सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

३२२ सात्वतसंहिता
कालं वैष्णवं वैष्णवमानसंज्ञम्, उत्तमं तं विद्धि । पारमेश्वरव्याख्याने— "एकादश्यादि
चान्तो य इत्यत्र एकादश्यामादिरारम्भस्तत्र तीर्थं वा" इति विलिखितम् । तद्वि-
चारणीयम् ॥ १०-१३ ॥
वह पवित्रारोपण चातुर्मास्य काल में पवित्र शुभ तिथि में करे, आषाढ़ की
पूर्णिमा से लेकर कार्तिक की पूर्णिमा तक का दिन चातुर्मास्य कहा जाता है ॥ १० ॥
जिस दिन चन्द्रमा सायं से कार्तिक मास के जिस दिन सारा दिन चन्द्रमा
हो उस दिन को 'पूर्णमासी' कहा जाता है उतना चान्द्रमान काल 'अधम' कहा
जाता है ॥ १०-११ ॥
कर्क की संक्रान्ति से लेकर तुलाभोगक्षयावधि पर्यन्त इस प्रकार कुल आठ
पक्ष का सौर काल 'मध्यम' संज्ञक कहा जाता है। अतः आषाढ़ शुक्ल एकादशी
से लेकर कार्त्तिक शुक्ल एकादशी के अन्त तक का काल विद्वानों द्वारा चातुर्मास्य
'उत्तम' संज्ञक कहा जाता है ॥ ११-१२ ॥
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ॥ १३ ॥
निर्वाहणीयोऽप्यपरः कालश्चान्द्रायणादिना ।
उत्तमकालालाभेऽधमादिकाले वेदनुष्ठेयमित्याह—अप्राप्तेरिति ॥ १३-१४ ॥
यही काल वैष्णव मान के अनुसार चातुर्मास्य समझना चाहिये जो सर्वोत्तम
है। यदि इस प्रकार का काल संभव न हो, तब अधमकाल में भी वेदानुष्ठान
(पवित्रारोपण) अनुष्ठेय है ॥ १३-१४ ॥
सम्पाद्यं चैव तन्मध्ये विधिवद् यागपूरकम् ॥ १४ ॥
दिनत्रये तु पूर्वोक्ते पूर्णिमाद्युपलक्षिते ।
सोपवासैः क्रियापूर्वं कर्म प्रातिसरीयकम् ॥ १५ ॥
उत्तमकालेष्वन्यतमे दिनत्रये पवित्रारोपणं कार्यमित्याह—सम्पाद्यमिति । सम्पाद्यं
= कर्तव्यमित्यर्थः । तन्मध्ये उत्तमादिकालत्रयमध्ये, यागपूरकं = भगवदाराधनच्छिद्र-
पूरकमित्यर्थः, पौर्णिमाद्युपलक्षिते = पौर्णमास्या एकादश्या संक्रान्त्या वाऽन्वित
इत्यर्थः । प्रातिसरीयकं = पावित्रकमित्यर्थः ॥ १४-१५ ॥
तीन दिन के उत्तम काल में किसी भी उत्तम दिन पवित्रारोपण विधेय है ।
इस उत्तमादिकालत्रय के मध्य में भगवदाराधन में होने वाले छिद्र की पूर्ति के लिये
याग तथा पौर्णमासी एकादशी अथवा संक्रान्ति काल में प्रतिसरानुष्ठान (पवित्रा-
रोपण) भी विधेय है ॥ १४-१५ ॥
पवित्रदिवसाख्य कर्मकथनम्
दशम्यामर्चनं कृत्वा हुत्वाग्निं च निशामुखे ।
आनिमन्त्र्य च देवेशं धूपं दत्त्वाऽर्घ्यपूर्वकम् ॥ १६ ॥

चतुर्दशः परिच्छेदः ३२३
निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ।
तथापि भक्त्या तृप्तोऽहं त्वां यजाम्यात्मसिद्धये ॥ १७ ॥
निवेद्य मुखवासादीनित्युक्त्वा दन्तधावनम् ।
सम्पूज्याथ सुगन्धैस्तु सितसूत्रसमूहजम् ॥ १८ ॥
शुभं प्रतिसरं त्वेकं तत्तुल्यानि बहूनि वा ।
कुङ्कुमाद्यैर्यथाशोभं रञ्जयित्वा स्वशक्तितः ॥ १९ ॥
जाम्बूनदमयैः पुष्पैर्नारत्लोपशोभितैः ।
सनालैर्भूषणीयं च रम्यैर्वा रजतोत्थितैः ॥ २० ॥
धूपितेऽभिनवे भाण्डे कृत्वाच्छाद्यास्तरेण तु ।
प्रणवेनार्चयित्वा तु संस्थाप्य पुरतो विभोः ॥ २१ ॥
देवागारं बहिश्चान्तर्मन्दिरं यागसंज्ञितम् ।
संवेष्ट्य सितसूत्रेण चतुर्धा तद्गुणेन तु ॥ २२ ॥
ततोऽभ्यर्च्य समूहं तु पञ्चकालपरायणम् ।
षट्कर्मनिरतं चापि यतिवृन्दं तु वैष्णवम् ॥ २३ ॥
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ।
सन्निधानमतः कार्यं मदनुग्रहकाम्यया ॥ २४ ॥
स्नानाद्यमेकादश्यां वै सविशेषं समाचरेत् ।
हवनान्तं क्रियाकाण्डं जपस्तुतिपरस्ततः ॥ २५ ॥
आराध्यस्याग्रतः स्थित्वा जागरेण नयेन्निशाम् ।
अथ दशम्येकादश्योः कर्तव्यं पवित्रदिवासाख्यं कर्माह—दशम्यामित्यारभ्य
जागरेण नयेन्निशामित्यन्तम् । अर्चनं कृत्वा कुम्भमण्डलबिम्बेषु यथाविधि सम्पूज्ये-
त्यर्थः । अग्निं च हुत्वा अग्नौ च देवं सन्तर्प्येत्यर्थः, एवमधिवासदिनादिषु चतुःस्थाना-
र्चनस्येश्वरपारमेश्वरादिषु प्रतिपादितत्वात् । यद्वाऽर्चनं कृत्वेत्यत्र केवलबिम्बार्चनमेव
विवक्षितम्,
यदा तु केवलं बिम्बे पवित्रारोपणं भवेत्॥
तदा स्याद् बिम्बकस्यैव अधिवासोक्तपूजनम्।
तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले॥
—(१२।४७८-४७९)
इति पारमेश्वरोक्तेः । इत्थं दिनद्वयेऽप्यधिवासकरणाशक्तस्यैकादश्यामेवाधि-
वासनम्, तत्राप्यशक्तस्य सद्योऽधिवासनम्, अधिवासात् पूर्वमङ्कुरार्पणं रक्षाबन्धनं
चोक्तमीश्वरे—
पूर्वं दशम्येकादश्योः कुर्यात् कर्माधिवासनम्।
एकादश्यां वानुकल्पे अधिवासनमाचरेत्॥

