सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
206
श्यामोन्वर्थस्तु विज्ञेयः सबीभत्से भयानके। इति श्यामः।
इति चतुर्धा मुखरागः।
(Sl. 126-128) Mukharaga (emotions colouring the
face)
(சு. 12-6128) முகராகம் (முகவர்ண மாறுதல்)
अथ नान्दी।
केयं नान्दी नाम उच्यते।
सूत्रधारस्य देवस्तुति समाश्रयादाशीर्वादात्मिका नान्दी।
सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः।
नान्दीपदै र्द्वादशभिरष्टभिर्वाप्यलङ्कृतम् ॥ १२९॥
अत्र पदशब्देन सुप्तिङन्तं गृह्यत इत्येके।
श्लोकचरण इत्यपरे। इति नान्दी।
Sl. 129. Nandi (Benedictory verse)
சு. 129. நாந்தி (மங்கள சுலோகம்)
अथ नटलक्षणम्
चतुर्धामिनयाभिज्ञो नटोभाषादिभेदवित्। इति नटः।
नर्तकः सूरिभिः प्रोक्तो मार्गनृत्ये कृतश्रमः ॥ १३० ॥
इति नर्तकः।
Sl. 130. Nata (Dancer) and Nartaka (Expert in
classical Dance)
சு. 130. நடன் (கூத்தன்); நர்த்தகன் (புராதன நர்த்தனத்
தில் வல்லவன்)
207
अथ यतिनृत्यम्
कूटाक्षराभ्यां काभ्यांचित् निर्मितोऽत्यन्तकोमलः ।
एकरूपाक्षरश्चच्चत्पुटताळानुगोयदा ॥ १३१ ॥
वाद्यते यो वाद्यखण्डो विरामै भूरिभिर्मुहुः ।
यतिरेषा तयान्नृत्यं चतुर्दिक्षुमनोहरम् । अथवा :-
हरवक्त्रोद्भवैः पाटैः कूटैरत्यन्तकोमलैः ।
अष्टताल्यैकताळ्यावा विरामैर्भूरिभिर्मुहुः ॥ १३३ ॥
यो निर्मितो वाद्यपाटैर्वाद्यभेदो यतिस्स्मृतः ।
कूटाक्षरैः क्रमेण स्यात् आघातः पादयोः समः ।
पार्श्वाङ्गुळी मूलपार्ष्णि चरणाग्रेणचक्रमात् ॥ १३४ ॥
दौ लौ भवेदष्टताली । इत्यष्टताली ।
अथ यतिवाद्याक्षराणि ।
तत्त तत्तथा-दाधि क्रिटकथो—तकिट तकिट
धि किट—धिक्रिट तथोंगा थोंगा थैताति थैथा
ति थै थै ति थै थै था
इति यतिनृत्यम्
(Sl. 131-134) Yati Nritya (Dance to the accompany-
ment of a musicial piece composed of soft syllables of
instrumental sounds)
(சு. 131-134) யதி நிருத்தியம் (வாத்ய அக்ஷரங்களால்
தொகுக்கப்பட்ட ‘சொல்லுக் கட்டை’ யனுசரித்த நர்த்தனம்)
208
अथ शब्दचालिं लक्षयति
प्राग्वत्कृत्वा स्थानहस्तौ मध्यसञ्चेन नर्तकः ।
यत्स्थित्वैकपादेन शब्दवर्णानुगामिनीम् ॥ १३५ ॥
गतिं नयेद्द्वितीयेन दक्षिणाध्वनि शोभनम् ।
तद्वत्पादान्तरेणाथ क्रमेणैतद्द्वयोर्यथा ॥ १३६ ॥
पर्यायेण गतिं कुर्या द्वार्तिकादिषु पञ्चसु ।
मार्गेष्वसौ शब्दचालिः पण्डितैश्चनिरूपिता । अथवा :-
मार्गतालैः क्रमेणैव आदिताळेननर्तनम् ।
शब्दचालिस्तदा प्रोक्तालक्ष्यदृष्ट्याविचक्षणैः ॥ १३८ ॥
शब्दवर्णो यथा । तकुकु ढिंका । झिंकुझिंका
झिंकुकुथरिकिट थरिकिट झिं का झिं
थरिकि। थरिकिथोम् ॥
