षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
DevanagariSanskritpublished226 पृष्ठ
पृष्ठ 217, कुल 226 में से
संदर्भ में पढ़ेंपृष्ठ 217दशमः खण्डः
दशमः खण्डः
अथ वैष्णवाद्भुतविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेन परस्या दिवो
ऽभिमन्त्रणपूर्वकमन्वावर्तनं दर्शयति—
स परं दिवमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणाद्भुतविशेषनिमित्तवानधिकारी पराम् उत्कृष्टां वैष्णवीं
दिवम् अन्वीक्षावर्तते । होमार्थं प्रवर्तते । निमित्तानां दिश(व?)श्च
वैष्णवत्वात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्यायुक्तानि यानानि प्रवर्तन्ते, देवताय-
तनानि कम्पन्ते, दैवतप्रतिमा हसन्ति, रुदन्ति, गायन्ति,
नृत्यन्ति, स्फुटन्ति, स्विद्यन्ति, उन्मीलन्ति, निमीलन्ति,
प्रतिप्रयान्ति नद्यः, कबन्धमादित्ये दृश्यते, विजले च
परिविष्यते, केतु-पताक-च्छत्र-वज्र-विषाणानि प्रज्वलन्ति,
अश्वानां च वालधीष्वङ्गाराः क्षरन्ति, अहतानि चर्माणि
कनिक्रन्त इत्येवमादीनि तान्येतानि सर्वाणि विष्णुदेव-
त्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
- M. om. ॰विशेषे होम॰.
- M. om. स परं दिवमन्वावर्तते...दर्शयति—(L. 8)
- J. om. प्रवर्तते.
- M. देवता॰ for दैवत॰
- M. adds भिद्यन्ति after स्विद्यन्ति; M. उन्मीलयन्ति निमीलयन्ति
for उन्मीलन्ति निमीलन्ति. - IJ. मर्माणि for चर्माणि.
- R. कनिक्रन्दन्त॰; J. कनिकदत॰ M. कनीकन्त॰ for कनिक्रन्त॰