षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 215, कुल 226 में से
संदर्भ में पढ़ेंनवमः खण्डः
अथ सोमदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेन
द्युनिरीक्षणपूर्वकमावर्तनं दर्शयति—
स दिवमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तवान् दिवं द्युलोकमन्वीक्ष्यावर्तते । प्रवर्तते
होमार्थम् । दिवो वक्ष्यमाणनिमित्तानां च सोमसंबन्धित्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य तारावर्षाणि चोल्काः पतन्ति,
निपतन्ति, धूमायन्ति, दिशो दह्यन्ति, केतवश्चोत्तिष्ठन्ति,
गवां शृङ्गेषु धूमो जायते, गवां स्तनेषु रुधिरं स्रवति,
अत्यर्थं हिमं निपतति, इत्येवमादीनि तान्येतानि सर्वाणि
सोमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य गोचरे यदा तारावर्षाणि नक्षत्रवृष्टयः पतन्ति जायन्त
इत्यर्थः । उल्काश्च निपतन्ति दिशो धूमायन्ति । निर्निमित्तं धूमयुक्ता इव
दृश्यन्त इत्यर्थः । तथा ता एव दह्यन्ति दह्यन्ते; ज्वलारूपा दृश्यन्ते इत्यर्थः ।
5. JM. वक्ष्यमाणनिमित्तवान्; R. दिव्यं M. दीपम् for दिवं;
JM. om. द्युलोकम् ; JM. om. प्रवर्तते होमार्थम् .
6. J. ० देवत्वात्, M. ० देवत्यत्वात् for ०संबन्धित्वाविशेषात् .
7. ०विशेषकं for विशेषान् .
13. M. before अथ adds: इदानीं तद्धेतुं दुरितापूर्वपरिहारार्थं सविद्युतं
होमं दर्शयति—.
14. M. ०युक्तवद् for ०युक्ता इव.
15. RI. अथ for तथा; J. om. दह्यन्ते.