वार्तिके तुचतुर्मात्रा कळाचित्रे
द्विमात्रिका । मात्राच ध्रुवकेचस्यात् अर्धाचित्रतरे मता ॥
अथचित्रतमेमार्गे कलाचानुद्रुतसंज्ञिका ।
स्थानकैश्च तथा चारीखण्डमण्डलसंयुता ॥ १४० ॥
करणैश्चाथहस्तैश्च प्रमाणेन विभूषिता ।
शब्दचालिस्तथाज्ञेया संप्रदायागतक्रमात् ॥ १४१ ॥
-तत्रस्थानचार्यादिः
209
स्थानं स्थितिर्गतिश्चारी स्थानमाद्यंतयोर्गतेः ।
तत्रैकपादगतिः पादचारीशब्देनकथ्यते ॥ १४२ ॥
पादद्वयेन करणं तन्नृत्यकरणात्पृथक् ।
करणैःस्यात्त्रिभिः खण्डो मण्डलं खण्डकैस्त्रिभिः ॥ १४३ ॥
चतुर्भिर्वा क्रमात्ताळे त्र्यश्रे च चतुरश्रके ।
इति शब्दचालिनृत्यम् ।
(Sl, 135-143) Sabda Chali Nritya (Symmetrically
repeated dance to the accompaniment of syllables of
instrumental sounds in the 5 margas or provincial modes
of varied paces)
(சு, 135-143) சப்தசாலீ நிருத்யம் (இடசாரி வலசாரியாக
வாத்ய அக்ஷரங்களை அனுசரித்துச் செய்யப்படும் நர்த்தனம்)
अथेदानीं उड्डुपान्युच्यन्ते
तत्र द्वादश उड्डुपानिः—
नेरिः करणनेरिश्च भिन्नं चित्रं तथा भवेत् ॥ १४४ ॥
नत्रं च जारमानञ्च मूरुरिट्ट(पिल्ल)सुरुस्तथा ।
हुल्लं च लावणीज्ञेया कर्तरी तुलुकन्तथा ॥ १४५ ॥
प्रसरं च द्वादशस्यु रुड्डुपानियथाक्रमम् ।
आदिताळानुगंयत्तल विलम्बितलयान्वितम् ॥ १४६ ॥
रेखामुद्राप्रमाणाढ्यं नानाकरविभूषितम् ।
दिक्चक्राभिमुखं नृत्तं नेरिरित्यभिधीयते । इति नेरिः ।
अयं करणसंयुक्तो मतःकरणनेरुकः । इति करण नेरिः ।
27
210
स एवद्रुतमानेन नडनेरिरितिस्मृतः । इति नडनेरिः ।
रसभावादिपुष्ट्यास्याद्भावनेरिस्स एवतु । इति भावनेरिः ।
शुद्धैरेवपताकाद्यैः शुद्धनेरिरिहोच्यते । इति शुद्धनेरिः ।
मिळितैस्संयुतैर्हस्तैः सालङ्गं भेदमादिशेत् । इति सालङ्गनेरिः ।
असंयुतैस्संयुतैश्च नृत्यहस्तैस्तथैव च ॥ १९० ॥
सङ्कीर्णनेरितं प्राहुः नृत्येnrtyaविशारदाः ।
इति सङ्कीर्णनेरिः ।
ध्रुवाऽतिचित्रमार्गाभ्यां गतिसङ्कोचसंयुतम् ॥ १९१ ॥
यत्ररूपकताळेनाप्यसकृच्चालकान्वितम् ।
नर्तनं स्यात्त्रिसञ्चैस्तु तद्भिन्नमभिधीयते । इति भिन्नम् ।
विचित्र चालकोपेतं रेखासौष्ठवशोभितम् ।
एकताळ्याचित्रतरे मार्गे चित्रं तदोदितम् ॥ १९३ ॥
रूपकेणवा ० । ०० ते थै । इति चित्रम् ।
क्रीडाताळानुगं बालक्रीडासाधनचक्रवत् ।
यतीनां यत्रसङ्कोचप्रसरौ नत्रमीरितम् ॥ १९४॥ इति नत्रम् ।
समाच विषमासूची खुल्हंस्यान्मध्यमानतः ।
इति खुल्हम् ।
आदिताळेन चेद्दिक्षु जारमानन्तदोदितम् । इति जारमानम् ।
उत्कटस्थानकेस्थित्वा शरीरं सरळंयदा ।
311
मोटयेत्तिर्यग्भितः क्रीडातालानुगौ मुहुः ।
त्रिपताकौ समाक्षिप्य सर्वतः सामुरूर्मता ॥ १९६ ॥