३२४ सात्वतसंहिता

सद्योऽधिवासं द्वादश्यां कुर्याद्वा शक्त्यभावतः ।
अधिवासदिनात् पूर्वदिनं कृत्वाङ्कुरार्पणम् ॥
अधिवासदिने कुर्याद् रक्षाबन्धं च देशिकः ।
—(१४।१६७-१६९)
इति । एवमेवोक्तं पारमेश्वरेऽपि—
प्राक्सप्त(मे) दिने कृत्वा प्राग्वदङ्कुररोपणम् ।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद् वासरद्वये ॥
—(१२।४७५) इति ।
द्रव्याभावो द्विजश्रेष्ठ! अशक्तिर्यदि वा भवेत् ।
सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्यनुसारतः ॥
—(१२।४९८-४९९) इति ।
अधिवासदिने चतुःस्थानार्चनानन्तरम् ‘‘आनिमन्त्र्य च देवेशम्’’ (१४।१६)
इत्यत्रैकैकं पवित्रं समर्पणीयम् । तथा चोक्तमीश्वरे पारमेश्वरे च—
प्रणम्य देवदेवेशं ततस्त्वेकं पवित्रकम् ।
दहनाप्यायसंशुद्धं प्रोक्षितं चार्घ्यवारिणा ॥
वासितं गन्धधूपाभ्यां चतुःस्थानस्थितस्य च ।
निवेद्य च क्रमेणैव धूपं दत्त्वाऽर्घ्यपूर्वकम् ॥ इति ।
—(ई०सं० १४।१८०-१८१, पा०सं० १२।२६१-२६२)
पवित्रनिर्माणप्रकरणेऽपि—
चतुःस्थानावतीर्णस्य विभोरामन्त्रणाय वै ।
पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ॥ इति ।
—(ई०सं० १४।११२-११३, पा०सं० १२।१४१-१४२)
अत्र पवित्राणां तन्तुसंख्याग्रन्थिकल्पनगर्भरचनादिकं नोक्तमपीश्वरपारमेश्वराद्युक्तं
ग्राह्यम् । अथवा—
यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया ।
निशारोचनया वापि पवित्राणां च धातुना ॥
केनचिद् ग्रन्थयो विप्रा विधिवत् परिरञ्जयेत् ।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥
—(ई०सं० १४।२६७-२६८, पा०सं० १२।५००-५०१)
इतीश्वरपारमेश्वरयोर्लघुपक्षस्याप्युक्तत्वात् तन्तुग्रन्थिनियमादीनामन्यतो ग्रहणा-
भावेऽपि न प्रत्यवायः ।
ननु यथेच्छाग्रन्थिकल्पनस्यापि मूलेऽनुक्तत्वात् तदपि वाऽन्यत्र ग्राह्यं खल्विति
चेन्न, ‘‘मुक्ताहारोपमम्’’ (१४।९) इत्यनेनैव ग्रन्थिकल्पनसिद्धेः । ‘‘संवेष्ट्य सित-
सूत्रेण चतुर्धा तद्गुणेन तु’’ (१४।२२) इत्यत्र तद्गुणेन चतुर्गुणेनेत्यर्थः,

चतुर्दशः परिच्छेदः ३२५
चतुर्गुणेन संवेष्ट्य ह्यन्तराद् यागमन्दिरम् ।
प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन् ॥ — (१२।२६९-२७०)
इति पारमेश्वरस्यष्टोक्तेः ॥ १६-२६ ॥
यह पवित्रानुष्ठान दशमी अथवा एकादशी को भी किया जा सकता है,
प्रतिसर (= पवित्रारोपण) कर्म में उपवास कर्म करे । सायंकाल अग्नि में हवन कर
दशमी को भगवान् का अर्चन करे । प्रथम देवेश का आमन्त्रण करे, अर्घ प्रदान
करे, फिर धूप देवे ॥ १६ ॥
फिर उनसे प्रार्थना करे—हे भगवन् ! आप स्वयं अपने आनन्दमय भोग से
नित्य तृप्त हैं । आप में कोई विकार है ही नहीं, तथापि आप की भक्ति से तृप्त
हुआ मैं अपनी सिद्धि की कामना के लिये आप का यजन करता हूँ ॥ १७ ॥
इस प्रकार प्रार्थना कर भगवान् को दन्त धावनादि मुख वास प्रदान करे ।
फिर श्वेत सूत्र समूह से बने हुए एक अथवा अनेक सूत्र समूहों की सुगन्धित
वस्तुओं से पूजा करे । उसे कुङ्कुमादि से यथाशक्ति रञ्जित करे, जिससे वह शोभा
सम्पन्न हो जाय । सुवर्णमय पुष्पों से तथा नाना प्रकार के रत्नों से अथवा रजतमय
खण्डों से धूपित नाल उसे भूषित करे । इस प्रकार भूषित कर लेने के बाद किसी
भूषित अभिनव भाण्ड में अन्तरण पर स्थापित कर प्रणव से अर्चना करे । फिर
उसे भगवान् के सामने स्थापित करे ॥ १८-२१ ॥
फिर देवागार, मन्दिर और यज्ञभूमि को श्वेतसूत्र से चार बार लपेट कर उसे
सामूहिक रूप से नित्य पूजन करे । फिर पञ्चकाल परायण षट्कर्म निरत यतिवृन्दों
तथा वैष्णवों को बुलावे तथा प्रार्थना करे कि मैं आप लोगों के समक्ष कल अपने
इन प्रभु की पूजा करूँगा । अतः हे प्रभु ! मेरे ऊपर कृपा करते हुए कल अवश्य
पधारियेगा ॥ २२-२४ ॥
इसके बाद एकादशी के दिन स्नानादि कार्य विशेष रूप से सम्पादन
करना चाहिए । फिर हवनादि समस्त क्रिया-काण्ड करे तथा साधक जप और
स्तुति में तत्पर रहे । अपने आराध्य भगवान् के सामने स्थित होकर जागते हुए
रात बितावे ॥ २५-२६ ॥
पुनरभ्यर्च्य देवेशं प्रभाते विधिपूर्वकम् ॥ २६ ॥
भूषयेद् भूषणैर्नैव त्वामूर्ध्नः प्रणवेन तु ।
यथारूपैश्च बहुभिर्भूयाद् बद्धाञ्जलिस्त्विदम् ॥ २७ ॥
नावलेपान्न मोहाच्च कर्मत्यागो मया कृतः ।
त्वमेव सर्वं जानासि सर्वेश हृदये स्थितः ॥ २८ ॥
यथाशक्त्या त्वनिच्छातातस्तत्रापि परमेश्वर ।

३२६ सात्वतसंहिता
तन्निमित्तमिदं कर्म कृतं त्वत्प्रीतये मया ॥ २९ ॥
एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान् ।
भगवत्प्रतिपत्त्या तु शक्त्या प्रावरणैर्धनैः ॥ ३० ॥
तथा प्रतिसरान्तैस्तु ब्रह्मचारीन् यतीन् गुरून् ।
तर्पयित्वाऽथ चान्नेन पूतेन विविधेन तु ॥ ३१ ॥
क्षान्त्वाऽनुव्रज्य नैवेद्यपूर्वं कुर्याच्च भोजनम् ।
अथ द्वादश्यां प्रातर्नित्यार्चनचतुःस्थानार्चनपूर्वकं पवित्रसमर्पणम्, हविर्निवेदना-
द्यनन्तरं नावलेपादिति श्लोकद्वयेन प्रार्थनम्, भगवत्प्रतिपत्त्या चतुर्णां कारिणां ब्रह्म-
चार्यादीनां भागवतानां च पवित्रसमर्पणहविर्भोजनान्तमर्चनमपराधक्षमापणादिकं स्वानु-
यागं चाह—पुनरभ्यर्च्य देवेशमित्यादिभिः । प्रावरणैर्वस्त्रैरित्यर्थः ॥ २६-३२ ॥
फिर प्रभात होने पर विधिपूर्वक देवेश का अभ्यर्चन करे । फिर प्रणव मन्त्र
से भगवान् के रूप के अनुसार पैर से शिर तक भगवान् को भली प्रकार से भूषित
करे । तदनन्तर हाथ जोड़कर इस प्रकार प्रार्थना करे ॥ २६-२७ ॥
हे भगवन् ! मैंने अहङ्कारवश अथवा अज्ञानवश अपने इस कर्म का त्याग
नहीं किया है । आप सबके हृदय में निवास करते हैं और सब कुछ जानते हैं । हे
परमेश्वर ! मैंने अनिच्छावश भी अपनी शक्ति के अनुसार उस मूल के कारण यह
सारा कार्य आपकी प्रीति के लिये किया है ॥ २८-२९ ॥
साधक इस प्रकार प्रार्थना कर चार अथवा पाँच पाँचरात्र के उपासकों की
पूजा करे । इस प्रकार द्वादशी को प्रातः नित्यार्चन चतुःस्थानार्चनपूर्वकभगवान् को
पवित्रा समर्पण करे । फिर हवि निवेदन के अनन्तर ‘नावलेपादिति’ (२८-२९)
श्लोक द्वय से प्रार्थना करे । फिर भगवद् इष्ट या चार कर्मकारी ब्रह्मचारियों को
तथा चार महाभागवत भक्तों को पवित्रा समर्पण कर हविष्य भोजन करावे । पुनः
अर्चनपूर्वक अपराध समापन करावे । पुनः उन ब्रह्मचारी तथा महाभागवतों को पीछे
अनुगमन कर नैवेद्य पूर्वक भोजन करे ॥ ३०-३२ ॥
अपरेऽहनि संन्यासमाचरेद् वा दिने दिने ॥ ३२ ॥
अपनीय तु माल्यादीन् प्रदद्याद् वा दिने दिने ।
नो याति म्लानतां यावच्चतुर्थेऽहनि वा त्यजेत् ॥ ३३ ॥
विशेषयागपूर्वं तु कारिभ्योऽवसरे स्वके ।
तदपरेद्युरेव पवित्रविसर्जनमाह—अपरेऽहनीत्यर्धेन ।
अथवा पुष्पाणामेव प्रत्यहं विसर्जनं कुर्वन् पवित्राणां विसर्जनं तु चतुर्थेऽहनि
विशेषेण कारिपूजनपूर्वकं कुर्यादित्याह—अपनीयेति सार्धेन । एतदूर्ध्वमपि पवित्र-
स्थापनमुक्तमीश्वरपारमेश्वर्योः—

