सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 239, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 239

209
स्थानं स्थितिर्गतिश्चारी स्थानमाद्यंतयोर्गतेः ।
तत्रैकपादगतिः पादचारीशब्देनकथ्यते ॥ १४२ ॥
पादद्वयेन करणं तन्नृत्यकरणात्पृथक् ।
करणैःस्यात्त्रिभिः खण्डो मण्डलं खण्डकैस्त्रिभिः ॥ १४३ ॥
चतुर्भिर्वा क्रमात्ताळे त्र्यश्रे च चतुरश्रके ।
इति शब्दचालिनृत्यम् ।
(Sl, 135-143) Sabda Chali Nritya (Symmetrically
repeated dance to the accompaniment of syllables of
instrumental sounds in the 5 margas or provincial modes
of varied paces)
(சு, 135-143) சப்தசாலீ நிருத்யம் (இடசாரி வலசாரியாக
வாத்ய அக்ஷரங்களை அனுசரித்துச் செய்யப்படும் நர்த்தனம்)
अथेदानीं उड्डुपान्युच्यन्ते
तत्र द्वादश उड्डुपानिः—
नेरिः करणनेरिश्च भिन्नं चित्रं तथा भवेत् ॥ १४४ ॥
नत्रं च जारमानञ्च मूरुरिट्ट(पिल्ल)सुरुस्तथा ।
हुल्लं च लावणीज्ञेया कर्तरी तुलुकन्तथा ॥ १४५ ॥
प्रसरं च द्वादशस्यु रुड्डुपानियथाक्रमम् ।
आदिताळानुगंयत्तल विलम्बितलयान्वितम् ॥ १४६ ॥
रेखामुद्राप्रमाणाढ्यं नानाकरविभूषितम् ।
दिक्‌चक्राभिमुखं नृत्तं नेरिरित्यभिधीयते । इति नेरिः ।
अयं करणसंयुक्तो मतःकरणनेरुकः । इति करण नेरिः ।
27