-तत्रोत्कट लक्षणम्
समासनमसंस्पृष्ट भूतलं चरणौ समौ ।
यदा तदोत्कटं योगध्यानसन्ध्याजपादिषु । इत्युत्कटम् ।
अथवा आदिताळः । इति गुरुः ॥ १९७ ॥
उत्क्षिप्यपादमेकंचेत् डोलयेल्ललितंवपुः ।
लघुशेखरताळेन मुहुर्मुह्लंतदोच्यते ॥ १९८ ॥ इति हुल्लम् ।
पश्चमेनकटेरूर्ध्वं भ्रामयेल्लावणीतदा ॥ इति लावणी ॥
समपादेनादिताळे द्रुत्यासव्यापसव्यतः ॥ १५९ ॥
स्वस्तिकीकृत्यजङ्घेचेत् भ्राम्येतांकर्तरीजगुः । इति कर्तरी
गजलीलेन तालेन नर्तनंसर्वदिङ्मुखम् ॥ १६० ॥
सौष्ठवाधिष्ठितं यत्र तत्तुलुमभिधीयते । इति तुल्लम् ।
मुहुः प्रसारिताविद्धबाहूतदनुसारिणौ ॥ १६१ ॥
चरणावादिताळेन प्रसरो मध्यमानतः । इति प्रसरम् ।
इति द्वादश उडुपानि ॥
(Sl. 114-161) The 12 varieties of 'Udupas' or quick-
movement dances with 'Bhramaris' (rotation move-
ments) in various postures and chālakas (graceful wavi-
ing of hands):-
212
- Neri 2. Karananeri 3. Bhinnam 4. Chitram
- Natram 6. Jāramanam 7. Muru 8. Hullam
9 Lāvaṇi 10. Kartari 11 Tullam 12. Prasaram.
(சு. 144-161) 'உடுபம்' (துரித காலச் சுற்று முதலிய
அசைவுகளுடன் கூடிய நர்த்தன வகை) 12 :— - நேரி 2. கரணநேரி 3. பின்னம் 4. சித்ரம்
- நத்ரம் 6. ஜாரமானம் 6. முரு 8. ஹுல்லம்
- லாவணீ 10. கர்த்தரி 11. துல்லம் 12. ப்ரஸரம்.
इदानीं ध्रुवाड लाग नृत्तमाह ॥
उत्प्लुत्याद्यैर्यदानृत्ये करणैस्ताळसम्मितैः ।
तदोत्प्लुत्यादिकरणं नृत्यं नृत्तविदोविदुः ॥ १६२ ॥
इदमेव नटा ध्वाडनृत्तं नाम्ना प्रचक्षते ।
अथवा प्रकारान्तरेण लक्षणमाह :-
आकाशचार्यौ द्वित्राश्चेततश्च तिरिपं भवेत् ॥ १६३ ॥
अन्तेमुरू तदादिष्टं ध्वाडनृत्यं नटोत्तमैः । अथवा ।
लागद्वये ऽथैकपादं पश्चात्तुतिरिपं भवेत् । इति ध्रुवाडनृत्तम् ।
अथ लागनृत्यम् ।
लागशब्देन कर्णाट भाषयायत्र चोत्प्लुतिः ।
सुलूबर्द्धैकपादेन सहैवानुपतेद्यदि ॥ १६५ ॥
द्वितीयोपि तदा रायरङ्गालं तद्विदोविदुः ।
इति रायरङ्गालः ।
सुलूं बद्धातदोत्प्लुत्य चरणौ पक्षिपक्षवत् ॥ १६६ ॥
in Sanskrit fonts (like Nirnaya Sagar Press):
How does NSP print ङ्घ vs ङ्ग?
In NSP:
ङ् + ग = ङ्ग (the dot of ङ is to the right, ग is below).
ङ् + घ = ङ्घ (the dot of ङ is to the right, घ is below).
Wait, look at line 8: "लङ्घयेदङ्घ्रिणान्येन"
The first word has: ल, then ङ्घ (ङ with dot on right, and घ below).
Look at the घ below: it has the characteristic shape of घ!
Now look at line 11: "ल...कज...का":
Wait! Look at the letter:
Is it ङ्ग or ङ्घ?
