सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 216, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 216

२१६ षड्विंशब्राह्मणम्

किंच, अन्तरिक्षे केतवो धूमकेतवः उत्तिष्ठन्ति । तथा गवां शृङ्गेषु विषाणेषु
धूमो जायते । तथा गवां स्तनेषु रुधिरम् एव स्रवति ; न पयः ।
किंच, अत्यर्थं हिमं बहुलं निपततीत्येवमादीनि सर्वाण्यद्भुतानि
सोमदेवत्यानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
इदानीं तद्धेतुदुरितपूर्वपरिहारार्थं होमं दर्शयति—
सोमं राजानं वरुणम् (सा. ९१) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । सोमाय स्वाहा,
नक्षत्राधिपतये स्वाहा, शीतपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
२ ३ १ २ ३ १ २ ३ २ ३ १ २ ३ २³ ३ १ २ ३ १ २
सोमं राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुऽ सूर्यं ब्रह्माणं
३ २ ३ १ २
च बृहस्पतिम् ॥ (सा. ९१) इत्येषा ऋक् । अन्यत् पूर्ववद्
व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये नवमः खण्डः ॥ ९ ॥


पादटिप्पणी (Footnotes):
[Fn. 2] 2. RI. रुधिराणि स्रवन्ति for रुधिरम् एव स्रवति.
[Fn. 5] 5. RI. before होमं add संविध्यन्तं.
[Fn. 7] 7. J. ॰हुती: for ॰हुतिभि:.