चतुर्दशः परिच्छेदः ३२७
एकरात्रं त्रिरात्रं वा पञ्च वा सप्तरात्रकम् ।
पवित्रकं स्थापयित्वा ततः संन्यासमाचरेत् ॥
अथवार्चागतं विप्र तावत्संस्थाप्य भूषणम् ।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ इति ।
—(ई०सं० १४।२५०-२५१, पा०सं० १२।४४६-४४७)
अन्ये च बहवो विशेषा अत्रापेक्षिता ईश्वरादिषु द्रष्टव्याः ॥ ३२-३३ ॥
फिर दूसरे दिन विधिपूर्वक सन्यास ग्रहण कर लेवे, अथवा पूर्वदिन का
समर्पित माल्यादि हटाकर प्रतिदिन नयी-नयी माला समर्पित करे, अथवा यदि
माला तीन दिन तक मलिन न हुई हो तो उसे चतुर्थ दिन त्याग करे । इस प्रकार
कार्यकारी भक्तों के लिये, अपने अवसर उपस्थित होने पर अन्य भी, बहुत सी
विशेषतायें हैं ॥ ३२-३४ ॥
एवं कृते सति तदा सिद्धिर्भवति शाश्वती ।
सर्वथाऽऽराधकानां तु चेतसोऽभीप्सितं तथा ॥ ३४ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां पवित्रारोपणविधिर्नाम
चतुर्दशः परिच्छेदः ॥ १४ ॥
— ❧ ✶ ❧ —
एतत्फलमाह—एवमिति ॥ ३४ ॥
॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये चतुर्दशः परिच्छेदः ॥ १४ ॥
— ❧ ✶ ❧ —
जो इस प्रकार से आराधना में दोष होने पर, इस प्रकार का प्रायश्चित करता
है उसे शाश्वती सिद्धि प्राप्त होती है तथा आराधना करने वाले का सर्वथा अभीष्ट
सिद्ध हो जाता है ॥ ३४ ॥
॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के पवित्रारोपणविधि
नामक चतुर्दश परिच्छेद की हिन्दी समाप्त हुई ॥ १४ ॥
— ❧ ✶ ❧ —

पञ्चदशः परिच्छेदः
पवित्रस्नानविधिः
श्रीभगवानुवाच
तपोदानव्रतानां च विहितस्याह्निकस्य च ।
निश्शेषयागभोगानां कृत्वा सम्पूरणक्रियाम् ॥ १ ॥
अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमे तु वा ।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशे च सङ्गमे ॥ २ ॥
नद्यां समुद्रगामिन्यां देवखाते हदे तु वा ।
प्रीतये परमेशस्य त्वात्मनो दुःखशान्तये ॥ ३ ॥
आह्लादायामराणां च पितॄणां तृप्तये तु वै ।
आप्यायनार्थं भूतानां भुवनानां च भूतये ॥ ४ ॥
देशदोषप्रशान्त्यर्थं गोब्राह्मणहिताय च ।
अथ पञ्चदशपरिच्छेदो व्याख्यास्यते । एवं सर्वच्छिद्रपूरकं पवित्रारोपणाख्यं कर्म
कृत्वा तदवरोपणदिने तदनन्तरं देवस्यावभृथं कार्यमित्याह—तप इत्यादिभिः ॥ १-५ ॥
श्री भगवान् ने कहा—इस प्रकार सर्वाच्छिद्रपूरक पवित्रारोपण कर्म करने के
पश्चात् तप, दान एवं व्रतों को तथा विहित आह्निक कर्मों को सम्पूर्ण याग भोगों के
छिद्र पूर्ति की सारी क्रिया सम्पादन करे । दूसरे दिन, अथवा चौथे दिन, अथवा
सातवें दिन किसी तीर्थ प्रदेश में, अथवा सङ्गम स्थल में पूज्य मन्त्र के स्नान
कराने की क्रिया सम्पादन करे ॥ १-२ ॥
अथवा समुद्रगामिनी नदी में, देवखात में, ह्रद में इस पूज्य मन्त्र का स्नान,
परमेश्वर की प्रीति के उद्देश्य से, अथवा अपने दुःख की शान्ति के उद्देश्यों से,
अथवा देवताओं को प्रसन्न करने के लिये, अथवा पितरों की तृप्ति के लिये
करावे, अथवा प्राणियों के वृद्धि के उद्देश्य से, अथवा समस्त लोकों के कल्याण
के लिये कराना चाहिये । देशदोष की प्रशान्ति के लिये, अथवा गौ ब्राह्मण के हित
के लिये पूज्यमन्त्र का स्नान कराना चाहिये ॥ ३-४ ॥

पञ्चदशः परिच्छेदः ३२९
कुशकूर्चनिर्माणप्रकारकथनम्
बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ॥ ५ ॥
प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ।
ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ॥ ६ ॥
तस्य मध्यमनालं यन्त्यग्भूतमवतिष्ठते ।
आराध्य मन्त्रनाथेन स्मरेद् व्याप्तं महात्मना ॥ ७ ॥
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ।
अनेकगर्भमुच्चं यत्काण्डं काण्डेषु चोत्तमम् ॥ ८ ॥
अणिमादिगुणैर्युक्तं पुंस्तत्त्वं तेन कल्प्यते ।
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ॥ ९ ॥
बहिःकाण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ।
ग्रथनीयमधोवक्त्रमव्यक्तान्तं स्वकैः पदैः ॥ १० ॥
प्रणवादिमोऽन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ।
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत् तथा ॥ ११ ॥
कर्मेंन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ।
पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्माऽवसानिकम् ॥ १२ ॥
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात् तत् तरण्डवत् ।
विना शिखासमूहेन समुत्तानावधेरथ ॥ १३ ॥
किञ्चित् तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ।
बहुधा काण्डसंघस्तु कल्पितस्तत्त्वसंख्यया ॥ १४ ॥
विभिन्नानां च काण्डानां भङ्गादेकतमस्य च ।
उत्पद्यतेऽन्यथात्वं च तस्मात् तद् ग्रथयेद् दृढम् ॥ १५ ॥
तदर्थं कुशकूर्चनिर्माणप्रकारमाह—बहुशाखमित्यादिभिः। बहुशाखम् = अनेक-
काण्डान्वितमित्यर्थः । तेनैव = प्रणवेन, तन्मूलं = दर्भमञ्जरीमूलम्, अधिष्ठितं कुर्याद्
= व्याप्तं भावयेदित्यर्थः । परमात्मीयं विवर्तं = भगवदाकारान्तरमित्यर्थः । अध्य-
क्षाख्यमिति विवर्तस्य विशेषणम् । अध्यक्षं नाम भगवत्सूक्ष्मरूपभेदः । तथा चोक्तं
जयाख्ये—
तन्महाविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ॥
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥
सिद्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् ।
—(१५।२३५-२३७) इति ।
सा० सं० - 25