Wait, look at the root: "लङ्घयेत्" is mentioned right before!
"पुरः प्रसार्यचरणं लङ्घयेदपराङ्घ्रिणा ।
सूळ्पूर्वं तदान्वर्था प्रोक्ता लङ्घिकजङ्घिका ॥"
"अन्वर्था" means "etymologically meaningful"!
Why is it "अन्वर्था"?
Because "लङ्घयेत्" -> "लङ्घिक"!
"पुरः प्रसार्य चरणं लङ्घयेत् अपराङ्घ्रिणा । सूळ्पूर्वं तद् अन्वर्था प्रोक्ता लङ्घिकजङ्घिका ॥"
Because she/he LEAPS (लङ्घनात्), it
214
यदिमण्डी मधिष्ठाय प्रसृतौ भ्रमतः करौ ।
तदा तं नटशार्दूलाः पक्षिशार्दूलमूचिरे ॥ १७५ ॥
इति पक्षिशार्दूलः । इति ध्रुवाड लागनृत्तम् ।
(Sl. 162-175) Dhruvāḍalāga Nritya and its vari-
eties.
(சு. 162-175) த்ருவாடலாக நிருத்தியத்தின் வகைகள்.
अथ शब्दनृत्तं प्रारभ्यते ।
अङ्गैर्द्रुतादिमानं स्यात् तत्तत्कारं च पादयोः ।
वाद्याक्षरं रसैर्युक्तं शब्दनृत्तं तदा भवेत् ॥ १७६ ॥
गावेनटः स्वरानङ्गैर्भावान् लोचनचेष्टितैः ।
पादाभ्यां दर्शयेत्तालं लयान् शब्दाक्षराण्यपि ॥१७७॥
ताळधारिण्यमिव्यक्त तादिकं वर्णसञ्चयम् ।
समुच्चरति षड्जादीन् मगणादिगणान्वितम् ॥ १७८ ॥
चतुरश्रं समाधाय विधाय शिखरंकरम् ।
नाभावेकमुरोदेशेष्यपरं पुरतःकरम् ॥ १७९ ॥
पताकहस्तकाद्यन्यतमं कुर्यात्प्रयत्नतः ।
आद्यशब्दाक्षरोत्पत्तिहेतुकं सुभगं ततः ॥ १८० ॥
एकपादं पुरस्सूची परं चरणमञ्चितम् ।
पश्चान्न्यासयतं हस्तं तत्तत्कारसमं यदा ॥ १८१ ॥
व्यावर्तयेत्तमेवाङ्घ्रिं नयेत्पश्चात्तथापरम् ।
नाभौ तदूर्ध्वकुचयोः स्कन्धयोः शिखरौकरौ ॥ १८२ ॥
215
गीतेऽथ शब्द उडुपे लागेस्थाप्यौ क्रमात्पुनः ।
करणै नृत्तहस्तैश्च चारीस्थानकसंमिता ॥ १८३ ॥
शब्दप्राधान्यतोज्ञेया वाद्याक्षरविवेकतः ।
वाद्याक्षराणि यथा । तद्धि त्योंठेनं ॥ १८४ ॥
शब्दनृत्तं द्विधात्वैक मक्षरैक प्रधानकम् ।
स्वरप्रधानमपरं नर्तनं यत्र जायते ॥ १८५ ॥
वाद्यप्रबन्धा ये पूर्वं उक्तास्तेनैव सूरयः ।
दाक्षिणात्या जगुश्शब्दाभिधेया नृत्यकर्मणि ॥ १८६ ॥
तत्र प्रथमं ध्रुवस्योदाहरणम् । तकं दिक्किण्णक
जक जक ढिंढिं झक किग ककिण जकक जकक-
तक्कु कुडि किण ॥ १८७ ॥
जक झण कुथ डिकि तक्किणं जथ डिकिट तक्किण जकणक
किटनक किथा । इति ध्रुवशब्दाः ।
एवमन्येपि शब्दाः लक्ष्ये द्रष्टव्याः ॥ १८८ ॥
इति सूडशब्दनृत्तम् ॥
अथ विवर्तना नृत्तम् ।
दक्षिणांगेऽथवामाङ्गे स्वरपाटगतं यदि ।
