सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 388, कुल 837 में से
संदर्भ में पढ़ेंपञ्चदशः परिच्छेदः ३२९
कुशकूर्चनिर्माणप्रकारकथनम्
बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ॥ ५ ॥
प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ।
ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ॥ ६ ॥
तस्य मध्यमनालं यन्त्यग्भूतमवतिष्ठते ।
आराध्य मन्त्रनाथेन स्मरेद् व्याप्तं महात्मना ॥ ७ ॥
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ।
अनेकगर्भमुच्चं यत्काण्डं काण्डेषु चोत्तमम् ॥ ८ ॥
अणिमादिगुणैर्युक्तं पुंस्तत्त्वं तेन कल्प्यते ।
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ॥ ९ ॥
बहिःकाण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ।
ग्रथनीयमधोवक्त्रमव्यक्तान्तं स्वकैः पदैः ॥ १० ॥
प्रणवादिमोऽन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ।
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत् तथा ॥ ११ ॥
कर्मेंन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ।
पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्माऽवसानिकम् ॥ १२ ॥
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात् तत् तरण्डवत् ।
विना शिखासमूहेन समुत्तानावधेरथ ॥ १३ ॥
किञ्चित् तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ।
बहुधा काण्डसंघस्तु कल्पितस्तत्त्वसंख्यया ॥ १४ ॥
विभिन्नानां च काण्डानां भङ्गादेकतमस्य च ।
उत्पद्यतेऽन्यथात्वं च तस्मात् तद् ग्रथयेद् दृढम् ॥ १५ ॥
तदर्थं कुशकूर्चनिर्माणप्रकारमाह—बहुशाखमित्यादिभिः। बहुशाखम् = अनेक-
काण्डान्वितमित्यर्थः । तेनैव = प्रणवेन, तन्मूलं = दर्भमञ्जरीमूलम्, अधिष्ठितं कुर्याद्
= व्याप्तं भावयेदित्यर्थः । परमात्मीयं विवर्तं = भगवदाकारान्तरमित्यर्थः । अध्य-
क्षाख्यमिति विवर्तस्य विशेषणम् । अध्यक्षं नाम भगवत्सूक्ष्मरूपभेदः । तथा चोक्तं
जयाख्ये—
तन्महाविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ॥
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥
सिद्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् ।
—(१५।२३५-२३७) इति ।
सा० सं० - 25