३३० सात्वतसंहिता
पुंस्तत्त्वं = जीवात्मेत्यर्थः । तस्य वाचकं = जीवमन्त्रमित्यर्थः । हंसयुक्तं =
हंसाक्षरयुक्तमित्यर्थः । द्विलक्षणं = पदद्वयात्मकमित्यर्थः । तथा च तन्मन्त्रोद्धारो
जयाख्ये—
अप्रमेयेण सूत्रेण व्योमाख्येनामृतेन च ।
परमेश्वरयुक्तेन त्रितारोक्तात्मना तु वा ॥ (७।२५) इति ।
अयमेवार्थः सुस्पष्टमुपबृंहितो लक्ष्मीतन्त्रे—"प्रत्यगात्मपरामर्शिशब्दः सोमोऽथ
सर्गवान्" (३३।४७) इति । एवं च 'अहं सः' इति जीववाचकमन्त्रो ज्ञेयः । चित्त-
पूर्वकमव्यक्तान्तं चतुष्टयं = मनोबुद्ध्यहङ्कारप्रकृत्याख्यं तत्त्वचतुष्टयमित्यर्थः ।
प्रणवादिन्मोन्तैः = स्वकैः पदैः ॐकारनमस्कारसम्पुटितैश्चतुर्थ्यन्तैस्तत्तन्नामभि-
रित्यर्थः । कर्मेन्द्रियाणि = वाक्पाणिपादपायूपस्थानि । तन्मात्रपञ्चकं = शब्द-
तन्मात्रादिपञ्चकम् । भूतानां पञ्चकम् = आकाशादिभूतपञ्चकम् । क्ष्मावसानि(का?कं)
= पृथिव्यन्तमिति तद्विशेषणम् । अवशिष्टैस्तत्काण्डैः पञ्चविंशतिकाण्डेभ्योऽतिरिक्तैः
कुशकाण्डैरित्यर्थः ॥ ५-१५ ॥
अब स्नान के लिये सर्वप्रथम कूर्चनिर्माण का प्रकार कहते हैं—जिसमें
बहुत सी शाखायें हों, जो स्थूल हो, जो पुष्पित न हो ऐसे कुशों को पूर्वाभिमुख
हो, प्रणव मन्त्र से, पृथ्वी से उखाड़ कर कुश मूल में भगवद् भावना कर भगवान्
को स्थापित करे ॥ ५-६ ॥
उसका मध्यमनाल जो नीचे की ओर लटका हुआ है, उसमें महात्मा
मन्त्रनाथ की आराधना कर उनसे व्याप्त होने की भावना करे ॥ ७ ॥
उसे सर्वाध्यक्ष परमात्मा का जीवात्म स्वरूप दूसरा विवर्त्त (= परिणाम)
समझे । सभी काण्डों में जो अनेक गर्भों वाला सबसे ऊँचा काण्ड है, उसमें
अणिमादि से युक्त पुंस्तत्त्व (जीव) की कल्पना करे । फिर उसमें जीव वाचक
'हंस' युक्त इन दो पदद्वयात्मक अक्षरों की कल्पना करे ॥ ८-९ ॥
फिर उसमें चित्तपूर्वक अव्यक्तान्त (मन, बुद्धि, अहङ्कार एवं प्रकृति) इन
तत्त्व चतुष्टय की अधोमुख ॐकार तथा नमस्कार सम्पुटित चतुर्थ्यन्त तत्तन्नामों से
ग्रथित करे ॥ १० ॥
इसी प्रकार वाक्पाणिपादपायूपस्थ को भी उनके नाम पञ्चक के साथ तथा
शब्द-तन्मात्रादि पञ्चक को और आकाशादि पृथ्व्यन्त भूतपञ्चक को भी उसमें बाँध
देवे । पचीस काण्ड से बचे हुए (कुश) काण्डों को एक में मिलाकर गोले के
समान बाँध देवे । उन शेष काण्डों को इस प्रकार दृढ़ता से बाँधे जिससे वह पुनः
ऊपर की ओर न उठे । जहाँ तक हो सके काण्ड की संख्या तत्त्व संख्या (२५)
तक ही होनी चाहिये । इससे अधिक काण्ड संख्या होने पर उसमें किसी एक
काण्ड के भग्न होने से अनर्थ उत्पन्न होने की संभावना रहती है । इसलिये उतने
काण्ड को दृढ़ता के साथ बाँधे ॥ ११-१५ ॥

पञ्चदशः परिच्छेदः ३३१
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम्।
अनुसन्धीयते तत्र मन्त्रध्यानं यथास्थितम्॥ १६ ॥
पूजयित्वाऽर्घ्यपुष्पाद्यैरलङ्कृत्य पठेदिदम्।
एवंविधं पवित्रं परिकल्प्य तत्र ध्यानपूर्वकं भगवन्तमभ्यर्च्य प्रार्थयेदित्याह—
दर्भमञ्जरिजमिति सार्धेन। तीर्थबिम्बाद्यभावे त्वेवं दर्भपवित्रकल्पनं कार्यम्। तत्सत्त्वे
तस्यैव तीर्थस्नानं बोध्यम्। तथा चेश्वरपारमेश्वर्योः—
यथावत् स्नपन कुर्यात् तीर्थबिम्बे विशेषतः।
नित्यस्नपनबिम्बे वा कुर्यात् तत्तदसन्निधौ॥
नित्योत्सवपरे बिम्बे ह्याचरेत् तदसन्निधौ।
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे॥ इति।
—(ई०सं० १४।२८०-२८१, पा०सं० १२।५३५-५३७) ॥ १६-१७ ॥
इस प्रकार साधक दर्भ की मञ्जरियों से पवित्री निर्माण करे। फिर उसमें मन्त्र
का ध्यान कर मन्त्रनाथ की प्रतिष्ठा करे। फिर अर्घ्य पुष्पादि से अलङ्कृत कर यह
प्रार्थना करे ॥ १६-१७ ॥
त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम्॥ १७ ॥
त्वय्येवाधिष्ठितं सर्वमिति जानामि तत्त्वतः।
तत्रापि च त्वयाऽऽदिष्टं क्रियाकाण्डं शुभप्रदम्॥ १८ ॥
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया।
प्रार्थनाश्लोकद्वयमाह—त्वमिति ॥ १७-१९ ॥
प्रार्थना मन्त्र का अर्थ—हे भगवन्! आप ही महान् तीर्थ हो, आप महान्
आयतन हो, सारी सृष्टि आप में ही अधिष्ठित है, इस बात को मैं तत्त्वतः जानता
हूँ। फिर भी आपकी आज्ञा से इसे कल्याणकारी क्रिया काण्ड का आपका अनुग्रह
प्राप्त करने के लिये आज इसका निर्वाह कर रहा हूँ ॥ १७-१९ ॥
एवं विज्ञाप्य भगवन्! मन्त्रमूर्तिं परावरम्॥ १९ ॥
तं पत्रपात्रगं कृत्वा ब्रह्मयानगतं तु वा।
वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम् ॥ २० ॥
नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च।
पूर्वमुखं च तं यानमथादाय पवित्रकम्॥ २१ ॥
वामहस्ततले कुर्यात् क्ष्मामण्डलगतां त्विव।
विधृत्यान्मध्यभागाच्च पाणिना दक्षिणेन तु॥ २२ ॥
अवतीर्याम्भसो मध्ये निमज्जेत् सह तेन वै।