नृत्तं विवर्तनाख्यं स्यात् अङ्गोपाङ्गसमन्वितम् ॥ १८९ ॥
ध्रुवतालेन चेन्नृत्यं सर्वलोक मनोहरम् ।
अथोदाहरणं । ध्रुवतालः
216
ढिं ढिं ढिं णक्का-किणक्का था दै गाढैं टाकिण थोंगा
थोंग । इति विवर्तना नृत्तं । अथ चमत्कार नृत्तम् ।
मिळितौ यत्र हस्तौ च यथाक्षरसमन्वितम् ।
अक्षराणां प्रधानं स्याच्चमत्कारं प्रचक्षते ॥ १९२ ॥
गारुगि ताळेन युतं शोभनं सर्वतोमुखम् । उदाहरणम् ।
ततत थाथा । ततकु कु त्तथा । कुनक्रिट ककुथरिकिट
कुकुं थरिकि । झनकिट कुथाडित्था-इति दक्षिणभागे ।
झन किट ककुथरिकिट ।
ककुन्थरिकि झनकिट कुन्थडिद्धि । इति वामभागे ।
तकुलोक तकधिक तोकधिकि तोक तधिकि ।
तोका झनकिटकु टकुकुथ किटिथा ॥१९५॥ इति अङ्गद्वयेन
इति चमत्कार नृत्तम्
एवं कर्कट एरकट गण्डभेरुण्डइत्यादिशब्दाः ज्ञातव्याः ।
कम्पितोच्छ्रितया किंचित्सूच्या झिं झिं प्रदर्शयेत् ॥
आउझनाम वाद्यस्याक्षरमेतत् ।
अग्रे झिं झिं भवेत्कुकुकुपाटोऽउझभवोह्ययम् ॥ १९७ ॥
अग्रगोऽग्रेद्रुतं सर्पन् प्रयोज्यःपङ्किलक्षितौ ।
मर्दितेनाथ थरिंःस्यात् मृदङ्गाक्षरसंभवः ॥ १९८ ॥
यस्तिरश्चा पदेनोर्वीं प्रमृद्नाति समर्दितः ।
हरिणत्रासिताचार्या तुतुगोपाङ्गसंभवः ।
समाभ्यां स्याद्दिगिदिगि मृदङ्गोत्थसमन्वितः ॥ १९९ ॥
217
अन्येऽपि सन्ति भूयांसः शब्दास्तेलक्ष्यवर्त्मनि ।
ग्रन्थ विस्तर भीरुत्वान्नोक्तं लक्षणवस्तुतः ॥ २०० ॥
इति शब्द नृत्तम्
(Sl. 176-200) Sabda Nritta and its varieties.
(சு. 176-200) சப்த நிருத்தம் - அதன் வகைகள்.
अथ गीत नृत्यम् ।
तदादिवर्ण संघाते गीतताळानुसारिणी ।
ताळधारिसमुद्गीते नृत्येत्पात्रं ससौष्ठवम् ॥ २०१ ॥
येन येन हि गीतेन तन्नाम्ना नृत्यमादिशेत् ।
स्थाय्यादिवर्णानङ्गेन भावान्नेत्राद्युपाङ्गकैः ॥ २०२ ॥
हस्तैरभिनयेदर्थान्पदवाक्यसमुद्भवान् ।
ताळग्रहा ङ्गिभेदैः समादींश्च यथोचितम् ॥ २०३ ॥
अथ स्वरमण्ठ नृत्यम् ।
यस्य गीतस्य यो रागस्तन्मुख्याश्रयः स्वराः ।
ग्रहांशन्यासभेदेन तत्र यः स्याद्ग्रहः स्वरः ॥ २०४ ॥
सस्वरोऽत्राभिनेतव्यः अंशन्यासस्वरौ तथा ।
अथ षड्जादीना मभिनयः ।
दक्षिणे नालपद्मेन वामेन चतुरेण तु ।
परिमण्डलितेनाथ मयूरललितेन च ॥ २०५ ॥
एवं विनिर्दिशेत्षड्जं कोविदो नाट्यनृत्ययोः ।
28
218
अथ ऋषभाभिनयः ।
हंसास्याभिध हस्तेन दक्षिणे नेतरेणतु ।
कटिस्थेनार्धचन्द्रेण समेनशिरसा तथा ॥ २०६ ॥
