिणा
इति । शाम्यति हातः । शान्त्यर्थः शान्त्यर्थः ॥ ७ ॥
होमानन्तरं ब्राह्मणभोजनम् । भुजेर्ण्यन्ताल्ल्युट् । ब्राह्मणान् भोजयेदि-
त्यर्थः । तथा तस्मिन् होमे हिरण्यं कनकं गौश्च वासश्च अश्वो भूमिरिति
चैता दक्षिणाः सुवर्णादिकमृत्विग्भ्यो दद्यात् । अतः एवं साङ्गहोमानन्तरम्
अद्भुतादिसूचितो दोषः शाम्यत्येव । यथोक्तषष्ठाध्यायप्रतिपादितः एष होमः
शान्त्यर्थः । ऐन्द्राद्यद्भुतसूचितदुरितापूर्वशान्त्यर्थः । द्विरुक्तिरादरार्था ।
अध्यायसमाप्तिद्योतनार्था च ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये दशमः खण्डः ॥ १० ॥
- M. दक्षिणाश्च for दक्षिणां च.
- M. हाथो for हातः.
- J. होमानन्तरं for भुजेर्ण्यन्ताल्ल्युट् .
- JM. वासः for वासश्च.
- RI. after दद्यात् add ऋत्विजो ब्राह्मणाश्च भोज्या इत्यर्थः;
J. अथो for अतः. - RI. ०सूचितदोषनिर्हरणरूपशान्त्यर्थः । शान्तिकरणप्रयोजनं सिध्य-
तीति शेषः for ०सूचितो दोषः...यथोक्त०; JM. adds एषः before यथोक्त ;
RI. षष्ठाध्याये for षष्ठाध्याय०; M. षष्ठाध्यायोदितः for षष्ठाध्यायप्रतिपादितः. - RI. अद्भुतशान्ति० for अध्याय०.
- M. Concludes with: इति दशमः खण्डः । षष्ठोऽध्यायः । माधवीये
सायणाचार्यविरचिते षड्विंशब्राह्मणभाष्यं संपूर्णम् । हरिः ॐ । श्रीगुरुभ्यो नमः ।
श्रीदक्षिणामूर्तये नमः; J. ०विंशेऽद्भुतब्राह्मणे षष्ठाध्यायस्य for षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये. - J. after दशमः खण्डः । adds वेदार्थस्य प्रकाशेन तमो हार्दं
निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ श्रीमद्राजाधिराजपरमेश्वरवैदिक-
मार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये
वेदार्थप्रकाशे द्वितीये षड्विंशब्राह्मणव्याख्याने षष्ठाध्यायः समाप्तः ॥
एकादशः खण्डः
अथ रुद्रदेवत्याद्भुतविशेषे होमविशेषं दर्शयितुं पृथिव्या अधस्ताद्दिशो
निरीक्षणपूर्वकमावर्तनं दर्शयति—
सोऽधस्ताद्दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणाद्भुतविशेषवानधिकारी पृथिव्या अधस्ताद्दिशमन्वीक्ष्य
मनसा ध्यात्वावर्तते । होमार्थं प्रवर्तते । रुद्रस्य सर्वलोकाधारकत्वेनाधोभूम्या
दिशो वक्ष्यमाणानामद्भुतानां च रौद्रत्वाविशेषात् ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य गवां मानुषमहिष्यजाश्वोष्ट्राः
प्रसूयन्ते, हीनाङ्गान्यतिरिक्ताङ्गानि विकृतरूपाणि वा
जायन्ते, असंभवानि संभवन्ति, अचलानि चलन्ति इत्येव-
मादीनि तान्येतानि सर्वाणि रुद्रदेवत्यान्यद्भुतानि
प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य पुरुषस्य मानुषं मनुष्यत्वं मनुष्यरूपवत्संजनकत्वम् ।
गावो मनुष्यान् प्रसूयन्त इति यावत् । तथा महिष्यजाश्वोष्ट्राः प्रसूयन्ते ।
हीनाङ्गानि अङ्गहीनानि [अतिरिक्ताङ्गानि] अधिकाङ्गानि द्विशीर्षत्वादीनि
षडङ्गुलत्वादीनि जन्तुरूपाणि स्वजात्यननुरूपाधिकाङ्गयुक्तानि वा जायन्ते ।
असंभवानि शशविषाणप्रायाणि संभवन्ति जायन्ते । असूयानि कन्याजरठ-
बन्ध्यादीनि असूयन्ति प्रसूयन्ते प्रजाः । अबलानि असमर्थानि समर्थीभवन्ति ।
2. J. om. अथ...दर्शयति ; J. has only text and no commentary.
9. RI. महिषी अजा० for महिष्यजा०
17. R. ०जात्यानु for ०जात्यननु०
18. असूयानि See CN.