३३२ सात्वतसंहिता
एवं विज्ञाप्य तत्पवित्रं ब्रह्मयाने वा समारोप्य वेदवाद्यघोषैः सह तीर्थसमीपं
नीत्वा तत्र प्राङ्मुखमवरोप्य पवित्रमादाय वामकरतले भूमण्डलगतिमिव निधाय
तन्मध्यं दक्षिणपाणिना गृहीत्वा तीर्थमध्येऽवतीर्य तेन सह स्नायादित्याह—एवमिति
चतुर्भिः ॥ १९-२३ ॥
इस प्रकार परावर मन्त्रमूर्त्ति भगवान् से निवेदन कर उन्हें किसी पत्ते के पात्र
में, अथवा किसी ब्रह्मयान में समारोपित कर वेद गान की ध्वनिपूर्वक शङ्ख बजाते
हुए, माङ्गलिक जय-जयकार शब्द करते हुए, किसी तीर्थ स्थान में ले जाकर उसके
तट पर उन्हें स्थापित करे। उस यान को पूर्वाभिमुख कर उसमें से उस पवित्रक को
लेकर, अपने बायें हाथ पर भूमण्डल के समान स्थापित करे ॥ १९-२१ ॥
फिर अपने दाहिने हाथ से उन्हें मध्य भाग में ग्रहण कर जल में उतर कर
उनके साथ ही डुबकी लगावे। (उसी समय वहाँ समस्त तीर्थ भी उनके साथ पहुँच
जाते हैं) ॥ २२-२३ ॥
सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात् तु वै ॥ २३ ॥
निःशेषाणि च तीर्थानि लोकत्रयगतानि च।
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ॥ २४ ॥
तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः।
किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः ॥ २५ ॥
साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया।
तत्काले तत्तीर्थे सर्वतीर्थसान्निध्यप्रभावमाह—सन्निधिमिति त्रिभिः ॥ २३-२६॥
जब मन्त्रात्मा प्रभु रक्षा के लिये, क्षण भर के लिये भी जलाशय में
उपस्थित हो जाते हैं, तभी तीनों लोकों के समस्त तीर्थ उस जलाशय में पहुँच
जाते हैं ॥ २३-२४ ॥
इस प्रकार उस जलाशय में समस्त आयतनों तथा समस्त तीर्थों का एकत्र
समागम हो जाता है। जहाँ अधोक्षज भगवान् विष्णु मन्त्रमूर्त्ति रूप से विराज रहे
हों वहाँ सभी तीर्थ आयतन क्यों न उपस्थित हो? ॥ २५ ॥
साधकों से अभ्यर्थित जो तीर्थ प्राप्त कर इस विधि से स्नान करता है वह
तत्त्ववेत्ता है। सभी साधकों को इसी प्रकार सर्वानुग्रह बुद्धि से स्नान करना
चाहिये ॥ २६ ॥
विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्त्ववित् ॥ २६ ॥
स्नापयेद् बन्धुमित्रादीन् प्राप्नुवन्त्यचिराच्च ते।
तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः ॥ २७ ॥
एवं कूर्च्चद्वारा दूरदेशगतानां जनानामपि तीर्थस्नानं फलाधायकमित्याह—विद्वा-

पञ्चदशः परिच्छेदः ३३३
निति सार्धेन । बान्धवादीनामिति कर्मणि षष्ठी । ते बान्धवादय इत्यर्थः ॥ २६ - २७ ॥
जो विद्वान् इस प्रकार तीर्थ में आकर स्नान करता है वह तत्त्ववेत्ता साधक
है । इसी प्रकार अपने सभी बन्धुओं और मित्रों को तीर्थ में स्नान कराना चाहिये ।
ऐसा करने से वे सभी बन्धु-बान्धव मन्त्रमूर्ति के कृपा प्रसाद से उस तीर्थ स्नान
का फल अनायास ही प्राप्त कर लेते हैं ॥ २६-२७ ॥
किन्तु तद्यानवादित्रवर्जितस्तु भवेद् विधिः ।
इमं विद्धि महाबुद्धे विशेषं चात्र कर्मणि ॥ २८ ॥
अत्र विशेषमाह—किन्त्विति । यानारोपणं मङ्गलवाद्यान्वितत्वं च भगवत एवा-
र्हम्, नान्यस्येति भावः ॥ २८ ॥
किन्तु हे महाबुद्धे ! इस कर्म में यह एक विशेषता है कि तीर्थ स्नान में
वाहन, बाजा आदि वर्जित रखे ॥ २८ ॥
सामान्यमविनाशं यच्चिन्मयं रूपमैश्वरम् ।
विशेषसंज्ञासम्बन्धं जीवहंसं विभाव्य तम् ॥ २९ ॥
पवित्रकं तदाकारं स्मृत्वा स्नाप्यस्ततोऽम्भसा ।
अस्य शरीरस्य भगवच्छरीरभूतत्वादेनमपि भगवदात्मकं स्मृत्वा पवित्रद्वारा स्नानं
कारयेदित्याह—सामान्यमिति सार्धेन ॥ २९-३० ॥
उस पवित्रक में सामान्य अविनाशी सच्चिन्मय ऐश्वर स्वरूप विशेष संज्ञा
सम्बन्ध वाले जीव रूप हंस की संभावना करे । इस प्रकार के आकार का ध्यान
कर उसे जल में स्नान करावे ॥ २९-३० ॥
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ॥ ३० ॥
सम्पाद्यं विष्टरैः स्नानं दूरस्थानां सदैव हि ।
तेनैकेनैव पवित्रेण बहूनां बान्धवादीनां यद्वा पृथक् पवित्रैः स्नानं कारयेदि-
त्याह—एवमिति । दूरस्थानां ग्रामान्तरगतानां लोकान्तरगतानां वेत्यर्थः ॥ ३०-३१ ॥
इसी प्रकार उस पवित्रक के साथ अन्यों को अनेक लोगों के साथ स्नान
करावे । फिर दूर के लोगों को भी स्नान करा कर भगवान् के स्नानान्तर के पश्चात्
उन्हें विष्टर सम्पादन करे ॥ ३०-३१ ॥
सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते ॥ ३१ ॥
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ।
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ॥ ३२ ॥
सनृत्तगेयवादित्रं जागरणेन समन्वितम् ।
एकरात्रं द्विरात्रं वा त्रिरात्रं भक्तिपूर्वकम् ॥ ३३ ॥

३३४ सात्वतसंहिता
एवमवभृथानन्तरं ब्रह्मरथे पवित्रस्थं देवमारोप्याभ्यर्च्य तदीयाराधनपूर्वकं
ग्रामप्रादक्षिण्येने यात्रोत्सवं कुर्यादित्याह—सम्पन्न इति सार्द्धद्वाभ्याम् । उत्सवानन्तरं
तद्रात्रौ जागरणं च कार्यमिति भावः । द्विरात्रं त्रिरात्रमावृत्तिरुत्सवस्यैव न तु
स्नानस्य ॥ ३१-३३ ॥
हे महामते ! इस प्रकार स्नान सम्पन्न हो जाने पर दूसरे दिन रथ निर्माण
कर, यथाविधि अर्चन पूजन कर, अन्नदान पुरः सर यात्रोत्सव करे । यह यात्रोत्सव
वृत्त गेय वादित्र और जागरण पुरस्सर भक्तिपूर्वक एक रात, दो रात अथवा तीन
रात तक निरन्तर होना चाहिये ॥ ३१-३३ ॥
सकृत् संवत्सरस्यान्ते उत्सवं स्नपनादिकम् ।
कुर्याद् यो मन्त्रनाथस्य स सिद्धिं लभते पराम् ॥ ३४ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां पवित्रस्नानविधिर्नाम
पञ्चदशः परिच्छेदः ॥ १५ ॥
— ❦ ❖ ❦ —
पवित्रोत्सवप्रकरणे फलमाह—सकृदिति ॥ ३४ ॥
॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये पञ्चदशः परिच्छेदः ॥ १५ ॥
— ❦ ❖ ❦ —
जो संवत्सर के अन्त में एक बार भी इस प्रकार मन्त्रनाथ का स्नपनोत्सव
करता है, वह शीघ्र ही परा (= श्रेष्ठ) सिद्धि प्राप्त कर लेता है ॥ ३४ ॥
॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के पवित्रस्नानविधि
नामक पञ्चदश परिच्छेद की हिन्दी समाप्त हुई ॥ १५ ॥
— ❦ ❖ ❦ —