ब्राह्मचारुख्यस्थानकेनापि धीमान् ऋषभमादिशेत् ।
अथ गान्धाराभिनयः ।
शुकतुण्डेन हस्तेन दृष्ट्या करुणया तथा ।
अधोमुखेन शिरसाऽश्वक्रान्तस्थानकेन च ॥ २०७ ॥
चार्याप्युचितया धीमान् गान्धारं स्वरमदिशेत् ।
अथमध्यमाभिनयः ।
शैवाख्यस्थानकेनापि कटिच्छिन्नेनवापुनः ॥ २०८ ॥
दृष्ट्याचहास्यया धीरोऽभिनयेन्मध्यमं स्वरम् ।
अथ पञ्चमाभिनयः ।
कृत्वाऽलपल्लवौ हस्तौ धुतेनशिरसा तथा ॥ २०९ ॥
वैष्णवस्थानकेनापि दृष्ट्या कान्ताख्यया तथा ।
एवं विनिर्दिशेद्धीमान् स्वरं पञ्चमसंज्ञकम् ॥ २१० ॥
धैवताभिनयः ।
काङ्गुल हस्तकौ कृत्वा दृष्ट्या बीभत्सया तथा ।
परावृत्ताख्य मूर्ध्ना च प्रत्यालीढाभिधेन च ॥ २११ ॥
219
स्थानकेन विनिर्देश्यो धैवतो निपुणैर्नटैः ।
निषादाभिनयः ।
हस्तेन करिहस्तेन कटिहस्तेन दीनया ।
दृष्ट्या विधूतशिरसा निषादं संनिरूपयेत् ॥ २१२ ॥
इति स्वराभिनयः
षड्जादीनामन्यतमः सोऽभिनेयोऽत्रहस्तकैः ।
व्यस्तैस्समस्तैः करणैः तलपुष्पपुटादिभिः ॥ २१३ ॥
तथोचितैः प्रतिदिशं तत्तत्कारानुसारतः ।
निस्सारुकेन ताळेन सपताकं प्रनृत्यच ॥ २१४ ॥
तेनकै श्चाळकोपेतैः प्रनृत्यध्रुवकेण च ।
विलम्बेन ततोनृत्येत् शब्दखण्डेन तत्परम् ॥ २१५ ॥
यतिगीतेनैकताळ्या यत्यावायत्रनृत्यति ।
हावभावादिसुभगं लास्यलीलामनोहरम् ॥ २१६ ॥
स्वरमण्ठकनृत्यं तदुक्तं नृत्यविशारदैः ॥ २१७ ॥
इति स्वरमण्ठनृत्यम् ।
अथ सालगसूडनृत्यम् ॥
ध्रुवोमण्ठोरूपकं च झंपाताळस्तृतीयकः ।
अष्टताळ्येकताळी च सप्तसालगसूडकाः ॥ २१८ ॥
रत्नाकरमते । आद्यो ध्रुवस्ततो मण्ठः प्रतिमण्ठोनिसारुकः ।
अड्डुताळस्ततोरास एकताळीत्यसौ मतः ॥ २१९ ॥
220
अथ शुद्धसूडनृत्यम् ।
एलाकरण ढेंकीभि वर्तन्या झोंबडेन च ।
लम्भरासैकताळीभिरष्टभिस्सूड उच्यते ॥ २२० ॥
अथ ध्रुवगीत नृत्यम् ।
ध्रुवेण चञ्चत्कारान्तं पूर्वं पूर्ववदाचरेत् ।
करणैर्वेष्टिताद्यैश्च कृताङ्गपरिवर्तनम् ॥ २२१ ॥
दक्षिणादि क्रमान् कुर्वन् समानुभयतोगतीन् ।
नृत्येद् ध्रुवेणाभिनयं हस्तकैः सुमनोहरम् ॥ २२२ ॥
उद्ग्राहाभोगनृत्यान्ते उद्ग्राहादौ समापयेत् । इति ध्रुवनृत्यम्
मण्ठकस्य सकृन्नृत्ये उद्ग्राहं मण्ठतालतः ॥ २२३ ॥
द्वित्रिश्चुत्वा ध्रुवक माभोगस्तु सकृद्यदा ।
विचित्रहस्तकैर्न्यासं ध्रुवादौ पुनराचरेत् ॥ २२४ ॥
योज्यं तदा मण्ठनृत्यं सौष्ठवाधिष्ठितं शुभम् ।
इति म
221
लसत्कलासलास्याङ्गो यो नटः पाणिभिस्तदा ।
