षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 221, कुल 226 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः (१०) १२१
नैमित्तिकहोमाङ्गत्वेन ब्राह्मणभोजनं दक्षिणां च दर्शयति—
ब्राह्मणभोजनं हिरण्यं गौर्वासोऽश्वो भूमिर्दक्षिणा
इति । शाम्यति हातः । शान्त्यर्थः शान्त्यर्थः ॥ ७ ॥
होमानन्तरं ब्राह्मणभोजनम् । भुजेर्ण्यन्ताल्ल्युट् । ब्राह्मणान् भोजयेदि-
त्यर्थः । तथा तस्मिन् होमे हिरण्यं कनकं गौश्च वासश्च अश्वो भूमिरिति
चैता दक्षिणाः सुवर्णादिकमृत्विग्भ्यो दद्यात् । अतः एवं साङ्गहोमानन्तरम्
अद्भुतादिसूचितो दोषः शाम्यत्येव । यथोक्तषष्ठाध्यायप्रतिपादितः एष होमः
शान्त्यर्थः । ऐन्द्राद्यद्भुतसूचितदुरितापूर्वशान्त्यर्थः । द्विरुक्तिरादरार्था ।
अध्यायसमाप्तिद्योतनार्था च ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये दशमः खण्डः ॥ १० ॥
- M. दक्षिणाश्च for दक्षिणां च.
- M. हाथो for हातः.
- J. होमानन्तरं for भुजेर्ण्यन्ताल्ल्युट् .
- JM. वासः for वासश्च.
- RI. after दद्यात् add ऋत्विजो ब्राह्मणाश्च भोज्या इत्यर्थः;
J. अथो for अतः. - RI. ०सूचितदोषनिर्हरणरूपशान्त्यर्थः । शान्तिकरणप्रयोजनं सिध्य-
तीति शेषः for ०सूचितो दोषः...यथोक्त०; JM. adds एषः before यथोक्त ;
RI. षष्ठाध्याये for षष्ठाध्याय०; M. षष्ठाध्यायोदितः for षष्ठाध्यायप्रतिपादितः. - RI. अद्भुतशान्ति० for अध्याय०.
- M. Concludes with: इति दशमः खण्डः । षष्ठोऽध्यायः । माधवीये
सायणाचार्यविरचिते षड्विंशब्राह्मणभाष्यं संपूर्णम् । हरिः ॐ । श्रीगुरुभ्यो नमः ।
श्रीदक्षिणामूर्तये नमः; J. ०विंशेऽद्भुतब्राह्मणे षष्ठाध्यायस्य for षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये. - J. after दशमः खण्डः । adds वेदार्थस्य प्रकाशेन तमो हार्दं
निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ श्रीमद्राजाधिराजपरमेश्वरवैदिक-
मार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये
वेदार्थप्रकाशे द्वितीये षड्विंशब्राह्मणव्याख्याने षष्ठाध्यायः समाप्तः ॥