षोडशः परिच्छेदः
अघशान्तिकल्पः
नारद उवाच
प्रभुर्मुनीश्वरा भूयश्चादितो वनमालिना ।
सर्वलोकहितार्थं तु यत् तद्वक्ष्याम्यतः परम् ॥ १ ॥
अथ षोडशः परिच्छेदो व्याख्यास्यते । अत्र सङ्कर्षणेन वासुदेवो यत्पृष्टस्तद्वक्ष्या-
मीत्याह—प्रभुरिति ॥ १ ॥
नारद जी ने कहा—हे मुनीश्वर ! सङ्कर्षण के द्वारा पुनः पूछे जाने पर
भगवान् वासुदेव ने लोकहित के लिये जो कहा उसे अब कहता हूँ ॥ १ ॥
सङ्कर्षण उवाच
देव सम्प्रतिपन्ना ये क्रमेऽस्मिन् ब्राह्मणादयः ।
दीक्षणीयाः कथं ते वा एतदिच्छामि वेदितुम् ॥ २ ॥
प्रश्नप्रकारमाह—देवेति ॥ २ ॥
सङ्कर्षण ने कहा—हे देव ! इस क्रम में जो ब्राह्मणादिक सम्बद्ध हैं उनको
किस प्रकार दीक्षित करना चाहिये अब मैं यह सुनना चाहता हूँ ॥ २ ॥
भगवानुवाच
यथाक्रमेणोदितानां वर्णानां शृणु लाङ्गलिन् ।
त्रिविधं दीक्षणोपायं संक्षेपात् सर्वसिद्धिदम् ॥ ३ ॥
एवं पृष्टो वासुदेवस्त्रिविधदीक्षोपायं शृण्वित्याह—यथाक्रमेणेति ॥ ३ ॥
श्रीभगवान् ने कहा—हे लाङ्गलिन् यथाक्रम कहे गये इन ब्राह्मणादि वर्णों के
सर्वसिद्धिप्रद तीन प्रकार के दीक्षा के उपायों को सुनिए ॥ ३ ॥
त्रिविधदीक्षोपायनिरूपणम्
पूर्वोक्तलक्षणो ज्ञात्वा कश्चिद् दृढतरः पुमान् ।

३३६ सात्वतसंहिता
संसारभयभीतस्तु निर्वाणमभिवाञ्छति ॥ ४ ॥
वैराग्यधीरचपलश्चिरकालं गुरोगृहे ।
संस्थितो दासभावेन खेदोद्वेगविवर्जितः ॥ ५ ॥
दीक्षार्थं प्रथमं गुरुकुलवासः कार्य इत्याह—पूर्वोक्तेति द्वाभ्याम् ॥ ४-५ ॥
दीक्षा के लिये सर्वप्रथम गुरुकुल में वास करे, इस सम्बन्ध में कहते हैं—
आचार्य सर्वप्रथम गुरुगृह में संसार के भय से मुक्ति की इच्छा रखने वाले,
वैराग्यबुद्धि सम्पन्न, चाञ्चल्य रहित (स्थिर बुद्धि वाले), दासभाव से संस्थित, खेद
एवं उद्वेग से रहित शिष्य को निवास कराए ॥ ४-५ ॥
प्रायश्चित्तशान्त्यादिनिर्देशः
ज्ञात्वा तस्यार्थितां नूनमाहूयाग्रे निवेश्य च ।
कृताकृतं च प्रष्टव्य आ स्मृतेस्तत्क्षणावधि ॥ ६ ॥
ज्ञात्वा दोषबलं सम्यक् प्रायश्चित्तैर्यथोदितैः ।
कृच्छ्रातिकृच्छ्रपूर्वैस्तु शोधनीयं प्रयत्नतः ॥ ७ ॥
आचार्यस्तद्दोषबलाबले ज्ञात्वा यथोदितैः प्रायश्चित्तैस्तच्छान्तिं कुर्यादित्याह—
ज्ञात्वेति द्वाभ्याम् ॥ ६-७ ॥
इस प्रकार पूर्वोक्त लक्षण सम्पन्न ऐसे दृढ़तर शिष्य के दोषादोष की जब
परीक्षा कर लेवे तब शास्त्रीय रीति से उसके दोषों का प्रायश्चित्त करे । सर्वप्रथम
उसकी दीक्षा विषयक प्रार्थना सुने । फिर निश्चयपूर्वक उसे अपने सामने बुला कर
बैठावे । फिर तत्क्षण पर्यन्त उसके किये गये समस्त स्मृत कृत्याकृत्य के विषय में
प्रश्न करे । इस प्रकार उसके दोष-बल का ज्ञान कर शास्त्र में यथोदित
कृच्छ्रातिकृच्छ्र प्रायश्चित्त करा कर प्रयत्नपूर्वक उसके पाप का शोधन कर उसे
शुद्ध करे ॥ ६-७ ॥
बहूनां परिपीडानामसामर्थ्यात् तु लाङ्गलिन् ।
मनःप्रसादपर्यन्तं कालं वा द्वादशाह्निकम् ॥ ८ ॥
नियोक्तव्यो मिते पूतेऽयाचिते नक्तभोजने ।
स्तुतिसम्मार्जनस्नानपुष्पाद्याहरणोद्यमे ॥ ९ ॥
आश्रमे वैष्णवानां तु दिव्याद्यायतने विभोः ।
अनिशं भगवद्बिम्बमा पीठादवलोकने ॥ १० ॥
बहुदिनमुपोषणाशक्तौ मनःप्रसादपर्यन्तं द्वादशदिनं वा मिते नक्तभोजने भगव-
स्तोत्रादिसत्कार्येषु च नियोजयेदित्याह—बहुनामिति त्रिभिः । भगवद्बिम्बमापीठा-
दवलोकने आपीठान्मौलिपर्यनतं भगवद्बिम्बदर्शन इत्यर्थः,