झंपाताळादि नृत्यं स्यात्कलासैरन्तरान्वितम् ॥ २२८ ॥
इति झंपाताळ नृत्यम् ।
तृतीयाख्येन तालेन द्रुतमानेन यो नटः ।
यदाभिनेयवशगैः करैरतिमनोहरैः ॥ २२९ ॥
लास्याङ्गैरन्वितैः कैश्चित्कलासैरपि नृत्यति ।
तदा तृतीय नृत्यं स्यान्नृत्यं विद्वत्सुखावहम् ॥ २३० ॥
इति तृतीय नृत्यम्
अङ्गुतालेन तालेन यदोद्ग्राहादि धातुषु ।
गीयमानेषु नृत्येयुः विलम्बितलयाश्रयम् ।
गीयमाने ध्रुवे कैश्चित् करैरतिमनोहरैः ॥ २३१ ।
तदाऽङ्गुताळनृत्यं स्यात्सामाजिक मनोहरम् ।
इत्यङ्गुताल नृत्यम् ।
एकताल्यभिधे गीते गीयमाने यदा द्रुतम् ॥ २३२ ॥
मध्ये मध्ये भ्रमरिकाप्रयोगं चालकान्वितम् ।
गीताकलासेनालापं लसल्लास्याङ्गसंयुतम् ॥ २३३ ॥
विविधं नर्तनं कुर्यादेकताल्यानुगं यदा ।
नृत्यं विचित्रया रीत्या तदाजनमनोहरम् ॥ २३४ ॥
इत्येकताळी नृत्यम् ।
Sl. 201-233) Gita Nritya and its varieties. Here
ends the Suddha paddhati or classical dance.
சு. 201-233 கீத நிருத்யம் - அதன் வகைகள். இதனுடன்
'சுத்த பத்ததி' என்ற நர்த்தன விவரம் முடிந்தது.
इति शुद्धपद्धतिः ।
अथ देशीनृत्यविधिः ।
तत्र चिन्दुन्नृत्यम् ।
विडचिन्दुः कालचारीचेतिचिन्दुद्विधाभवेत् ।
पदपिलमुरूरूयत्र निबद्धोविडचिन्दुकः ॥ २३५ ॥
तत्र जात्यनुकारेण कालचारीति कीर्तितः ।
तानतालसुलूलुतुङ्ग घर्घरीध्वनिपशेलम् ॥ १३६ ॥
वादिते तुडिकेचिन्दुगीतेन यतिपूर्वकम् ।
तत्तज्जातियुतं नृत्यं नानागतिविचित्रितम् ॥ २३७ ॥
चारुपाटानुकं चञ्चत्किङ्किणीध्वनिपेशलम् ।
कलामैरपिलास्याङ्गै रङ्गजैरन्तरान्तरा ॥ २३८ ॥
धृतहस्तत्रिशूलादि यत्रनृत्यंसमाचरेत् ।
तदाधीरैस्समाख्यातं चिन्धुनृत्यं मनोहरम् ॥ २३९ ॥
यत्रोद्ग्राहध्रुवपदे बद्धे द्राविडभाषया ।
तद्गीतं चिन्दुसंज्ञंस्यात् आभोगेनविवर्जित
223
विचित्रचरणं साक्षाद्रागमूर्तिमिवाङ्गकैः ।
दर्शयन् विविधं नृत्यं लास्यलीलामनोहरम् ॥ २४३ ॥
ततः पिल्लुरूनृत्यं मध्ये मध्ये यथोचितम् ।
धरूभिर्हावभावाभ्यां लयतालानुसंगतम् ॥ २४४ ॥
कोमळाङ्गैरन्वितं च नर्तनं तनुयात्ततः ।
वाद्याक्षरैर्निर्मितं च नृत्यन्तुद्रुतमानतः ॥ २४५ ॥
पुनः पिल्लुरूपद्या नृत्यं च विधिपूर्वकम् ।
पुनः शब्दाक्षरैर्नृत्यं सूलूषेन यथोचितम् ॥ २४६ ॥
रचयेदथ शब्देन द्विरावृत्तपदेन च ।
विधाय नर्तनं चारुशब्देन्यास समाचरेत् ॥ २४७ ॥
एवं कर्तरि नृत्ये च यथायोग्यं समाचरेत् ।