षष्ठोऽध्यायः (११) २२३
यद्वा—अचलानि पर्वतादीनि चलन्ति । इत्येवमादीनि अद्भुतानि
सर्वाणि रुद्रदेवत्यानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
इदानीं तज्जन्यदुरितापूर्वनिर्बर्हणसाधनं होमविशेषं सेतिकर्तव्यताकं
दर्शयति—
आ वो राजानम् (सा. ६९) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । रुद्राय स्वाहा, पशुपतये
स्वाहा, शूलपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपाप-
शमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम गायेत् ॥ ३ ॥
आ⁻ वो³ राजान⁵क मध्व³¹र²स्य³¹ रुद्रँᳵ⁵र होतारँᳵ सत्ययजँᳵ³²³ रोदस्योः¹² ।
अग्निं³² पुरा³¹ तनयि²त्नोर³²चित्ता³²³द्धिरण्यरूप¹²मवसे³¹² कृणुध्वम् ॥ (सा. ६९) इत्येषा
ऋक् । अन्यत् पूर्ववद्व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये एकादशः खण्डः ॥ ११ ॥
२. R. ॰दैवत्यानि for देवत्यानि.
द्वादशः खण्डः
अथ सूर्यदेवत्याद्भुतविशेषे होमविशेषं दर्शयितुमादौ सर्वदिङ्निरीक्षण-
पूर्वकमावर्तनं दर्शयति—
स सर्वा दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तविशेषवान् सर्वा दिशोऽन्वीक्ष्य होमार्थमावर्तते
प्रवर्तते । सर्वासां दिशां निमित्तानां वक्ष्यमाणानां सूर्यसंबन्धाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य मानुषाणामतिधृतिम(र?)तिदुःखं वा
पर्वताः स्फुटन्ति, निपतन्त्याकाशाद्, भूमिः कम्पते, महाद्रुमा
उन्मूलन्ति, अश्मानः प्लवन्ति, तटाकानि प्रज्वलन्ति,
चतुष्पादं पञ्चपादं वा भवन्ति इत्येवमादीनि तान्येतानि सर्वाणि
सूर्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य पुरुषस्य देशे मानुषाणामतिधृतिम(र?)तिदुःखमति-
गर्वित्वम् अतिदुःखं वा । पर्वताः फुटन्ति एकदेशे विदीर्यन्ते ।
आकाशाच्च पर्वता निपतन्ति भूमौ । भूमिश्च यावत्स्वदेशं कम्पते ।
पूर्वमावासमात्रभूचलनमुक्तमिति न पौनरुक्त्यम् । महाद्रुमा उन्मूलन्ति समूलाः
8. Sh. ईति० for अति०
10. RJ. उन्मीलन्ति, IMS. उन्मलन्ति for उन्मूलन्ति.
11. J. भवति for भवन्ति.
13. R. om. देशे...पर्वता० (L. 15); I. (इ)ति for (अ)ति; See CN.
16. I. उन्मलन्ति, R. उन्मीलन्ति for उन्मूलन्ति; RI. add
विनाशकारणं before समूलाः.
षष्ठोऽध्यायः (१२)
पतन्ति । अश्मानः स्थूला आपे प्लवन्ति । पूर्वं स्वल्पपरिमाणानां प्लवन-
मुक्तम् । तटाकानि प्रज्वलन्ति । जलाशया ज्वालायुक्ता इव दृश्यन्ते । चतुष्पादं
प्राणिजातं पञ्चपादं षट्पादं वा भवन्तीत्येवमादीनि सर्वाण्यद्भुतानि
सूर्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
इदानीं तद्धेतुकदुरितापूर्वकनिरसनाय होमं सविध्यन्तरं दर्शयति—
उदु त्यं जातवेदसम् (सा. ३१) इति स्थालीपाकं
हुत्वा पञ्चभिरान्याहुतिभिरभिजुहोति । सूर्याय स्वाहा,
सर्वग्रहाधिपतये स्वाहा, किरणपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
<sup>२ ३</sup>उदु <sup>२</sup>त्यं <sup>३</sup>जा<sup>१ २</sup>तवेदसं <sup>३ १ २</sup>देवं वहन्ति <sup>३ १ २
RASHTRIYA SANSKRIT SANSTHAN
Delhi.
Kendriya Sanskrit Vidyapeetha, Tirupati Series No. 9)
ṢAḌVIṀŚA BRĀHMAṆA
WITH
VEDARTHAPRAKASA OF SAYANA
Critically Edited by
BELIKOTH RAMACHANDRA SHARMA, M.A., Ph.D.
Former Director
Kendriya Sanskrit Vidyapeetha
TIRUPATI
[लाञ्छनम्: योऽनूचानः स नो महान् / राष्ट्रियसंस्कृतसंस्थानम्]
KENDRIYA SANSKRIT VIDYAPEETHA
TIRUPATI
1983 Rs 41 = 00