षोडशः परिच्छेदः ३३७
आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम्।
पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम्॥
(शाण्डिल्य स्मृ० २।८८) इति प्रसिद्धेः ॥ ८-१०॥
हे लाङ्गलिन् ! यदि शिष्य बहुत दिन तक उपोषण में अशक्त हो तो उसके
मन को शुद्ध होने तक, अथवा द्वादश दिन पर्यन्त, अथवा अयाचित नक्त काल में
भोजन की आज्ञा देकर, अथवा भगवत्स्तोत्रादि सत्कार्य में उसे लगा कर उस
शिष्य को शुद्ध करे ॥ ८ ॥
अथवा उसके दोष की शान्ति के लिये वैष्णवों के आश्रम में, अथवा
भगवान् विभु के दिव्य आयतन में, स्तुति, सम्मार्जन, स्नान, पुष्पाद्याहरण कार्य में
नियुक्त करे, अथवा भगवान् के पीठ से लेकर बिम्बपर्यन्त निरन्तर दिन रात दर्शन
कार्य में लगाकर उसे शुद्ध करे ॥ ९-१० ॥
ब्रह्मकूर्चसहितं प्रायश्चित्तकथनम्
अभिजाततनूर्यः प्राग् दुष्कृतैर्मलिनीकृतः ।
साम्प्रतं भगवद्भक्त्या पवित्रीकृतमानसः ॥ ११ ॥
अहोरात्रोषितो भूत्वा नखकेशादिलुण्ठितः ।
पञ्चगव्यमथापाद्यं हृदाद्यैः सकुशोदकम् ॥ १२ ॥
मन्त्रैस्तद् वासुदेवाद्यैः समावर्त्य चतुःशतम्।
एवं दिनचतुष्कं तु स्नापयेत् तेन तं सुधीः ॥ १३ ॥
प्रत्यहं चतुरो वाराना प्रभातनिशागमम्।
ब्रह्मतीर्थं चतुष्कं स त्वापूर्यापूर्य संपिबेत् ॥ १४ ॥
क्रमात् सञ्चोदितैर्मन्त्रैः समाचम्यान्तराऽन्तरा ।
अतृप्तमशनं कुर्यादन्ते क्षीराज्यभावितम् ॥ १५ ॥
क्षपयेत् फलमूलैर्वा अहोरात्रचतुष्टयम् ।
इति भक्त्या प्रपन्नानामा जीवमपि दुष्कृतात् ॥ १६ ॥
कथितं विरतानां च देहशुद्धिकरं परम्।
ब्रह्मकूर्चसमेतं तु प्रायश्चित्तं मयाऽद्य ते ॥ १७ ॥
ब्रह्मकूर्चसहितं प्रायश्चित्तमाह—अभिजाततनुरित्यादिभिः ॥ ११-१७ ॥
अब ब्रह्मकूर्च सहित प्रायश्चित्त कहते हैं—पापी शिष्य का जो शरीर पापों
के कारण अत्यन्त मलिन हो गया था। अब वह दोषों के प्रायश्चित्त करने से
सर्वथा नवीन और निर्मल हो गया और भगवद् भक्ति से सर्वथा कार्य, वाणी तथा
मन तक पवित्र हो गया ॥ ११ ॥

३३८ सात्वतसंहिता
प्रायश्चित्त करने के बाद शिष्य का नख केशादि समस्त कर्तन करावे । पञ्च-
गव्य पिलावे और कुश जल से प्रोक्षण करे ॥ १२ ॥
वासुदेवादि के मन्त्रों का चार सौ जप करावे तथा चार दिन तक निरन्तर
चार सौ की संख्या में स्नान करावे । इस प्रकार सुधी आचार्य चार दिन तक मन्त्र
से शिष्य को स्नान करावे ॥ १३ ॥
अथवा प्रभातकाल से लेकर सायंकाल तक चार बार जल भर-भर कर चार
बार ब्रह्मतीर्थ का जल पिलावे ॥ १४ ॥
प्रायश्चित्त के अन्त में आचमन कर बीच-बीच में मन्त्राभिषिक्त जल पीते हुए
क्षीराज्यभावित भोजन उतना ही करे, जो न अधिक हो न कम हो । (भोजन की
विधि यह है कि आधा पेट अन्न से भरे, शेष एक भाग जल से तथा एक भाग
वायु सञ्चरण के लिये खाली रखे इसको अतृप्त अशन कहा जाता है) ॥ १५ ॥
अथवा चार रात एवं चार दिन केवल फल, मूल भोजन कर व्यतीत करे । यहाँ
तक भक्तिपूर्वक भगवत् शरणागतों के जीवन पर्यन्त दुष्कृत्यों का प्रायश्चित्त कहा गया
है । ब्रह्मकूर्च समेत यह सारा प्रायश्चित्त कायिक, वाचिक और मानसिक तीनों प्रकारों
के दोषों का महत्त्व समझा कर पाप से विरत के लिए कहा गया है ॥ १६-१७ ॥
ज्ञात्वा महत्त्वं दोषाणां त्रिविधानां तु वै पुरा ।
सम्भवे सति हेमादिदानं सततमाचरेत् ॥ १८ ॥
दोषाधिक्ये हेमदानादिकमपि कार्यमित्याह—ज्ञात्वेति । त्रिविधानां कायिक-
वाचिकमानसानामित्यर्थः ॥ १८ ॥
यदि कायिक, वाचिक और मानसिक पाप अधिक हो, तब सुवर्णादि का
सतत् दान भी करे ॥ १८ ॥
पूर्वोक्ताद् विहितात् कालाल्लघुदुष्कृतिना क्रमात् ।
चतुर्थांशेन हासस्तु ब्रह्मकूर्चं पिबेत् ततः ॥ १९ ॥
दोषकाले पूर्वोक्तब्रह्मकूर्चप्रायश्चित्तकालस्य चतुर्थांशेन हासं कुर्यादित्याह—
पूर्वोक्तादिति । एवं ब्रह्मवर्णस्य सामान्यतः प्रायश्चित्तमुक्तम् ॥ १९ ॥
पूर्वोक्त काल में ब्रह्मकूर्च प्रायश्चित्त काल का चतुर्थांश कम कर देवे । इस
प्रकार केवल ब्राह्मण वर्ण के लिये सामान्य प्रायश्चित्त कहा गया ॥ १९ ॥
कालेन वर्णोत्कर्षेण सह सामान्यमुच्यते ।
प्रायश्चित्तं हि सर्वेषां सर्वकल्मषनाशनम् ॥ २० ॥
उत्तरोत्तरतां बुद्ध्वा प्रथमं दुष्कृतस्य च ।
क्षपयेत् तद् द्विजेन्द्रस्तु मासैर्द्वित्रिचतुर्गुणैः ॥ २१ ॥

षोडशः परिच्छेदः ३३९
दोषाधिक्ये तत्रापि द्वित्रिचतुर्गुणमासाभिवृद्धिः कार्येत्याह—कालेनेति द्वाभ्याम्।
तद्दुष्कृतं क्षपयेद् नाशयेदित्यर्थः॥ २०-२१॥
जब पाप का दिन अधिक बढ़ता जाय तब काल के अनुसार उत्तरोत्तर एक
गुना द्विगुणित, त्रिगुणित मास के क्रम से प्रायश्चित्त में भी वृद्धि करे॥ २०-२१॥
नृपविट्शूद्रजातीय एकैकं वर्धयेत् क्रमात्।
मासमेकादिकात् कालात् समारभ्य यथाक्रमम्॥ २२॥
नृपादीनां द्विगुणत्रिगुणचतुर्गुणक्रमेण प्रायश्चित्ताभिवृद्धिमाह—नृपेति॥ २२॥
नृपादि के लिये क्रमश द्विगुणित, त्रिगुणित, चतुर्गुणित प्रायश्चित्त कहते हैं—
राजा ब्राह्मण की अपेक्षा उतने ही पाप का द्विगुणित, वैश्य त्रिगुणित और शूद्र
चतुर्गुणित प्रायश्चित्त करे। इस प्रकार एक मास से आरम्भ कर यथाक्रम प्रायश्चित्त
काल भी वर्णानुसार बढ़ाते रहना चाहिये॥ २२॥
दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा।
समाश्रयेदादिदेवं श्रद्धया शरणं यदि॥ २३॥
निर्दोषं विद्धि तं जन्तुं प्रभावात् परमात्मनः।
किं पुनर्योऽनुतापार्तः शासनेऽस्मिन् हि संस्थितः॥ २४॥
विरतो दुष्कृताचैव भक्तिच्छायां समाश्रितः।
भगवच्छासनोल्लङ्घनपरोऽपि तच्छरणागत्या निर्दोषो भवति। एतच्छासननिष्ठ-
स्य शरणागतस्य निर्दोषत्वं किंपुनर्न्यायसिद्धमित्याह—दुराचार इति सार्धद्वाभ्याम्।
कृताकृताद्विरत इत्यनेन सर्वधर्मपरित्यागः सूचितो भवति। भक्तिच्छायां भक्तेश्छायेव
छाया यस्यास्तां शरणागतिमित्यर्थः॥ २३-२५॥
दुराचारी, कुत्ते, चाण्डाल के समान सब का सब कुछ खाने वाला,
सर्वाशी, कृतघ्न, नास्तिक भी यदि श्रद्धापूर्वक आदिदेव की शरण ग्रहण करे, तो
उसे परमात्मा के प्रभाव से सर्वथा दोषमुक्त समझना चाहिये। फिर जो पाप कर
के भी उसके अनुताप से आर्त होकर भगवत् शरणागत हो जाता है अथवा जो
भक्ति के शरणागत होकर पापों से विरत हो गया है उसके विषय में क्या कहा
जा सकता है॥ २३-२५॥
एवं संशुद्धदोषाणां बहुजन्मार्जितस्य च॥ २५॥
कल्मषस्य विघातार्थं नारसिंही महामते।
कृत्वा वै साम्प्रतं दीक्षां दद्याद् वै मन्त्रपूर्वकम्॥ २६॥
आराधनं हि तस्यैव वैष्णवीयस्य वै विभोः।
सबाह्याभ्यन्तरं चैव सम्यङ्मासचतुष्टयम्॥ २७॥
मासाष्टकं वत्सरं वा बुद्ध्वा भावबलं पुरा।