नियमात्कर्तरि ज्ञेया रसिकानां सुखप्रदा ॥ २४८ ॥
मल्लिकामोदनामापि प्रसिद्धा लक्ष्यदृष्टितः ।
अद्री तुड्डुकपर्याया नृत्यज्ञैः कथिता यतः ॥ २४९ ॥
आलापो यत्र नृत्येत धरूणां यत्र नर्तनम् ।
स्वरपट्टिसमायुक्तं सुलूपं पदमेव च ॥ २५० ॥
क्रमेण व्युत्क्रमेणाथ नर्तनं कट्टरिर्मता ।
बन्धनापरपर्यायाः कथिता नृत्यवेदिभिः ॥ २५१ ॥
तत्तत्कारादिकैः पाटैरेकताल्यादिभिर्युतम् ।
धात्वादिरहितं गीतं आलापः परिकीर्तितः । अथवा
रागालापनमाप्तिः प्रकटीकरणं मतम् ॥ २५२ ॥
इति आलापः ।
भाषयाचांध्रयानित्यं ध्रुवधातुविनिर्मिता ।
उद्ग्राहाऽभोगरहिता धरू तद्ज्ञैर्निरूपिता ॥ २५३ ॥
धरू वेदमिताकेचिदन्ये वाणाङ्ग सम्मिता ।
नस्वीकुर्वन्ति नियमं लक्ष्यानियमदर्शनात् । ॥ २५४ ॥
इति धरू ।
पदमेकं ताळहीनं बद्धं तैलङ्गभाषया ।
पूर्वस्वरोच्चार्यमाणं यदेकयतिसंयुतम् ॥ २५५ ॥
पद्ध्टिः साकथिता तद्ज्ञैः विदग्धानां मनोहरा ।
किन्नरी ताळयुक्तं च तेन शब्देन नर्तनम् ॥ २६३ ॥
मृदङ्गादियुतं यत्स्यात् सुळूपं तन्निगद्यते ।
तत्तैर्विरचितं यद्वा सर्वदा सुखदं भवेत् ॥ २५७ ॥
कर्णाट भाषया बद्धैर्युदुग्राहादिभिर्युतम् ।
ताळेन येन केनापि युतं तत्पदसंज्ञकम् ॥ २५८ ॥
सामान्य लक्षणमिदं कथितं लक्ष्यदृष्टितः ।
अन्येऽपि कट्टेरेर्भेदाद्रष्टव्या जतिपोषिताः ॥ २५९ ॥
इति कट्टेरिंनृत्यम् ।
विधुतं कम्पितं यत् स्याद्रेचकचतुष्टयम्
शिरोग्रीवाहस्तपाद कम्पनं रेचकं विदुः ॥ २६० ॥
225
आन्ध्र कर्णाट भाषाभिर्युतं च ध्रुवधातुना
लास्यकैलमुरुमयं कलाकोविदरञ्जकम् ॥ २६१ ॥
वैपोतारुयं तदानृत्यं रसजं दृष्टिसौख्यदम् । इति वैपोतारुयम्
अथ बन्धनृत्यम् ।
यलपात्रे उभेयुक्ते नृत्येते करणैस्तदा ।
यथामिथो भुजौहस्तौ पादावपि तथा तयोः ॥ २६२ ॥
रमणीयाकृतिर्यद्वा त्रीणि चत्वारिवा तथा ।
यद्वासुन्दररूपाणि त्रीणि चत्वारि पञ्चच ॥ २६३ ॥
यलनृत्यन्ति तन्नृत्यं बन्धपूर्वकनृत्यकम् ।
बन्धनृत्ये विलासिन्याः प्राधान्यं तु विशेषतः ॥ २६४ ॥
इति बन्ध नृत्यम् ।
अथ कल्पनृत्यम् ।
किञ्चित्करणमाश्रित्य स्थानकं वा यथेप्सितम् ।
एषां न्यासविधिं कुर्यात्प्रायो नृत्यविचक्षणः ॥ २६५ ॥
प्रायशो गीतनृत्येतु कल्पतालौ बुधैर्मतौ ।
यतोविनाऽऽभ्यो नोभाति नृत्यं सर्वाङ्गसुन्दरम् ॥ २६६ ॥
यो गीताद्यपदस्यादौ तदन्तस्पर्शरञ्जकः ।
अपरस्यपरस्यादौ संकल्प इति कथ्यते ॥ २६७ ॥
इति कल्पनृत्यम् ।