३४० सात्वतसंहिता
ज्ञात्वा भव्याशयानां च प्रसादं पारमेश्वरम् ॥ २८ ॥
विभवव्यूहसूक्ष्माख्यां दीक्षां कुर्यादनन्तरम् ।
पूर्वोक्तब्रह्मकूर्चादिप्रायश्चित्तानामिह जन्मनि सम्पादितदोषमात्रशामकत्वात् प्राग्
बहुजन्मार्जितदोषशामनार्थं नृसिंहमन्त्रदीक्षामपि दत्त्वा तेन नृसिंहाराधनं च कारयेत् ।
तन्मनःपरिशुद्ध्यादिकं तस्मिन् भगवदनुग्रहं च ज्ञात्वा परव्यूहविभवमन्त्रदीक्षां दद्यादि-
त्याह—एवमिति चतुर्भिः ॥ २५-२९ ॥
इस प्रकार, हे महामते ! इस जन्म के समस्त दोषों के शुद्ध हो जाने पर
बहुजन्मार्जित पापों के विनाश के लिये मन्त्रपूर्वक दीक्षा देकर नारसिंही मन्त्र की
दीक्षा प्रदान करे ॥ २५-२६ ॥
फिर उससे चार मास या आठ मास अथवा एक वर्ष तक बाह्य एवं
आभ्यन्तर नृसिंहाराधन करावे, जब उसका मन शुद्ध हो जाय तब उसके ऊपर
भगवदनुग्रह जानकर परव्यूह विभव मन्त्र की दीक्षा देवे ॥ २७-२९ ॥
सङ्कर्षण उवाच
परिज्ञेयो हि कैर्लिङ्गैः साधकानामघक्षयात् ॥ २९ ॥
सम्यगाराधनान्मन्त्रप्रसादः कमलापते ।
तस्मिन् भगवदनुग्रहो जात इति कथं ज्ञेय इति पृच्छति सङ्कर्षणः—परिज्ञेय
इति ॥ २९-३० ॥
सङ्कर्षण ने कहा—हे भगवन् ! किन-किन चिह्नों से यह ज्ञात होता है कि अब
इस उपासक का पाप विनष्ट हो गया है? हे कमलापते ! किन-किन चिह्नों से जाना
जाय कि आराधक के ऊपर आराधन-मन्त्र का प्रसाद हो चुका है? ॥ २९-३० ॥
श्रीभगवानुवाच
चित्तप्रसादस्त्वतुलस्तेजोवृद्धिरतीव हि ॥ ३० ॥
धैर्यमुत्साहसन्तोषावकार्पण्यादयो गुणाः ।
येषां तेषां हि बोद्धव्यं मन्त्रात्माऽभिमुखः स्थितः ॥ ३१ ॥
प्रयुक्तिः शान्तिकादीनां कर्मणामचिरादपि ।
प्रयाति यदि साफल्यं विज्ञेयं तेन हेतुना ॥ ३२ ॥
सम्पन्नः पापदाहश्च प्रसन्नश्चापि मन्त्रराट् ।
ददाति धर्मकामार्थानचिराद् यदि योजितः ॥ ३३ ॥
अणिमाद्यष्टकं चापि विविधा योगसिद्धयः ।
आत्मसिद्धिसमेताश्च परितुष्टास्तदा स्मृताः ॥ ३४ ॥
एवं पृष्टस्तज्ज्ञाने हेतूनाह—चित्तप्रसाद इत्यादिभिः ॥ ३०-३४ ॥

षोडशः परिच्छेदः ३४१
श्रीभगवान् ने कहा—जब चित्त अभूतपूर्व प्रसन्न हो जावे, तेज की वृद्धि
अत्यन्त हो जावे, धैर्य, उत्साह, सन्तोष तथा अदैन्य एवं अकार्पण्य आदि गुण
उत्पन्न हो जावे। जिनमें इतने गुण आ जावे, तब समझ लेना चाहिये कि मन्त्रात्मा
इसके अनुकूल है ॥ ३०-३१ ॥
यदि शान्ति के कार्यों में प्रवृत्ति हो, अल्पकाल में कार्य का साफल्य हो, तब
समझे कि मन्त्र साधक पर सफल हो गया है ॥ ३२ ॥
मन्त्रराट् के प्रसन्न हो जाने पर पाप का दाह सम्पन्न हो जाता है और वह
धर्म अर्थ और काम प्रदत्त करता है ॥ ३३ ॥
मन्त्रराट् प्रसन्न होने पर अणिमादि आठों सिद्धियाँ तथा विविध योग सिद्धियाँ
प्रदान करता है। सभी मन्त्र आत्मसिद्धि समेत उस पर परितुष्ट हो जाते हैं ॥३४॥
यस्मिन् वै वैभवे रूपे यस्याभिरमते मनः ।
तस्य कल्मषशान्त्यर्थं दीक्षां कुर्याच्च तेन वै ॥ ३५ ॥
तमाराध्य हि पूर्वोक्तं कालं तमनुयोज्य च ।
एवं नारसिंहमन्त्रेणैव दुरितक्षयार्थं दीक्षाराधनादिकं कार्यमिति नियमो नास्ति ।
वैभवमन्त्रेषु यस्य यस्मिन्नभिरुचिस्तेनैव तत्कार्यमित्याह—यस्मिन्निति सार्धेन। पूर्वोक्तं
कालं मासचतुष्टयं मासाष्टकं संवत्सरं वेत्यर्थः ॥ ३५-३६ ॥
वैभव मन्त्रों में जिसकी जिस मन्त्र में अभिरुचि हो कल्मष नाश के लिये
उसको उसी मन्त्र की दीक्षा देवे ॥ ३५ ॥
गुरु शिष्य को पूर्वोक्त (चार मास, आठ मास अथवा संवत्सर मास पर्यन्त)
काल तक आराधना में अनुयोजन करे ॥ ३५-३६ ॥
योग्यतायाः परीक्षार्थमा शान्तेः सर्ववस्तुषु ॥ ३६ ॥
नारसिंहेन वान्येन मन्त्रेणाभिमतेन च।
दीक्षयाऽऽराधनेनैव होमजापव्रतादिना ॥ ३७ ॥
कर्मणा केवलेनैव शान्तिकात्युच्छ्रितेन च।
विनाऽणिमादिसिद्धिभ्यो बुद्ध्वा पापं क्षयं गतम् ॥ ३८ ॥
भावयेत् तेन कालेन ततः पद्मदलेक्षण ।
दीक्षितस्य मुमुक्षुत्वेन सर्वविषयेष्वप्याशाविरहे सति शान्तिकादिकर्मणामपि
विरहात् तत्तत्सिद्धिलिङ्गानि विना चित्तप्रसादादिलिङ्गैरैव पापक्षयो ज्ञातव्य इत्याह—
योग्यताया इति त्रिभिः ॥ ३६-३९ ॥
इसके बाद उसकी योग्यता की परीक्षा सभी वस्तुओं की शान्ति के लिये भी
करे। नारसिंह मन्त्र से, अभिमतमन्त्र के जप से, दीक्षा से, आराधना से, होम,